१. पुञ्ञकिरियवत्थुसुत्तवण्णना
६०. दुतियवग्गस्स पठमे पुञ्ञकिरियवत्थूनीति पुज्जभवफलं निब्बत्तेन्ति, अत्तनो सन्तानं पुनन्तीति वा पुञ्ञानि, पुञ्ञानि च तानि हेतुपच्चयेहि कत्तब्बतो किरिया चाति पुञ्ञकिरिया. ता एव च तेसं तेसं आनिसंसानं वत्थुभावतो पुञ्ञकिरियवत्थूनि. दानमयन्ति अनुपच्छिन्नभवमूलस्स अनुग्गहवसेन पूजावसेन वा अत्तनो देय्यधम्मस्स परेसं परिच्चागचेतना दीयति एतायाति दानं, दानमेव दानमयं. चीवरादीसु हि चतूसु पच्चयेसु अन्नादीसु वा दससु दानवत्थूसु रूपादीसु वा छसु आरम्मणेसु तं तं देन्तस्स तेसं उप्पादनतो पट्ठाय पुब्बभागे परिच्चागकाले पच्छा सोमनस्सचित्तेन अनुस्सरणे चाति तीसु कालेसु वुत्तनयेन पवत्तचेतना दानमयं पुञ्ञकिरियवत्थु नाम.
सीलमयन्ति निच्चसीलउपोसथनियमादिवसेन पञ्च, अट्ठ, दस वा सीलानि समादियन्तस्स सीलपूरणत्थं पब्बजिस्सामीति विहारं गच्छन्तस्स पब्बजन्तस्स मनोरथं मत्थकं पापेत्वा ‘‘पब्बजितो वतम्हि साधु सुट्ठू’’ति आवज्जेन्तस्स सद्धाय पातिमोक्खं परिपूरेन्तस्स पञ्ञाय चीवरादिके पच्चवेक्खन्तस्स सतिया आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स वीरियेन आजीवं सोधेन्तस्स च पवत्ता चेतना सीलतीति सीलमयं पुञ्ञकिरियवत्थु नाम.
तथा पटिसम्भिदायं (पटि. म. १.४८) वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स सोतं, घानं, जिव्हं, कायं, मनं. रूपे…पे… धम्मे, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं. चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं. रूपसञ्ञं…पे… धम्मसञ्ञं. जरामरणं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स या चेतना, या च पथवीकसिणादीसु अट्ठतिंसाय आरम्मणेसु पवत्ता झानचेतना, या च अनवज्जेसु कम्मायतनसिप्पायतनविज्जाट्ठानेसु परिचयमनसिकारादिवसेन पवत्ता चेतना, सब्बा भावेति एतायाति भावनामयं वुत्तनयेन पुञ्ञकिरियवत्थु चाति.
एकमेकञ्चेत्थ यथारहं पुब्बभागतो पट्ठाय कायेन करोन्तस्स कायकम्मं होति, तदत्थं वाचं निच्छारेन्तस्स वचीकम्मं, कायङ्गं वाचङ्गञ्च अचोपेत्वा मनसा चिन्तेन्तस्स मनोकम्मं. अन्नादीनि देन्तस्स चापि ‘‘अन्नदानादीनि देमी’’ति वा दानपारमिं आवज्जेत्वा वा दानकाले दानमयं पुञ्ञकिरियवत्थु होति. वत्तसीसे ठत्वा ददतो सीलमयं, खयतो वयतो कम्मतो सम्मसनं पट्ठपेत्वा ददतो भावनामयं पुञ्ञकिरियवत्थु होति.
अपरानिपि सत्त पुञ्ञकिरियवत्थूनि – अपचितिसहगतं पुञ्ञकिरियवत्थु वेय्यावच्चसहगतं पत्तिअनुप्पदानं अब्भनुमोदनं देसनामयं सवनमयं दिट्ठिजुगतं पुञ्ञकिरियवत्थूति. सरणगमनम्पि हि दिट्ठिजुगतेनेव सङ्गय्हति. यं पनेत्थ वत्तब्बं, तं परतो आवि भविस्सति.
