१. यमकवग्गो
१. चक्खुपालत्थेरवत्थु
१. ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति. –
अयं धम्मदेसना कत्थ भासिताति? सावत्थियं. कं आरब्भाति? चक्खुपालत्थेरं.
सावत्थियं किर महासुवण्णो नाम कुटुम्बिको अहोसि अड्ढो महद्धनो महाभोगो अपुत्तको. सो एकदिवसं न्हानतित्थं न्हत्वा नत्वा आगच्छन्तो अन्तरामग्गे सम्पन्नपत्तसाखं एकं वनप्पतिं दिस्वा ‘‘अयं महेसक्खाय देवताय परिग्गहितो भविस्सती’’ति तस्स हेट्ठाभागं सोधापेत्वा पाकारपरिक्खेपं कारापेत्वा वालुकं ओकिरापेत्वा धजपटाकं उस्सापेत्वा वनप्पतिं अलङ्करित्वा अञ्जलिं करित्वा ‘‘सचे पुत्तं वा धीतरं वा लभेय्यं, तुम्हाकं महासक्कारं करिस्सामी’’ति पत्थनं कत्वा पक्कामि.
अथस्स न चिरस्सेव भरियाय कुच्छियं गब्भो पतिट्ठासि. सा गब्भस्स पतिट्ठितभावं ञत्वा तस्स आरोचेसि. सो तस्सा गब्भस्स परिहारमदासि. सा दसमासच्चयेन पुत्तं विजायि. तं नामग्गहणदिवसे सेट्ठि अत्तना पालितं वनप्पतिं निस्साय लद्धत्ता तस्स पालोति नामं अकासि. सा अपरभागे अञ्ञम्पि पुत्तं लभि. तस्स चूळपालोति नामं कत्वा इतरस्स महापालोति नामं अकासि. ते वयप्पत्ते घरबन्धनेन बन्धिंसु. अपरभागे मातापितरो कालमकंसु. सब्बम्पि विभवं इतरेयेव विचारिंसु.
तस्मिं समये सत्था पवत्तितवरधम्मचक्को अनुपुब्बेनागन्त्वा अनाथपिण्डिकेन महासेट्ठिना चतुपण्णासकोटिधनं विस्सज्जेत्वा कारिते जेतवनमहाविहारे विहरति महाजनं सग्गमग्गे च मोक्खमग्गे च पतिट्ठापयमानो. तथागतो हि मातिपक्खतो असीतिया, पितिपक्खतो असीतियाति द्वेअसीतिञातिकुलसहस्सेहि कारिते निग्रोधमहाविहारे एकमेव वस्सावासं वसि, अनाथपिण्डिकेन कारिते जेतवनमहाविहारे एकूनवीसतिवस्सानि, विसाखाय सत्तवीसतिकोटिधनपरिच्चागेन कारिते पुब्बारामे छब्बस्सानीति द्विन्नं कुलानं गुणमहत्ततं पटिच्च सावत्थिं निस्साय पञ्चवीसतिवस्सानि वस्सावासं वसि. अनाथपिण्डिकोपि विसाखापि महाउपासिका निबद्धं दिवसस्स द्वे वारे तथागतस्स उपट्ठानं गच्छन्ति, गच्छन्ता च ‘‘दहरसामणेरा नो हत्थे ओलोकेस्सन्ती’’ति तुच्छहत्था न गतपुब्बा. पुरेभत्तं गच्छन्ता खादनीयभोजनीयादीनि गहेत्वाव गच्छन्ति, पच्छाभत्तं गच्छन्ता पञ्च भेसज्जानि अट्ठ च पानानि. निवेसनेसु पन तेसं द्विन्नं द्विन्नं भिक्खुसहस्सानं निच्चं पञ्ञत्तासनानेव होन्ति. अन्नपानभेसज्जेसु यो यं इच्छति, तस्स तं यथिच्छितमेव सम्पज्जति. तेसु अनाथपिण्डिकेन एकदिवसम्पि सत्था पञ्हं न पुच्छितपुब्बो. सो किर ‘‘तथागतो बुद्धसुखुमालो खत्तियसुखुमालो, ‘बहूपकारो मे, गहपती’ति मय्हं धम्मं देसेन्तो किलमेय्या’’ति सत्थरि अधिमत्तसिनेहेन पञ्हं न पुच्छति. सत्था पन तस्मिं निसिन्नमत्तेयेव ‘‘अयं सेट्ठि मं अरक्खितब्बट्ठाने रक्खति. अहञ्हि कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अलङ्कतपटियत्तं अत्तनो सीसं छिन्दित्वा अक्खीनि उप्पाटेत्वा हदयमंसं उप्पाटेत्वा पाणसमं पुत्तदारं परिच्चजित्वा पारमियो पूरेन्तो परेसं धम्मदेसनत्थमेव पूरेसिं. एस मं अरक्खितब्बट्ठाने रक्खती’’ति एकं धम्मदेसनं कथेतियेव.
