१२. देवदत्तवत्थु
इध तप्पतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो देवदत्तं आरब्भ कथेसि.
देवदत्तस्स वत्थु पब्बजितकालतो पट्ठाय याव पथविप्पवेसना देवदत्तं आरब्भ भासितानि सब्बानि जातकानि वित्थारेत्वा कथितं. अयं पनेत्थ सङ्खेपो – सत्थरि अनुपियं नाम मल्लानं निगमो अत्थि. तं निस्साय अनुपियम्बवने विहरन्तेयेव तथागतस्स लक्खणपटिग्गहणदिवसेयेव असीतिसहस्सेहि ञातिकुलेहि ‘‘राजा वा होतु, बुद्धो वा, खत्तियपरिवारोव विचरिस्सती’’ति असीतिसहस्सपुत्ता पटिञ्ञाता. तेसु येभुय्येन पब्बजितेसु भद्दियं नाम राजानं, अनुरुद्धं, आनन्दं, भगुं, किमिलं, देवदत्तन्ति इमे छ सक्ये अपब्बजन्ते दिस्वा, ‘‘मयं अत्तनो पुत्ते पब्बाजेम, इमे छ सक्या न ञातका मञ्ञे, कस्मा न पब्बजन्ती’’ति? कथं समुट्ठापेसुं. अथ खो महानामो सक्यो अनुरुद्धं उपसङ्कमित्वा, ‘‘तात, अम्हाकं कुला पब्बजितो नत्थि, त्वं वा पब्बज, अहं वा पब्बजिस्सामी’’ति आह. सो पन सुखुमालो होति सम्पन्नभोगो, ‘‘नत्थी’’ति वचनम्पि तेन न सुतपुब्बं. एकदिवसञ्हि तेसु छसु खत्तियेसु गुळकीळं कीळन्तेसु अनुरुद्धो पूवेन पराजितो पूवत्थाय पहिणि, अथस्स माता पूवे सज्जेत्वा पहिणि. ते खादित्वा पुन कीळिंसु. पुनप्पुनं तस्सेव पराजयो होति. माता पनस्स पहिते पहिते तिक्खत्तुं पूवे पहिणित्वा चतुत्थवारे ‘‘पूवा नत्थी’’ति पहिणि. सो ‘‘नत्थी’’ति वचनस्स असुकपुब्बत्ता ‘‘एसापेका पूवविकति भविस्सती’’ति मञ्ञमानो ‘‘नत्थिपूवं मे आहरथा’’ति पेसेसि. माता पनस्स ‘‘नत्थिपूवं किर, अय्ये, देथा’’ति वुत्ते, ‘‘मम पुत्तेन ‘नत्थी’ति पदं न सुतपुब्बं, इमिना पन उपायेन नं एतमत्थं जानापेस्सामी’’ति तुच्छं सुवण्णपातिं अञ्ञाय सुवण्णपातिया पटिकुज्जित्वा पेसेसि. नगरपरिग्गाहिका देवता चिन्तेसुं – ‘‘अनुरुद्धसक्येन अन्नभारकाले अत्तनो भागभत्तं उपरिट्ठपच्चेकबुद्धस्स दत्वा ‘‘‘नत्थी’ति मे वचनस्स सवनं मा होतु, भोजनुप्पत्तिट्ठानजाननं मा ‘होतू’ति पत्थना कता, सचायं तुच्छपातिं पस्सिस्सति, देवसमागमं पविसितुं न लभिस्साम, सीसम्पि नो सत्तधा फलेय्या’’ति. अथ नं पातिं दिब्बपूवेहि पुण्णं अकंसु. कस्सा गुळमण्डले ठपेत्वा उग्घाटितमत्ताय पूवगन्धो सकलनगरे छादेत्वा ठितो. पूवखण्डं मुखे ठपितमत्तमेव सत्तरसहरणीसहस्सानि अनुफरि.