तत्थ वुड्ढतरं दिस्वा पच्चुग्गमनपत्तचीवरपटिग्गहणाभिवादनमग्गसम्पदानादिवसेन अपचायनसहगतं वेदितब्बं. वुड्ढतरानं वत्तपटिपत्तिकरणवसेन, गामं पिण्डाय पविट्ठं भिक्खुं दिस्वा पत्तं गहेत्वा गामे भिक्खं सम्पादेत्वा उपसंहरणवसेन ‘‘गच्छ भिक्खूनं पत्तं आहरा’’ति सुत्वा वेगेन गन्त्वा पत्ताहरणादिवसेन च वेय्यावच्चसहगतं वेदितब्बं. चत्तारो पच्चये दत्वा पुप्फगन्धादीहि रतनत्तयस्स पूजं कत्वा अञ्ञं वा तादिसं पुञ्ञं कत्वा ‘‘सब्बसत्तानं पत्ति होतू’’ति परिणामवसेन पत्तिअनुप्पदानं वेदितब्बं. तथा परेहि दिन्नाय पत्तिया केवलं वा परेहि कतं पुञ्ञं ‘‘साधु, सुट्ठू’’ति अनुमोदनवसेन अब्भनुमोदनं वेदितब्बं. अत्तनो पगुणधम्मं अपच्चासीसन्तो हितज्झासयेन परेसं देसेति – इदं देसनामयं पुञ्ञकिरियवत्थु नाम. यं पन एको ‘‘एवं मं धम्मकथिकोति जानिस्सन्ती’’ति इच्छाय ठत्वा लाभसक्कारसिलोकसन्निस्सितो धम्मं देसेति, तं न महप्फलं होति. ‘‘अद्धा अयं अत्तहितपरहितानं पटिपज्जनूपायो’’ति योनिसोमनसिकारपुरेचारिकहितफरणेन मुदुचित्तेन धम्मं सुणाति, इदं सवनमयं पुञ्ञकिरियवत्थु होति. यं पनेको ‘‘इति मं सद्धोति जानिस्सन्ती’’ति सुणाति, तं न महप्फलं होति. दिट्ठिया उजुगमनं दिट्ठिजुगतं, ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्तस्स सम्मादस्सनस्स एतं अधिवचनं. इदञ्हि पुब्बभागे वा पच्छाभागे वा ञाणविप्पयुत्तम्पि उजुकरणकाले ञाणसम्पयुत्तमेव होति. अपरे पनाहु ‘‘विजाननपजाननवसेन दस्सनं दिट्ठि कुसलञ्च विञ्ञाणं कम्मस्सकताञाणादि च सम्मादस्सन’’न्ति. तत्थ कुसलेन विञ्ञाणेन ञाणस्स अनुप्पादेपि अत्तना कतपुञ्ञानुस्सरणवण्णारहवण्णनादीनं सङ्गहो, कम्मस्सकताञाणेन कम्मपथसम्मादिट्ठिया. इतरं पन दिट्ठिजुगतं सब्बेसं नियमलक्खणं. यञ्हि किञ्चि पुञ्ञं करोन्तस्स दिट्ठिया उजुभावेनेव तं महप्फलं होति.
इमेसं पन सत्तन्नं पुञ्ञकिरियवत्थूनं पुरिमेहि तीहि दानमयादीहि पुञ्ञकिरियवत्थूहि सङ्गहो. तत्थ हि अपचायनवेय्यावच्चानि सीलमये, पत्तिअनुप्पदानअब्भनुमोदनानि दानमये, धम्मदेसनासवनानि भावनामये, दिट्ठिजुगतं तीसुपि. तेनाह भगवा –
‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि. कतमानि तीणि? दानमयं…पे… भावनामयं पुञ्ञकिरियवत्थू’’ति (अ. नि. ८.३६).
एत्थ च अट्ठन्नं कामावचरकुसलचेतनानं वसेन तिण्णम्पि पुञ्ञकिरियवत्थूनं पवत्ति होति. यथा हि पगुणं धम्मं परिवत्तेन्तस्स एकच्चे अनुसन्धिं असल्लक्खेन्तस्सेव गच्छन्ति, एवं पगुणं समथविपस्सनाभावनं अनुयुञ्जन्तस्स अन्तरन्तरा ञाणविप्पयुत्तचित्तेनापि मनसिकारो पवत्तति. सब्बं तं पन महग्गतकुसलचेतनानं वसेन भावनामयमेव पुञ्ञकिरियवत्थु होति, न इतरानि. गाथाय अत्थो हेट्ठा वुत्तोयेव.
पठमसुत्तवण्णना निट्ठिता.