तदा सावत्थियं सत्त मनुस्सकोटियो वसन्ति. तेसु सत्थु धम्मकथं सुत्वा पञ्चकोटिमत्ता मनुस्सा अरियसावका जाता, द्वेकोटिमत्ता मनुस्सा पुथुज्जना. तेसु अरियसावकानं द्वेयेव किच्चानि अहेसुं – पुरेभत्तं दानं देन्ति, पच्छाभत्तं गन्धमालादिहत्था वत्थभेसज्जपानकादीनि गाहापेत्वा धम्मस्सवनत्थाय गच्छन्ति. अथेकदिवसं महापालो अरियसावके गन्धमालादिहत्थे विहारं गच्छन्ते दिस्वा ‘‘अयं महाजनो कुहिं गच्छती’’ति पुच्छित्वा ‘‘धम्मस्सवनाया’’ति सुत्वा ‘‘अहम्पि गमिस्सामी’’ति गन्त्वा सत्थारं वन्दित्वा परिसपरियन्ते निसीदि.
बुद्धा च नाम धम्मं देसेन्ता सरणसीलपब्बज्जादीनं उपनिस्सयं ओलोकेत्वा अज्झासयवसेन धम्मं देसेन्ति, तस्मा तं दिवसं सत्था तस्स उपनिस्सयं ओलोकेत्वा धम्मं देसेन्तो अनुपुब्बिकथं कथेसि. सेय्यथिदं – दानकथं, सीलकथं, सग्गकथं, कामानं आदीनवं, ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि. तं सुत्वा महापालो कुटुम्बिको चिन्तेसि – ‘‘परलोकं गच्छन्तं पुत्तधीतरो वा भातरो वा भोगा वा नानुगच्छन्ति, सरीरम्पि अत्तना सद्धिं न गच्छति, किं मे घरावासेन पब्बजिस्सामी’’ति. सो देसनापरियोसाने सत्थारं उपसङ्कमित्वा पब्बज्जं याचि. अथ नं सत्था – ‘‘अत्थि ते कोचि आपुच्छितब्बयुत्तको ञाती’’ति आह. ‘‘कनिट्ठभाता मे अत्थि, भन्ते’’ति. ‘‘तेन हि तं आपुच्छाही’’ति. सो ‘‘साधू’’ति सम्पटिच्छित्वा सत्थारं वन्दित्वा गेहं गन्त्वा कनिट्ठं पक्कोसापेत्वा – ‘‘तात, यं मय्हं इमस्मिं गेहे सविञ्ञाणकम्पि अविञ्ञाणकम्पि धनं किञ्चि अत्थि, सब्बं तं तव भारो, पटिपज्जाहि न’’न्ति. ‘‘तुम्हे पन किं करिस्सथा’’ति आह. ‘‘अहं सत्थु सन्तिके पब्बजिस्सामी’’ति. ‘‘किं कथेसि भातिक, त्वं मे मातरि मताय माता विय, पितरि मते पिता विय लद्धो, गेहे ते महाविभवो, सक्का गेहं अज्झावसन्तेहेव पुञ्ञानि कातुं, मा एवं करित्था’’ति. ‘‘तात, अहं सत्थु धम्मदेसनं सुत्वा घरावासे वसितुं न सक्कोमि. सत्थारा हि अतिसण्हसुखुमं तिलक्खणं आरोपेत्वा आदिमज्झपरियोसानकल्याणो धम्मो देसितो, न सक्का सो अगारमज्झे वसन्तेन पूरेतुं, पब्बजिस्सामि, ताता’’ति. ‘‘भातिक, तरुणायेव तावत्थ, महल्लककाले पब्बजिस्सथा’’ति. ‘‘तात, महल्लकस्स हि अत्तनो हत्थपादापि अनस्सवा होन्ति, न अत्तनो वसे वत्तन्ति, किमङ्गं पन ञातका, स्वाहं तव कथं न करोमि, समणपटिपत्तिंयेव पूरेस्सामि’’.
