२१. पब्भारवासीतिस्सत्थेरवत्थु
असंसट्ठन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पब्भारवासीतिस्सत्थेरं आरब्भ कथेसि.
सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा सप्पायं सेनासनं ओलोकेन्तो एकं लेणपब्भारं पापुणि, सम्पत्तक्खणेयेवस्स चित्तं एकग्गतं लभि. सो ‘‘अहं इध वसन्तो पब्बजितकिच्चं निप्फादेतुं सक्खिस्सामी’’ति चिन्तेसि. लेणेपि अधिवत्था देवता ‘‘सीलवा भिक्खु आगतो, इमिना सद्धिं एकट्ठाने वसितुं दुक्खं. अयं पन इध एकरत्तिमेव वसित्वा पक्कमिस्सती’’ति चिन्तेत्वा पुत्ते आदाय निक्खमि. थेरो पुनदिवसे पातोव गोचरगामं पिण्डाय पाविसि. अथ नं एका उपासिका दिस्वाव पुत्तसिनेहं पटिलभित्वा गेहे निसीदापेत्वा भोजेत्वा अत्तानं निस्साय तेमासं वसनत्थाय याचि. सोपि ‘‘सक्का मया इमं निस्साय भवनिस्सरणं कातु’’न्ति अधिवासेत्वा तमेव लेणं अगमासि. देवता तं आगच्छन्तं दिस्वा ‘‘अद्धा केनचि निमन्तितो भविस्सति, स्वे वा परसुवे वा गमिस्सती’’ति चिन्तेसि.
एवं अड्ढमासमत्ते अतिक्कन्ते ‘‘अयं इधेव मञ्ञे अन्तोवस्सं वसिस्सति, सीलवता पन सद्धिं एकट्ठाने पुत्तकेहि सद्धिं वसितुं दुक्करं, इमञ्च ‘निक्खमा’ति वत्तुं न सक्का, अत्थि नु खो इमस्स सीले खलित’’न्ति दिब्बेन चक्खुना ओलोकेन्ती उपसम्पदमाळकतो पट्ठाय तस्स सीले खलितं अदिस्वा ‘‘परिसुद्धमस्स सीलं, किञ्चिदेवस्स कत्वा अयसं उप्पादेस्सामी’’ति तस्स उपट्ठाककुले उपासिकाय जेट्ठपुत्तस्स सरीरे अधिमुच्चित्वा गीवं परिवत्तेसि. तस्स अक्खीनि निक्खमिंसु, मुखतो खेळो पग्घरि. उपासिका तं दिस्वा ‘‘किं इद’’न्ति विरवि. अथ नं देवता अदिस्समानरूपा एवमाह – ‘‘मया एस गहितो, बलिकम्मेनपि मे अत्थो नत्थि, तुम्हाकं पन कुलूपकं थेरं लट्ठिमधुकं याचित्वा तेन तेलं पचित्वा इमस्स नत्थुकम्मं देथ, एवाहं इमं मुञ्चिस्सामी’’ति. नस्सतु वा एस मरतु वा, न सक्खिस्सामहं अय्यं लट्ठिमधुकं याचितुन्ति. सचे लट्ठिमधुकं याचितुं न सक्कोथ, नासिकायस्स हिङ्गुचुण्णं पक्खिपितुं वदेथाति. इदम्पि वत्तुं न सक्कोमाति. तेन हिस्स पादधोवनउदकं आदाय सीसे आसिञ्चथाति. उपासिका ‘‘सक्का इदं कातु’’न्ति वेलाय आगतं थेरं निसीदापेत्वा यागुखज्जकं दत्वा अन्तरभत्ते निसिन्नस्स पादे धोवित्वा उदकं गहेत्वा, ‘‘भन्ते, इदं उदकं दारकस्स सीसे आसिञ्चामा’’ति आपुच्छित्वा ‘‘तेन हि आसिञ्चथा’’ति वुत्ते तथा अकासि. सा देवता तावदेव तं मुञ्चित्वा गन्त्वा लेणद्वारे अट्ठासि.