सो चिन्तेसि – ‘‘नाहं मातु पियो, एत्तकं मे कालं इमं नत्थिपूवं नाम न पचि, इतो पट्ठाय अञ्ञं पूवं नाम न खादिस्सामी’’ति, सो गेहं गन्त्वाव मातरं पुच्छि – ‘‘अम्म, तुम्हाकं अहं पियो, अप्पियो’’ति? ‘‘तात, एकक्खिनो अक्खि विय च हदयं विय च अतिविय पियो मे अहोसी’’ति. ‘‘अथ कस्मा एत्तकं कालं मय्हं नत्थि पूवं न पचित्थ, अम्मा’’ति? सा चूळूपट्ठाकं पुच्छि – ‘‘अत्थि किञ्चि पातियं, ताता’’ति? ‘‘परिपुण्णा, अय्ये, पाति पूवेहि, एवरूपा पूवा नाम मे न दिट्ठपुब्बा’’ति आरोचेसि. सा चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा कताभिनीहारो भविस्सति, देवताहि पातिं पूरेत्वा पूवा पहिता भविस्सन्ती’’ति. ‘‘अथ नं पुत्तो, अम्म, इतो पट्ठायाहं अञ्ञं पूवं नाम न खादिस्सामि, नत्थिपूवमेव पचेय्यासी’’ति. सापिस्स ततो पट्ठाय ‘‘पूवं खादितुकामोम्ही’’ति वुत्ते तुच्छपातिमेव अञ्ञाय पातिया पटिकुच्छित्वा पेसेसि. याव अगारमज्झे वसि, तावस्स देवताव पूवे पहिणिंसु.
सो एत्तकम्पि अजानन्तो पब्बज्जं नाम किं जानिस्सति? तस्मा ‘‘का एसा पब्बज्जा नामा’’ति भातरं पुच्छित्वा ‘‘ओहारितकेसमस्सुना कासायनिवत्थेन कट्ठत्थरके वा बिदलमञ्चके वा निपज्जित्वा पिण्डाय चरन्तेन विहरितब्बं. एसा पब्बज्जा नामा’’ति वुत्ते, ‘‘भातिक, अहं सुखुमालो. नाहं सक्खिस्सामि पब्बजितु’’न्ति आह. ‘‘तेन हि, तात, कम्मन्तं उग्गहेत्वा घरावासं वस. न हि सक्का अम्हेसु एकेन अपब्बजितु’’न्ति. अथ नं ‘‘को एस कम्मन्तो नामा’’ति पुच्छि. ‘‘भत्तुट्ठानट्ठानम्पि अजानन्तो कुलपुत्तो कम्मन्तं नाम किं जानिस्सती’’ति? एकदिवसञ्हि तिण्णं खत्तियानं कथा उदपादि – ‘‘भत्तं नाम कुहिं उट्ठहती’’ति? किमिलो आह – ‘‘कोट्ठे उट्ठहती’’ति. अथ नं भद्दियो ‘‘त्वं भत्तस्स उट्ठानट्ठानं न जानासि, भत्तं नाम उक्खलियं उट्ठहती’’ति आह. अनुरुद्धो ‘‘तुम्हे द्वेपि न जानाथ, भत्तं नाम रतनमकुळाय सुवण्णपातियं उट्ठहती’’ति आह.
तेसु किर एकदिवसं किमिलो कोट्ठतो वीही ओतारियमाने दिस्वा, ‘‘एते कोट्ठेयेव जाता’’ति सञ्ञी अहोसि. भद्दियो एकदिवसं उक्खलितो भत्तं वड्ढियमानं दिस्वा ‘‘उक्खलियञ्ञेव उप्पन्न’’न्ति सञ्ञी अहोसि. अनुरुद्धेन पन नेव वीही कोट्टेन्ता, न भत्तं पचन्ता, न वड्ढेन्ता दिट्ठपुब्बा, वड्ढेत्वा पन पुरतो ठपितमेव पस्सति. सो भुञ्जितुकामकाले ‘‘भत्तं पातियं उट्ठहती’’ति सञ्ञमकासि. एवं तयोपि ते भत्तुट्ठानट्ठानं न जानन्ति. तेनायं ‘‘को एस कम्मन्तो नामा’’ति पुच्छित्वा, ‘‘पठमं खेत्तं कसापेतब्ब’’न्तिआदिकं संवच्छरे संवच्छरे कत्तब्बं किच्चं सुत्वा, ‘‘कदा कम्मन्तानं अन्तो पञ्ञायिस्सति, कदा मयं अप्पोस्सुक्का भोगे भुञ्जिस्सामा’’ति वत्वा कम्मन्तानं अपरियन्तताय अक्खाताय ‘‘तेन हि त्वञ्ञेव घरावासं वस, न मय्हं एतेनत्थो’’ति मातरं उपसङ्कमित्वा, ‘‘अनुजानाहि मं, अम्म, पब्बजिस्सामी’’ति वत्वा ताय नानप्पकारेहि तिक्खत्तुं पटिक्खिपित्वा, ‘‘सचे ते सहायको भद्दियराजा पब्बजिस्सति, तेन सद्धिं पब्बजाही’’ति वुत्ते तं उपसङ्कमित्वा, ‘‘मम खो, सम्म, पब्बज्जा तव पटिबद्धा’’ति वत्वा तं नानप्पकारेहि सञ्ञापेत्वा सत्तमे दिवसे अत्तना सद्धिं पब्बजनत्थाय पटिञ्ञं गण्हि.
