४. अद्धासुत्तवण्णना

६३. चतुत्थे अद्धाति काला. अतीतो अद्धातिआदीसु द्वे परियाया – सुत्तन्तपरियायो, अभिधम्मपरियायो च. तत्थ सुत्तन्तपरियायेन पटिसन्धितो पुब्बे अतीतो अद्धा नाम, चुतितो पच्छा अनागतो अद्धा नाम, सह चुतिपटिसन्धीहि तदनन्तरं पच्चुप्पन्नो अद्धा नाम. अभिधम्मपरियायेन उप्पादो, ठिति, भङ्गोति इमे तयो खणे पत्वा निरुद्धधम्मा अतीतो अद्धा नाम, तयोपि खणे असम्पत्ता अनागतो अद्धा नाम, खणत्तयसमङ्गिनो पच्चुप्पन्नो अद्धा नाम.

अपरो नयो – अयञ्हि अतीतादिविभागो अद्धासन्ततिसमयखणवसेन चतुधा वेदितब्बो. तेसु अद्धाविभागो वुत्तो. सन्ततिवसेन सभागा एकउतुसमुट्ठाना, एकाहारसमुट्ठाना च पुब्बापरियवसेन वत्तमानापि पच्चुप्पन्ना. ततो पुब्बे विसभागउतुआहारसमुट्ठाना अतीता पच्छा अनागता. चित्तजा एकवीथिएकजवनएकसमापत्तिसमुट्ठाना पच्चुप्पन्ना नाम, ततो पुब्बे अतीता, पच्छा अनागता. कम्मसमुट्ठानानं पाटियेक्कं सन्ततिवसेन अतीतादिभेदो नत्थि, तेसंयेव पन उतुआहारचित्तसमुट्ठानानं उपत्थम्भकवसेन तस्स अतीतादिभावो वेदितब्बो. समयवसेन एकमुहुत्तपुब्बण्हसायन्हरत्तिदिवादीसु समयेसु सन्तानवसेन पवत्तमाना तंतंसमये पच्चुप्पन्ना नाम, ततो पुब्बे अतीता, पच्छा अनागता. अयं ताव रूपधम्मेसु नयो. अरूपधम्मेसु पन खणवसेन उप्पादादिक्खणत्तयपरियापन्ना पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता. अपिच अतिक्कन्तहेतुपच्चयकिच्चा अतीता, निट्ठितहेतुकिच्चा अनिट्ठितपच्चयकिच्चा पच्चुप्पन्ना, उभयकिच्चं असम्पत्ता अनागता. अत्तनो वा किच्चक्खणे पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता. एत्थ च खणादिकथाव निप्परियाया, सेसा परियाया. अयञ्हि अतीतादिभेदो नाम धम्मानं होति, न कालस्स. अतीतादिभेदे पन धम्मे उपादाय परमत्थतो अविज्जमानोपि कालो इध तेनेव वोहारेन अतीतोतिआदिना वुत्तोति वेदितब्बो.

गाथासु अक्खेय्यसञ्ञिनोति एत्थ अक्खायति, कथीयति, पञ्ञापीयतीति अक्खेय्यं, कथावत्थु, अत्थतो रूपादयो पञ्चक्खन्धा. वुत्तञ्हेतं –

‘‘अतीतं वा अद्धानं आरब्भ कथं कथेय्य, अनागतं वा…पे… पच्चुप्पन्नं वा अद्धानं आरब्भ कथं कथेय्या’’ति (दी. नि. ३.३०५).

तथा –

‘‘यं, भिक्खवे, रूपं अतीतं निरुद्धं विपरिणतं, ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा अत्थीति, न तस्स सङ्खा भविस्सती’’ति (सं. नि. ३.६२) –

एवं वुत्तेन निरुत्तिपथसुत्तेनपि एत्थ अत्थो दीपेतब्बो. एवं कथावत्थुभावेन अक्खेय्यसङ्खाते खन्धपञ्चके अहन्ति च ममन्ति च देवोति च मनुस्सोति च इत्थीति च पुरिसोति च आदिना पवत्तसञ्ञावसेन अक्खेय्यसञ्ञिनो, पञ्चसु उपादानक्खन्धेसु सत्तपुग्गलादिसञ्ञिनोति अत्थो. अक्खेय्यस्मिं तण्हादिट्ठिग्गाहवसेन पतिट्ठिता, रागादिवसेन वा अट्ठहाकारेहि पतिट्ठिता. रत्तो हि रागवसेन पतिट्ठितो होति, दुट्ठो दोसवसेन, मूळ्हो मोहवसेन, परामट्ठो दिट्ठिवसेन, थामगतो अनुसयवसेन, विनिबद्धो मानवसेन, अनिट्ठङ्गतो विचिकिच्छावसेन, विक्खेपगतो उद्धच्चवसेन पतिट्ठितो होतीति.