‘‘जराजज्जरिता होन्ति, हत्थपादा अनस्सवा;
यस्स सो विहतत्थामो, कथं धम्मं चरिस्सति’’. –
पब्बजिस्सामेवाहं, ताताति तस्स विरवन्तस्सेव सत्थु सन्तिकं गन्त्वा पब्बज्जं याचित्वा लद्धपब्बज्जूपसम्पदो आचरियुपज्झायानं सन्तिके पञ्च वस्सानि वसित्वा वुट्ठवस्सो पवारेत्वा सत्थारमुपसङ्कमित्वा वन्दित्वा पुच्छि – ‘‘भन्ते, इमस्मिं सासने कति धुरानी’’ति? ‘‘गन्थधुरं, विपस्सनाधुरन्ति द्वेयेव धुरानि भिक्खू’’ति. ‘‘कतमं पन, भन्ते, गन्थधुरं, कतमं विपस्सनाधुर’’न्ति? ‘‘अत्तनो पञ्ञानुरूपेन एकं वा द्वे वा निकाये सकलं वा पन तेपिटकं बुद्धवचनं उग्गण्हित्वा तस्स धारणं, कथनं, वाचनन्ति इदं गन्थधुरं नाम, सल्लहुकवुत्तिनो पन पन्तसेनासनाभिरतस्स अत्तभावे खयवयं पट्ठपेत्वा सातच्चकिरियवसेन विपस्सनं वड्ढेत्वा अरहत्तग्गहणन्ति इदं विपस्सनाधुरं नामा’’ति. ‘‘भन्ते, अहं महल्लककाले पब्बजितो गन्थधुरं पूरेतुं न सक्खिस्सामि, विपस्सनाधुरं पन पूरेस्सामि, कम्मट्ठानं मे कथेथा’’ति. अथस्स सत्था याव अरहत्तं कम्मट्ठानं कथेसि.
सो सत्थारं वन्दित्वा अत्तना सहगामिनो भिक्खू परियेसन्तो सट्ठि भिक्खू लभित्वा तेहि सद्धिं निक्खमित्वा वीसयोजनसतमग्गं गन्त्वा एकं महन्तं पच्चन्तगामं पत्वा तत्थ सपरिवारो पिण्डाय पाविसि. मनुस्सा वत्तसम्पन्ने भिक्खू दिस्वाव पसन्नचित्ता आसनानि पञ्ञापेत्वा निसीदापेत्वा पणीतेनाहारेन परिविसित्वा, ‘‘भन्ते, कुहिं अय्या गच्छन्ती’’ति पुच्छित्वा ‘‘यथाफासुकट्ठानं उपासका’’ति वुत्ते पण्डिता मनुस्सा ‘‘वस्सावासं सेनासनं परियेसन्ति भदन्ता’’ति ञत्वा, ‘‘भन्ते, सचे अय्या इमं तेमासं इध वसेय्युं, मयं सरणेसु पतिट्ठाय सीलानि गण्हेय्यामा’’ति आहंसु. तेपि ‘‘मयं इमानि कुलानि निस्साय भवनिस्सरणं करिस्सामा’’ति अधिवासेसुं.