ततो भद्दियो सक्यराजा अनुरुद्धो आनन्दो भगु किमिलो देवदत्तोति इमे छ खत्तिया उपालिकप्पकसत्तमा देवा विय दिब्बसम्पत्तिं सत्ताहं सम्पत्तिं अनुभवित्वा उय्यानं गच्छन्ता विय चतुरङ्गिनिया सेनाय निक्खमित्वा परविसयं पत्वा राजाणाय सेनं निवत्तापेत्वा परविसयं ओक्कमिंसु. तत्थ छ खत्तिया अत्तनो अत्तनो आभरणानि ओमुञ्चित्वा भण्डिकं कत्वा, ‘‘हन्द भणे, उपालि, निवत्तस्सु, अलं ते एत्तकं जीविकाया’’ति तस्स अदंसु. सो तेसं पादमूले परिवत्तित्वा परिदेवित्वा तेसं आणं अतिक्कमितुं असक्कोन्तो उट्ठाय तं गहेत्वा निवत्ति. तेसं द्विधा जातकाले, वनं आरोदनप्पत्तं विय पथवीकम्पमानाकारप्पत्ता विय अहोसि. उपालि कप्पकोपि थोकं गन्त्वा निवत्तित्वा ‘‘चण्डा खो साकिया, ‘इमिना कुमारा निप्पातिता’ति घातेय्युम्पि मं. इमे हि नाम सक्यकुमारा एवरूपं सम्पत्तिं पहाय इमानि अनग्घानि आभरणानि खेळपिण्डं विय छड्डेत्वा पब्बजिस्सन्ति, किमङ्गं पनाह’’न्ति भण्डिकं ओमुञ्चित्वा तानि आभरणानि रुक्खे लग्गेत्वा ‘‘अत्थिका गण्हन्तू’’ति वत्वा तेसं सन्तिकं गन्त्वा तेहि ‘‘कस्मा निवत्तोसी’’ति पुट्ठो तमत्थं आरोचेसि. अथ नं ते आदाय सत्थु सन्तिकं गन्त्वा, ‘‘मयं, भन्ते, साकिया नाम माननिस्सिता, अयं अम्हाकं दीघरत्तं परिचारको, इमं पठमतरं पब्बाजेथ, मयमस्स अभिवादनादीनि करिस्साम, एवं नो मानो निम्मानायिस्सती’’ति वत्वा तं पठमतरं पब्बाजेत्वा पच्छा सयं पब्बजिंसु. तेसु आयस्मा भद्दियो तेनेव अन्तरवस्सेन तेविज्जो अहोसि. आयस्मा अनुरुद्धो दिब्बचक्खुको हुत्वा पच्छा महावितक्कसुत्तं (अ. नि. ८.३०) सुत्वा अरहत्तं पापुणि. आयस्मा आनन्दो सोतापत्तिफले पतिट्ठहि. भगुत्थेरो च किमिलत्थेरो च अपरभागे विपस्सनं वड्ढेत्वा अरहत्तं पापुणिंसु. देवदत्तो पोथुज्जनिकं इद्धिं पत्तो.
अपरभागे सत्थरि कोसम्बियं विहरन्ते ससावकसङ्घस्स तथागतस्स महन्तो लाभसक्कारो निब्बत्ति. वत्थभेसज्जादिहत्था मनुस्सा विहारं पविसित्वा ‘‘कुहिं सत्था, कुहिं सारिपुत्तत्थेरो, कुहिं महामोग्गल्लानत्थेरो, कुहिं महाकस्सपत्थेरो, कुहिं भद्दियत्थेरो, कुहिं अनुरुद्धत्थेरो, कुहिं आनन्दत्थेरो, कुहिं भगुत्थेरो, कुहिं किमिलत्थेरो’’ति असीतिमहासावकानं निसिन्नट्ठानं ओलोकेन्ता विचरन्ति. ‘‘देवदत्तत्थेरो कुहिं निसिन्नो वा, ठितो वा’’ति पुच्छन्तो नाम नत्थि. सो चिन्तेसि – ‘‘अहम्पि एतेहि सद्धिञ्ञेव पब्बजितो, एतेपि खत्तियपब्बजिता, अहम्पि खत्तियपब्बजितो, लाभसक्कारहत्था मनुस्सा एतेयेव परियेसन्ति, मम नामं गहेतापि नत्थि. केन नु खो सद्धिं एकतो हुत्वा कं पसादेत्वा मम लाभसक्कारं निब्बत्तेय्य’’न्ति. अथस्स एतदहोसि – ‘‘अयं खो राजा बिम्बिसारो पठमदस्सनेनेव एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठितो, न सक्का एतेन सद्धिं एकतो भवितुं, कोसलरञ्ञापि सद्धिं न सक्का भवितुं. अयं खो पन रञ्ञो पुत्तो अजातसत्तु कुमारो कस्सचि गुणदोसे न जानाति, एतेन सद्धिं एकतो भविस्सामी’’ति. सो