थेरोपि भत्तकिच्चावसाने उट्ठायासना अविस्सट्ठकम्मट्ठानताय द्वत्तिंसाकारं सज्झायन्तोव पक्कामि. अथ नं लेणद्वारं पत्तकाले सा देवता ‘‘महावेज्ज मा इध पविसा’’ति आह. सो तत्थेव ठत्वा ‘‘कासि त्व’’न्ति आह. अहं इध अधिवत्था देवताति. थेरो ‘‘अत्थि नु खो मया वेज्जकम्मस्स कतट्ठान’’न्ति उपसम्पदमाळकतो पट्ठाय ओलोकेन्तो अत्तनो सीले तिलकं वा काळकं वा अदिस्वा ‘‘अहं मया वेज्जकम्मस्स कतट्ठानं न पस्सामि, कस्मा एवं वदेसी’’ति आह. न पस्ससीति. आम, न पस्सामीति? आचिक्खामि तेति. आम, आचिक्खाहीति. तिट्ठतु ताव दूरे कतं, अज्जेव तया अमनुस्सगहितस्स उपट्ठाकपुत्तस्स पादधोवनउदकं सीसे आसित्तं, नासित्तन्ति? आम, आसित्तन्ति. किं एतं न पस्ससीति? एतं सन्धाय त्वं वदेसीति? आम, एतं सन्धाय वदामीति. थेरो चिन्तेसि – ‘‘अहो वत मे सम्मा पणिहितो अत्ता, सासनस्स अनुरूपं वत मे चरितं, देवतापि मम चतुपारिसुद्धिसीले तिलकं वा काळकं वा अदिस्वा दारकस्स सीसे आसित्तपादधोवनमत्तं अद्दसा’’ति तस्स सीलं आरब्भ बलवपीति उप्पज्जि. सो तं विक्खम्भेत्वा पादुद्धारम्पि अकत्वा तत्थेव अरहत्तं पत्वा ‘‘मादिसं परिसुद्धं समणं दूसेत्वा मा इध वनसण्डे वसि, त्वमेव निक्खमाही’’ति देवतं ओवदन्तो इमं उदानं उदानेसि –
‘‘विसुद्धो वत मे वासो, निम्मलं मं तपस्सिनं;
मा त्वं विसुद्धं दूसेसि, निक्खम पवना तुव’’न्ति.
सो तत्थेव तेमासं वसित्वा वुत्थवस्सो सत्थु सन्तिकं गन्त्वा भिक्खूहि ‘‘किं, आवुसो, पब्बजितकिच्चं ते मत्थकं पापित’’न्ति पुट्ठो तस्मिं लेणे वस्सूपगमनतो पट्ठाय सब्बं तं पवत्तिं भिक्खूनं आरोचेत्वा, ‘‘आवुसो, त्वं देवताय एवं वुच्चमानो न कुज्झी’’ति वुत्ते ‘‘न कुज्झि’’न्ति आह. भिक्खू तथागतस्स आरोचेसुं, ‘‘भन्ते, अयं भिक्खु अञ्ञं ब्याकरोति, देवताय इदं नाम वुच्चमानोपि न कुज्झिन्ति वदती’’ति. सत्था तेसं कथं सुत्वा ‘‘नेव, भिक्खवे, मम पुत्तो कुज्झति, एतस्स गिहीहि वा पब्बजितेहि वा संसग्गो नाम नत्थि, असंसट्ठो एस अप्पिच्छो सन्तुट्ठो’’ति वत्वा धम्मं देसेन्तो इमं गाथमाह –
४०४. ‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयं;
अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मण’’न्ति.
तत्थ असंसट्ठन्ति दस्सनसवनसमुल्लपनपरिभोगकायसंसग्गानं अभावेन असंसट्ठं. उभयन्ति गिहीहि च अनागारेहि चाति उभयेहिपि असंसट्ठं. अनोकसारिन्ति अनालयचारिं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पब्भारवासीतिस्सत्थेरवत्थु एकवीसतिमं.