५. पठमसीलसुत्तवण्णना
३२. पञ्चमे पापकेन च सीलेनाति पापकं नाम सीलं सीलभेदकरो असंवरोति वदन्ति. तत्थ यदि असंवरो असीलमेव तंदुस्सील्यभावतो, कथं सीलन्ति वुच्चति? तत्थायं अधिप्पायो सिया – यथा नाम लोके अदिट्ठं ‘‘दिट्ठ’’न्ति वुच्चति, असीलवा ‘‘सीलवा’’ति, एवमिधापि असीलम्पि असंवरोपि ‘‘सील’’न्ति वोहरीयति. अथ वा ‘‘कतमे च, थपति, अकुसला सीला? अकुसलं कायकम्मं, अकुसलं वचीकम्मं, पापको आजीवो’’ति (म. नि. २.२६४) वचनतो अकुसलधम्मेसुपि अत्थेव सीलसमञ्ञा, तस्मा परिचयवसेन सभावसिद्धि विय पकतिभूतो सब्बो समाचारो ‘‘सील’’न्ति वुच्चति. तत्थ यं अकोसल्लसम्भूतट्ठेन अकुसलं लामकं, तं सन्धायाह ‘‘पापकेन च सीलेना’’ति. पापिकाय च दिट्ठियाति सब्बापि मिच्छादिट्ठियो पापिकाव. विसेसतो पन अहेतुकदिट्ठि, अकिरियदिट्ठि, नत्थिकदिट्ठीति इमा तिविधा दिट्ठियो पापिकतरा. तत्थ पापकेन सीलेन समन्नागतो पुग्गलो पयोगविपन्नो होति, पापिकाय दिट्ठिया समन्नागतो आसयविपन्नो होति, एवं पयोगासयविपन्नो पुग्गलो निरयूपगो होतियेव. तेन वुत्तं ‘‘इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो, एवं निरये’’ति. एत्थ च ‘‘द्वीहि धम्मेहि समन्नागतो’’ति इदं लक्खणवचनं दट्ठब्बं, न तन्तिनिद्देसो. यथा तं लोके ‘‘यदिमे ब्याधिता सियुं, इमेसं इदं भेसज्जं दातब्ब’’न्ति. अञ्ञेसुपि ईदिसेसु ठानेसु एसेव नयो. दुप्पञ्ञोति निप्पञ्ञो.
पञ्चमसुत्तवण्णना निट्ठिता.