कोसम्बितो राजगहं गन्त्वा कुमारकवण्णं अभिनिम्मिनित्वा चत्तारो आसीविसे चतूसु हत्थपादेसु एकं गीवाय पिलन्धित्वा एकं सीसे चुम्बटकं कत्वा एकं एकंसं करित्वा इमाय अहिमेखलाय आकासतो ओरुय्ह अजातसत्तुस्स उच्छङ्गे निसीदित्वा तेन भीतेन ‘‘कोसि त्व’’न्ति वुत्ते ‘‘अहं देवदत्तो’’ति वत्वा तस्स भयविनोदनत्थं तं अत्तभावं पटिसंहरित्वा सङ्घाटिपत्तचीवरधरो पुरतो ठत्वा तं पसादेत्वा लाभसक्कारं निब्बत्तेसि. सो लाभसक्काराभिभूतो ‘‘अहं भिक्खुसङ्घं परिहरिस्सामी’’ति पापकं चित्तं उप्पादेत्वा सह चित्तुप्पादेन इद्धितो परिहायित्वा सत्थारं वेळुवनविहारे सराजिकाय परिसाय धम्मं देसेन्तं वन्दित्वा उट्ठायासना अञ्जलिं पग्गय्ह – ‘‘भगवा, भन्ते, एतरहि जिण्णो वुड्ढो महल्लको, अप्पोस्सुक्को दिट्ठधम्मसुखविहारं अनुयुञ्जतु, अहं भिक्खुसङ्घं परिहरिस्सामि, निय्यादेथ मे भिक्खुसङ्घ’’न्ति वत्वा सत्थारा खेळासकवादेन अपसादेत्वा पटिक्खित्तो अनत्तमनो इमं पठमं तथागते आघातं बन्धित्वा पक्कामि.
अथस्स भगवा राजगहे पकासनीयकम्मं कारेसि. सो ‘‘परिच्चत्तो दानि अहं समणेन गोतमेन, इदानिस्स अनत्थं करिस्सामी’’ति अजातसत्तुं उपसङ्कमित्वा, ‘‘पुब्बे खो, कुमार, मनुस्सा दीघायुका, एतरहि अप्पायुका. ठानं खो पनेतं विज्जति, यं त्वं कुमारोव समानो कालं करेय्यासि, तेन हि त्वं, कुमार, पितरं हन्त्वा राजा होहि, अहं भगवन्तं हन्त्वा बुद्धो भविस्सामी’’ति वत्वा तस्मिं रज्जे पतिट्ठिते तथागतस्स वधाय पुरिसे पयोजेत्वा तेसु सोतापत्तिफलं पत्वा निवत्तेसु सयं गिज्झकूटपब्बतं अभिरुहित्वा, ‘‘अहमेव समणं गोतमं जीविता वोरोपेस्सामी’’ति सिलं पविज्झित्वा रुहिरुप्पादककम्मं कत्वा इमिनापि उपायेन मारेतुं असक्कोन्तो पुन नाळागिरिं विस्सज्जापेसि. तस्मिं आगच्छन्ते आनन्दत्थेरो अत्तनो जीवितं सत्थु परिच्चजित्वा पुरतो अट्ठासि. सत्था नागं दमेत्वा नगरा निक्खमित्वा विहारं गन्त्वा अनेकसहस्सेहि उपासकेहि अभिहटं महादानं परिभुञ्जित्वा तस्मिं दिवसे सन्निपतितानं अट्ठारसकोटिसङ्खातानं राजगहवासीनं अनुपुब्बिं कथं कथेत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमये जाते ‘‘अहो आयस्मा आनन्दो महागुणो, तथारूपे नाम हत्थिनागे आगच्छन्ते अत्तनो जीवितं परिच्चजित्वा सत्थु पुरतोव अट्ठासी’’ति थेरस्स गुणकथं सुत्वा ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस ममत्थाय जीवितं परिच्चजियेवा’’ति वत्वा भिक्खूहि याचितो चूळहंस (जा. १.१५.१३३ आदयो; २.२१.१ आदयो) – महाहंस (जा. २.२१.८९ आदयो) – कक्कटकजातकानि (जा. १.३.४९ आदयो) कथेसि. देवदत्तस्सापि कम्मं नेव पाकटं, तथा रञ्ञो मारापितत्ता, न वधकानं पयोजितत्ता न सिलाय पविद्धत्ता पाकटं अहोसि, यथा नाळागिरिहत्थिनो विस्सज्जितत्ता. तदा हि महाजनो ‘‘राजापि देवदत्तेनेव मारापितो, वधकोपि पयोजितो, सिलापि अपविद्धा. इदानि पन तेन नाळागिरि विस्सज्जापितो, एवरूपं नाम पापकं गहेत्वा राजा विचरती’’ति कोलाहलमकासि.
