९. सङ्घसामग्गीसुत्तवण्णना

१९. नवमे एकधम्मोति एको कुसलधम्मो अनवज्जधम्मो. ‘‘अयं धम्मो, नायं धम्मो’’तिआदिना सचे सङ्घे विवादो उप्पज्जेय्य, तत्थ धम्मकामेन विञ्ञुना इति पटिसञ्चिक्खितब्बं ‘‘ठानं खो, पनेतं विज्जति, यदिदं विवादो वड्ढमानो सङ्घराजिया वा सङ्घभेदाय वा संवत्तेय्या’’ति. सचे तं अधिकरणं अत्तना पग्गहेत्वा ठितो, अग्गिं अक्कन्तेन विय सहसा ततो ओरमितब्बं. अथ परेहि तं पग्गहितं सयञ्चेतं सक्कोति वूपसमेतुं, उस्साहजातो हुत्वा दूरम्पि गन्त्वा तथा पटिपज्जितब्बं, यथा तं वूपसम्मति. सचे पन सयं न सक्कोति, सो च विवादो उपरूपरि वड्ढतेव, न वूपसम्मति. ये तत्थ पतिरूपा सिक्खाकामा सब्रह्मचारिनो, ते उस्साहेत्वा येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं यथा वूपसम्मति, तथा वूपसमेतब्बं. एवं वूपसमेन्तस्स यो सङ्घसामग्गिकरो कुसलो धम्मो, अयमेत्थ एकधम्मोति अधिप्पेतो. सो हि उभतोपक्खियानं द्वेळ्हकजातानं भिक्खूनं, तेसं अनुवत्तनवसेन ठितानं भिक्खुनीनं उपासकानं उपासिकानं तेसं आरक्खदेवतानं यावदेव ब्रह्मानम्पि उप्पज्जनारहं अहितं दुक्खावहं संकिलेसधम्मं अपनेत्वा महतो पुञ्ञरासिस्स कुसलाभिसन्दस्स हेतुभावतो सदेवकस्स लोकस्स हितसुखावहो होति. तेन वुत्तं ‘‘एकधम्मो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताया’’तिआदि. तस्सत्थो अनन्तरसुत्ते वुत्तविपरियायेन वेदितब्बो. सङ्घसामग्गीति सङ्घस्स समग्गभावो भेदाभावो एककम्मता एकुद्देसता च.

गाथायं सुखा सङ्घस्स सामग्गीति सुखस्स पच्चयभावतो सामग्गी सुखाति वुत्ता. यथा ‘‘सुखो बुद्धानमुप्पादो’’ति (ध. प. १९४). समग्गानञ्चनुग्गहोति समग्गानं सामग्गिअनुमोदनेन अनुग्गण्हनं सामग्गिअनुरूपं, यथा ते सामग्गिं न विजहन्ति, तथा गहणं ठपनं अनुबलप्पदानन्ति अत्थो. सङ्घं समग्गं कत्वानाति भिन्नं सङ्घं राजिपत्तं वा समग्गं सहितं कत्वा. कप्पन्ति आयुकप्पमेव. सग्गम्हि मोदतीति कामावचरदेवलोके अञ्ञे देवे दसहि ठानेहि अभिभवित्वा दिब्बसुखं अनुभवन्तो इच्छितनिप्फत्तियाव मोदति पमोदति ललति कीळतीति.

नवमसुत्तवण्णना निट्ठिता.