अक्खेय्यं अपरिञ्ञायाति तं अक्खेय्यं तेभूमकधम्मे तीहि परिञ्ञाहि अपरिजानित्वा तस्स अपरिजाननहेतु. योगमायन्ति मच्चुनोति मरणस्स योगं तेन संयोगं उपगच्छन्ति, न विसंयोगन्ति अत्थो.

अथ वा योगन्ति उपायं, तेन योजितं पसारितं मारसेनट्ठानियं अनत्थजालं किलेसजालञ्च उपगच्छन्तीति वुत्तं होति. तथा हि वुत्तं –

‘‘न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति. (म. नि. ३.२७२; जा. २.२२.१२१; नेत्ति. १०३);

एत्तावता वट्टं दस्सेत्वा इदानि विवट्टं दस्सेतुं ‘‘अक्खेय्यञ्च परिञ्ञाया’’तिआदि वुत्तं. तत्थ च-सद्दो ब्यतिरेके, तेन अक्खेय्यपरिजाननेन लद्धब्बं वक्खमानमेव विसेसं जोतेति. परिञ्ञायाति विपस्सनासहिताय मग्गपञ्ञाय दुक्खन्ति परिच्छिज्ज जानित्वा, तप्पटिबद्धकिलेसप्पहानेन वा तं समतिक्कमित्वा तिस्सन्नम्पि परिञ्ञानं किच्चं मत्थकं पापेत्वा. अक्खातारं न मञ्ञतीति सब्बसो मञ्ञनानं पहीनत्ता खीणासवो अक्खातारं न मञ्ञति, कारकादिसभावं किञ्चि अत्तानं न पच्चेतीति अत्थो. फुट्ठो विमोक्खो मनसा, सन्तिपदमनुत्तरन्ति यस्मा सब्बसङ्खतविमुत्तत्ता ‘‘विमोक्खो’’ति सब्बकिलेससन्तापवूपसमनट्ठानताय ‘‘सन्तिपद’’न्ति लद्धनामो निब्बानधम्मो फुट्ठो फुसितो पत्तो, तस्मा अक्खातारं न मञ्ञतीति. अथ वा ‘‘परिञ्ञाया’’ति पदेन दुक्खसच्चस्स परिञ्ञाभिसमयं समुदयसच्चस्स पहानाभिसमयञ्च वत्वा इदानि ‘‘फुट्ठो विमोक्खो मनसा, सन्तिपदमनुत्तर’’न्ति इमिना मग्गनिरोधानं भावनासच्छिकिरियाभिसमयं वदति. तस्सत्थो – समुच्छेदवसेन सब्बकिलेसेहि विमुच्चतीति विमोक्खो, अरियमग्गो. सो पनस्स मग्गचित्तेन फुट्ठो फुसितो भावितो, तेनेव अनुत्तरं सन्तिपदं निब्बानं फुट्ठं फुसितं सच्छिकतन्ति.

अक्खेय्यसम्पन्नोति अक्खेय्यनिमित्तं विविधाहि विपत्तीहि उपद्दुते लोके पहीनविपल्लासताय ततो सुपरिमुत्तो अक्खेय्यपरिञ्ञाभिनिब्बत्ताहि सम्पत्तीहि सम्पन्नो समन्नागतो. सङ्खाय सेवीति पञ्ञावेपुल्लप्पत्तिया चीवरादिपच्चये सङ्खाय परितुलेत्वाव सेवनसीलो, सङ्खातधम्मत्ता च आपाथगतं सब्बम्पि विसयं छळङ्गुपेक्खावसेन सङ्खाय सेवनसीलो. धम्मट्ठोति असेक्खधम्मेसु निब्बानधम्मे एव वा ठितो. वेदगूति वेदितब्बस्स चतुसच्चस्स पारङ्गतत्ता वेदगू. एवंगुणो अरहा भवादीसु कत्थचि आयतिं पुनब्भवाभावतो मनुस्सदेवाति सङ्ख्यं न उपेति, अपञ्ञत्तिकभावमेव गच्छतीति अनुपादापरिनिब्बानेन देसनं निट्ठापेसि.

चतुत्थसुत्तवण्णना निट्ठिता.