राजा महाजनस्स कथं सुत्वा पञ्च थालिपाकसतानि नीहरापेत्वा न पुन तस्सूपट्ठानं अगमासि, नागरापिस्स कुलं उपगतस्स भिक्खामत्तम्पि न अदंसु. सो परिहीनलाभसक्कारो कोहञ्ञेन जीवितुकामो सत्थारं उपसङ्कमित्वा पञ्च वत्थूनि याचित्वा भगवतो ‘‘अलं, देवदत्त, यो इच्छति, सो आरञ्ञको होतू’’ति पटिक्खित्तो कस्सावुसो, वचनं सोभनं, किं तथागतस्स उदाहु मम, अहञ्हि उक्कट्ठवसेन एवं वदामि, ‘‘साधु, भन्ते, भिक्खू यावजीवं आरञ्ञका अस्सु, पिण्डपातिका, पंसुकूलिका, रुक्खमूलिका, मच्छमंसं न खादेय्यु’’न्ति. ‘‘यो दुक्खा मुच्चितुकामो, सो मया सद्धिं आगच्छतू’’ति वत्वा पक्कामि. तस्स वचनं सुत्वा एकच्चे नवकपब्बजिता मन्दबुद्धिनो ‘‘कल्याणं देवदत्तो आह, एतेन सद्धिं विचरिस्सामा’’ति तेन सद्धिं एकतो अहेसुं. इति सो पञ्चसतेहि भिक्खूहि सद्धिं तेहि पञ्चहि वत्थूहि लूखप्पसन्नं जनं सञ्ञापेन्तो कुलेसु विञ्ञापेत्वा विञ्ञापेत्वा भुञ्जन्तो सङ्घभेदाय परक्कमि. सो भगवता, ‘‘सच्चं किर त्वं, देवदत्त, सङ्घभेदाय परक्कमसि चक्कभेदाया’’ति पुट्ठो ‘‘सच्चं भगवा’’ति वत्वा, ‘‘गरुको खो, देवदत्त, सङ्घभेदो’’तिआदीहि ओवदितोपि सत्थु वचनं अनादियित्वा पक्कन्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तं दिस्वा, ‘‘अज्जतग्गे दानाहं, आवुसो आनन्द, अञ्ञत्रेव भगवता, अञ्ञत्र, भिक्खुसङ्घा उपोसथं करिस्सामि, सङ्घकम्मं करिस्सामी’’ति आह. थेरो तमत्थं भगवतो आरोचेसि. तं विदित्वा सत्था उप्पन्नधम्मसंवेगो हुत्वा, ‘‘देवदत्तो सदेवकस्स लोकस्स अनत्थनिस्सितं अत्तनो अवीचिम्हि पच्चनककम्मं करोती’’ति वितक्केत्वा –
‘‘सुकरानि असाधूनि, अत्तनो अहितानि च;
यं वे हितञ्च साधुञ्च, तं वे परमदुक्कर’’न्ति. (ध. प. १६३) –
इमं गाथं वत्वा पुन इमं उदानं उदानेसि –
‘‘सुकरं साधुना साधु, साधु पापेन दुक्करं;
पापं पापेन सुकरं, पापमरियेहि दुक्कर’’न्ति. (उदा. ४८; चूळव. ३४३);
अथ खो देवदत्तो उपोसथदिवसे अत्तनो परिसाय सद्धिं एकमन्तं निसीदित्वा, ‘‘यस्सिमानि पञ्च वत्थूनि खमन्ति, सो सलाकं गण्हतू’’ति वत्वा पञ्चसतेहि वज्जिपुत्तकेहि नवकेहि अप्पकतञ्ञूहि सलाकाय गहिताय सङ्घं भिन्दित्वा ते भिक्खू आदाय गयासीसं अगमासि. तस्स तत्थ गतभावं सुत्वा सत्था तेसं भिक्खूनं आनयनत्थाय द्वे अग्गसावके पेसेसि. ते तत्थ गन्त्वा आदेसनापाटिहारियानुसासनिया चेव इद्धिपाटिहारियानुसासनिया च अनुसासन्ता ते अमतं पायेत्वा आदाय आकासेन आगमिंसु. कोकालिकोपि खो ‘‘उट्ठेहि, आवुसो देवदत्त, नीता ते भिक्खू सारिपुत्तमोग्गल्लानेहि, ननु त्वं मया वुत्तो ‘मा, आवुसो, सारिपुत्तमोग्गल्लाने विस्सासी’ति. पापिच्छा सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गता’’ति वत्वा जण्णुकेन हदयमज्झे पहरि, तस्स तत्थेव उण्हं लोहितं मुखतो उग्गञ्छि. आयस्मन्तं पन सारिपुत्तं भिक्खुसङ्घपरिवुतं आकासेन आगच्छन्तं दिस्वा भिक्खू आहंसु – ‘‘भन्ते, आयस्मा सारिपुत्तो गमनकाले अत्तदुतियो गतो, इदानि महापरिवारो आगच्छन्तो सोभती’’ति. सत्था ‘‘न, भिक्खवे, इदानेव सारिपुत्तो सोभति, पुब्बे तिरच्छानयोनियं निब्बत्तकालेपि मय्हं पुत्तो मम सन्तिकं आगच्छन्तो सोभियेवा’’ति वत्वा –
‘‘होति सीलवतं अत्थो, पटिसन्थारवुत्तिनं;
लक्खणं पस्स आयन्तं, ञातिसङ्घपुरक्खतं;
अथ पस्ससिमं काळं, सुविहीनंव ञातिभी’’ति. (जा. १.१.११) –
इदं जातकं कथेसि. पुन भिक्खूहि, ‘‘भन्ते, देवदत्तो किर द्वे अग्गसावके उभोसु पस्सेसु निसीदापेत्वा ‘बुद्धलीळाय धम्मं देसेस्सामी’ति तुम्हाकं अनुकिरियं करोती’’ति वुत्ते, ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस मम अनुकिरियं कातुं वायमि, न पन सक्खी’’ति वत्वा –
‘‘अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकं;
मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठकं.
‘‘उदकथलचरस्स पक्खिनो,
निच्चं आमकमच्छभोजिनो;
तस्सानुकरं सविट्ठको,
सेवाले पलिगुण्ठितो मतो’’ति. (जा. १.२.१०७-१०८) –
आदिना जातकं वत्वा अपरापरेसुपि दिवसेसु तथानुरूपमेव कथं आरब्भ –
‘‘अचारि वतायं वितुदं वनानि,
कट्ठङ्गरुक्खेसु असारकेसु;
अथासदा खदिरं जातसारं,
यत्थब्भिदा गरुळो उत्तमङ्ग’’न्ति. (जा. १.२.१२०);
‘‘लसी च ते निप्फलिका, मत्थको च पदालितो;
सब्बा ते फासुका भग्गा, अज्ज खो त्वं विरोचसी’’ति. (जा. १.१.१४३) –
एवमादीनि जातकानि कथेसि. पुन ‘‘अकतञ्ञू देवदत्तो’’ति कथं आरब्भ –
‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे;
मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे.
‘‘मम लोहितभक्खस्स, निच्चं लुद्दानि कुब्बतो;
दन्तन्तरगतो सन्तो, तं बहुं यम्पि जीवसी’’ति. (जा. १.४.२९-३०) –
आदीनि जातकानि कथेसि. पुन वधाय परिसक्कनमस्स आरब्भ –
‘‘ञातमेतं कुरुङ्गस्स, यं त्वं सेपण्णि सिय्यसि;
अञ्ञं सेपण्णि गच्छामि, न मे ते रुच्चते फल’’न्ति. (जा. १.१.२१) –
आदीनि जातकानि कथेसि. पुनदिवसे ‘‘उभतो परिहीनो देवदत्तो लाभसक्कारतो च सामञ्ञतो चा’’ति कथासु पवत्तमानासु ‘‘न, भिक्खवे, इदानेव देवदत्तो परिहीनो, पुब्बेपेस परिहीनोयेवा’’ति वत्वा –
‘‘अक्खी भिन्ना पटो नट्ठो, सखिगेहे च भण्डनं;
उभतो पदुट्ठा कम्मन्ता, उदकम्हि थलम्हि चा’’ति. (जा. १.१.१३९) –
आदीनि जातकानि कथेसि. एवं राजगहे विहरन्तोव देवदत्तं आरब्भ बहूनि जातकानि कथेत्वा राजगहतो सावत्थिं गन्त्वा जेतवने विहारे वासं कप्पेसि. देवदत्तोपि खो नव मासे गिलानो पच्छिमे काले सत्थारं दट्ठुकामो हुत्वा अत्तनो सावके आह – ‘‘अहं सत्थारं दट्ठुकामो, तं मे दस्सेथा’’ति. ‘‘त्वं समत्थकाले सत्थारा सद्धिं वेरी हुत्वा अचरि, न मयं तत्थ नेस्सामा’’ति वुत्ते, ‘‘मा मं नासेथ, मया सत्थरि आघातो कतो, सत्थु पन मयि केसग्गमत्तोपि आघातो नत्थि’’. सो हि भगवा –
‘‘वधके देवदत्तम्हि, चोरे अङ्गुलिमालके;
धनपाले राहुले च, सब्बत्थ सममानसो’’ति. (अप. थेर १.१.५८५; मि. प. ६.६.५) –
‘‘दस्सेथ मे भगवन्त’’न्ति पुनप्पुनं याचि. अथ नं ते मञ्चकेनादाय निक्खमिंसु. तस्स आगमनं सुत्वा भिक्खू सत्थु आरोचेसुं – ‘‘भन्ते, देवदत्तो किर तुम्हाकं दस्सनत्थाय आगच्छती’’ति. ‘‘न, भिक्खवे, सो तेनत्तभावेन मं पस्सितुं लभिस्सती’’ति. देवदत्तो किर पञ्चन्नं वत्थूनं आयाचितकालतो पट्ठाय पुन बुद्धं दट्ठुं न लभति, अयं धम्मता. ‘‘असुकट्ठानञ्च असुकट्ठानञ्च आगतो, भन्ते’’ति. ‘‘यं इच्छति, तं करोतु, न सो मं पस्सितुं लभिस्सती’’ति. ‘‘भन्ते, इतो योजनमत्तं आगतो, अड्ढयोजनं, गावुतं, जेतवनपोक्खरणीसमीपं आगतो, भन्ते’’ति. ‘‘सचेपि अन्तोजेतवनं पविसति, नेव मं पस्सितुं लभिस्सती’’ति. देवदत्तं गहेत्वा आगता जेतवनपोक्खरणीतीरे मञ्चं ओतारेत्वा पोक्खरणिं न्हायितुं ओतरिंसु. देवदत्तोपि खो मञ्चतो वुट्ठाय उभो पादे भूमियं ठपेत्वा निसीदि. पादा पथविं पविसिंसु. सो अनुक्कमेन याव गोप्फका, याव जण्णुका, याव कटितो, याव थनतो, याव गीवतो पविसित्वा हनुकट्ठिकस्स भूमियं पविट्ठकाले –
‘‘इमेहि अट्ठीहि तमग्गपुग्गलं,
देवातिदेवं नरदम्मसारथिं;
समन्तचक्खुं सतपुञ्ञलक्खणं,
पाणेहि बुद्धं सरणं उपेमी’’ति. (मि. प. ४.१.३) –
इमं गाथमाह. इदं किर ठानं दिस्वा तथागतो देवदत्तं पब्बाजेसि. सचे हि न सो पब्बजिस्स, गिही हुत्वा कम्मञ्च भारियं अकरिस्स, आयतिं भवनिस्सरणपच्चयं कातुं न सक्खिस्स, पब्बजित्वा च पन किञ्चापि कम्मं भारियं करिस्सति, आयतिं भवनिस्सरणपच्चयं कातुं सक्खिस्सतीति तं सत्था पब्बाजेसि. सो हि इतो सतसहस्सकप्पमत्थके अट्ठिस्सरो नाम पच्चेकबुद्धो भविस्सति, सो पथविं पविसित्वा अवीचिम्हि निब्बत्ति. निच्चले बुद्धे अपरज्झभावेन पन निच्चलोव हुत्वा पच्चतूति योजनसतिके अन्तो अवीचिम्हि योजनसतुब्बेधमेवस्स सरीरं निब्बत्ति. सीसं याव कण्णसक्खलितो उपरि अयकपल्लं पाविसि, पादा याव गोप्फका हेट्ठा अयपथवियं पविट्ठा, महातालक्खन्धपरिमाणं अयसूलं पच्छिमभित्तितो निक्खमित्वा पिट्ठिमज्झं भिन्दित्वा उरेन निक्खमित्वा पुरिमभित्तिं पाविसि, अपरं दक्खिणभित्तितो निक्खमित्वा दक्खिणपस्सं भिन्दित्वा वामपस्सेन निक्खमित्वा उत्तरभित्तिं पाविसि, अपरं उपरि कपल्लतो निक्खमित्वा मत्थकं भिन्दित्वा अधोभागेन निक्खमित्वा अयपथविं पाविसि. एवं सो तत्थ निच्चलोव पच्चि.
भिक्खू ‘‘एत्तकं ठानं देवदत्तो आगच्छन्तो सत्थारं दट्ठुं अलभित्वाव पथविं पविट्ठो’’ति कथं समुट्ठापेसुं. सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव मयि अपरज्झित्वा पथविं पाविसि, पुब्बेपि पविट्ठोयेवा’’ति वत्वा हत्थिराजकाले मग्गमूळ्हं पुरिसं समस्सासेत्वा अत्तनो पिट्ठिं आरोपेत्वा खेमन्तं पापितस्स पुन तिक्खत्तुं आगन्त्वा अग्गट्ठाने मज्झिमट्ठाने मूलेहि एवं दन्ते छिन्दित्वा ततियवारे महापुरिसस्स चक्खुपथं अतिक्कमन्तस्स तस्स पथविं पविट्ठभावं दीपेतुं –
‘‘अकतञ्ञुस्स पोसस्स, निच्चं विवरदस्सिनो;
सब्बं चे पथविं दज्जा, नेव नं अभिराधये’’ति. (जा. १.१.७२; १.९.१०७) –
इदं जातकं कथेत्वा पुनपि तथेव कथाय समुट्ठिताय खन्तिवादिभूते अत्तनि अपरज्झित्वा कलाबुराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं खन्तिवादिजातकञ्च (जा. १.४.४९ आदयो), चूळधम्मपालभूते अत्तनि अपरज्झित्वा महापतापराजभूतस्स तस्स पथविं पविट्ठभावं दीपेतुं चूळधम्मपालजातकञ्च (जा. १.५.४४ आदयो) कथेसि.
पथविं पविट्ठे पन देवदत्ते महाजनो हट्ठतुट्ठो धजपटाककदलियो उस्सापेत्वा पुण्णघटे ठपेत्वा ‘‘लाभा वत नो’’ति महन्तं छणं अनुभोति. तमत्थं भगवतो आरोचेसुं. भगवा ‘‘न, भिक्खवे, इदानेव देवदत्ते मते महाजनो तुस्सति, पुब्बेपि तुस्सियेवा’’ति वत्वा सब्बजनस्स अप्पिये चण्डे फरुसे बाराणसियं पिङ्गलरञ्ञे नाम मते महाजनस्स तुट्ठभावं दीपेतुं –
‘‘सब्बो जनो हिंसितो पिङ्गलेन,
तस्मिं मते पच्चया वेदयन्ति;
पियो नु ते आसि अकण्हनेत्तो,
कस्मा तुवं रोदसि द्वारपाल.
‘‘न मे पियो आसि अकण्हनेत्तो,
भायामि पच्चागमनाय तस्स;
इतो गतो हिंसेय्य मच्चुराजं,
सो हिंसितो आनेय्य पुन इधा’’ति. (जा. १.२.१७९-१८०) –
इदं पिङ्गलजातकं कथेसि. भिक्खू सत्थारं पुच्छिंसु – ‘‘इदानि, भन्ते, देवदत्तो कुहिं निब्बत्तो’’ति? ‘‘अवीचिमहानिरये, भिक्खवे’’ति. ‘‘भन्ते, इध तप्पन्तो विचरित्वा पुन गन्त्वा तप्पनट्ठानेयेव निब्बत्तो’’ति. ‘‘आम, भिक्खवे, पब्बजिता वा होन्तु गहट्ठा वा, पमादविहारिनो उभयत्थ तप्पन्तियेवा’’ति वत्वा इमं गाथमाह –
१७. ‘‘इध तप्पति पेच्च तप्पति, पापकारी उभयत्थ तप्पति;
पापं मे कतन्ति तप्पति, भिय्यो तप्पति दुग्गतिं गतो’’ति.
तत्थ इध तप्पतीति इध कम्मतप्पनेन दोमनस्समत्तेन तप्पति. पेच्चाति परलोके पन विपाकतप्पनेन अतिदारुणेन अपायदुक्खेन तप्पति. पापकारीति नानप्पकारस्स पापस्स कत्ता. उभयत्थाति इमिना वुत्तप्पकारेन तप्पनेन उभयत्थ तप्पति नाम. पापं मेति सो हि कम्मतप्पनेन कप्पन्तो ‘‘पापं मे कत’’न्ति तप्पति. तं अप्पमत्तकं तप्पनं, विपाकतप्पनेन पन तप्पन्तो भिय्यो तप्पति दुग्गतिं गतो अतिफरुसेन तप्पनेन अतिविय तप्पतीति.
गाथापरियोसाने बहू सोतापन्नादयो अहेसुं. देसना महाजनस्स सात्थिका जाताति.
देवदत्तवत्थु द्वादसमं.