मनुस्सा तेसं पटिञ्ञं गहेत्वा विहारं पटिजग्गित्वा रत्तिट्ठानदिवाट्ठानानि सम्पादेत्वा अदंसु. ते निबद्धं तमेव गामं पिण्डाय पविसन्ति. अथ ने एको वेज्जो उपसङ्कमित्वा, ‘‘भन्ते, बहूनं वसनट्ठाने अफासुकम्पि नाम होति, तस्मिं उप्पन्ने मय्हं कथेय्याथ, भेसज्जं करिस्सामी’’ति पवारेसि. थेरो वस्सूपनायिकदिवसे ते भिक्खू आमन्तेत्वा पुच्छि, ‘‘आवुसो, इमं तेमासं कतिहि इरियापथेहि वीतिनामेस्सथा’’ति? ‘‘चतूहि, भन्ते’’ति. ‘‘किं पनेतं, आवुसो, पतिरूपं, ननु अप्पमत्तेहि भवितब्बं’’? ‘‘मयञ्हि धरमानकस्स बुद्धस्स सन्तिका कम्मट्ठानं गहेत्वा आगता, बुद्धा च नाम न सक्का पमादेन आराधेतुं, कल्याणज्झासयेन ते वो आराधेतब्बा. पमत्तस्स च नाम चत्तारो अपाया सकगेहसदिसा, अप्पमत्ता होथावुसो’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अहं तीहि इरियापथेहि वीतिनामेस्सामि, पिट्ठिं न पसारेस्सामि, आवुसो’’ति. ‘‘साधु, भन्ते, अप्पमत्ता होथा’’ति.
अथ थेरस्स निद्दं अनोक्कमन्तस्स पठममासे अतिक्कन्ते मज्झिममासे सम्पत्ते अक्खिरोगो उप्पज्जि. छिद्दघटतो उदकधारा विय अक्खीहि अस्सुधारा पग्घरन्ति. सो सब्बरत्तिं समणधम्मं कत्वा अरुणुग्गमने गब्भं पविसित्वा निसीदि. भिक्खू भिक्खाचारवेलाय थेरस्स सन्तिकं गन्त्वा, ‘‘भिक्खाचारवेला, भन्ते’’ति आहंसु. ‘‘तेन हि, आवुसो, गण्हथ पत्तचीवर’’न्ति. अत्तनो पत्तचीवरं गाहापेत्वा निक्खमि. भिक्खू तस्स अक्खीहि अस्सूनि पग्घरन्ते दिस्वा, ‘‘किमेतं, भन्ते’’ति पुच्छिंसु. ‘‘अक्खीनि मे, आवुसो, वाता विज्झन्ती’’ति. ‘‘ननु, भन्ते, वेज्जेन पवारितम्हा, तस्स कथेमा’’ति. ‘‘साधावुसो’’ति ते वेज्जस्स कथयिंसु. सो तेलं पचित्वा पेसेसि. थेरो नासाय तेलं आसिञ्चन्तो निसिन्नकोव आसिञ्चित्वा अन्तोगामं पाविसि. वेज्जो तं दिस्वा आह – ‘‘भन्ते, अय्यस्स किर अक्खीनि वातो विज्झती’’ति? ‘‘आम, उपासका’’ति. ‘‘भन्ते, मया तेलं पचित्वा पेसितं, नासाय वो तेलं आसित्त’’न्ति? ‘‘आम, उपासका’’ति. ‘‘इदानि कीदिस’’न्ति? ‘‘रुज्जतेव उपासका’’ति. वेज्जो ‘‘मया एकवारेनेव वूपसमनसमत्थं तेलं पहितं, किं नु खो रोगो न वूपसन्तो’’ति चिन्तेत्वा, ‘‘भन्ते, निसीदित्वा वो तेलं आसित्तं, निपज्जित्वा’’ति पुच्छि. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न कथेसि. सो ‘‘विहारं गन्त्वा थेरस्स वसनट्ठानं ओलोकेस्सामी’’ति चिन्तेत्वा – ‘‘तेन हि, भन्ते, गच्छथा’’ति थेरं विस्सज्जेत्वा विहारं गन्त्वा थेरस्स वसनट्ठानं ओलोकेन्तो चङ्कमननिसीदनट्ठानमेव दिस्वा सयनट्ठानं अदिस्वा, ‘‘भन्ते, निसिन्नेहि वो आसित्तं, निपन्नेही’’ति पुच्छि. थेरो तुण्ही अहोसि. ‘‘मा, भन्ते, एवं करित्थ, समणधम्मो नाम सरीरं यापेन्तेन सक्का कातुं, निपज्जित्वा आसिञ्चथा’’ति पुनप्पुनं याचि. ‘‘गच्छ त्वं तावावुसो, मन्तेत्वा जानिस्सामी’’ति वेज्जं उय्योजेसि. थेरस्स च तत्थ नेव ञाती, न सालोहिता अत्थि, तेन सद्धिं मन्तेय्य? करजकायेन पन सद्धिं मन्तेन्तो ‘‘वदेहि ताव, आवुसो पालित, त्वं किं अक्खीनि ओलोकेस्ससि, उदाहु बुद्धसासनं? अनमतग्गस्मिञ्हि संसारवट्टे तव अक्खिकाणस्स गणना नाम नत्थि, अनेकानि पन बुद्धसतानि बुद्धसहस्सानि अतीतानि. तेसु ते एकबुद्धोपि न परिचिण्णो, इदानि इमं अन्तोवस्सं तयो मासे न निपज्जिस्सामीति तेमासं निबद्धवीरियं करिस्सामि. तस्मा ते चक्खूनि नस्सन्तु वा भिज्जन्तु वा, बुद्धसासनमेव धारेहि, मा चक्खूनी’’ति भूतकायं ओवदन्तो इमा गाथायो अभासि –
‘‘चक्खूनि हायन्तु ममायितानि,
सोतानि हायन्तु तथेव कायो;
सब्बम्पिदं हायतु देहनिस्सितं,
किं कारणा पालित त्वं पमज्जसि.
‘‘चक्खूनि जीरन्तु ममायितानि,
सोतानि जीरन्तु तथेव कायो;
सब्बम्पिदं जीरतु देहनिस्सितं,
किं कारणा पालित त्वं पमज्जसि.
‘‘चक्खूनि भिज्जन्तु ममायितानि,
सोतानि भिज्जन्तु तथेव कायो;
सब्बम्पिदं भिज्जतु देहनिस्सितं,
किं कारणा पालित त्वं पमज्जसी’’ति.
एवं तीहि गाथाहि अत्तनो ओवादं दत्वा निसिन्नकोव नत्थुकम्मं कत्वा गामं पिण्डाय पाविसि. वेज्जो तं दिस्वा ‘‘किं, भन्ते, नत्थुकम्मं कत’’न्ति पुच्छि. ‘‘आम, उपासका’’ति. ‘‘कीदिसं, भन्ते’’ति? ‘‘रुज्जतेव उपासका’’ति. ‘‘निसीदित्वा वो, भन्ते, नत्थुकम्मं कतं, निपज्जित्वा’’ति. थेरो तुण्ही अहोसि, पुनप्पुनं पुच्छियमानोपि न किञ्चि कथेसि. अथ नं वेज्जो, ‘‘भन्ते, तुम्हे सप्पायं न करोथ, अज्जतो पट्ठाय ‘असुकेन मे तेलं पक्क’न्ति मा वदित्थ, अहम्पि ‘मया वो तेलं पक्क’न्ति न वक्खामी’’ति आह. सो वेज्जेन पच्चक्खातो विहारं गन्त्वा त्वं वेज्जेनापि पच्चक्खातोसि, इरियापथं मा विस्सज्जि समणाति.
‘‘पटिक्खित्तो तिकिच्छाय, वेज्जेनापि विवज्जितो;
नियतो मच्चुराजस्स, किं पालित पमज्जसी’’ति. –
इमाय गाथाय अत्तानं ओवदित्वा समणधम्मं अकासि. अथस्स मज्झिमयामे अतिक्कन्ते अपुब्बं अचरिमं अक्खीनि चेव किलेसा च भिज्जिंसु. सो सुक्खविपस्सको अरहा हुत्वा गब्भं पविसित्वा निसीदि.
भिक्खू भिक्खाचारवेलाय आगन्त्वा ‘‘भिक्खाचारकालो, भन्ते’’ति आहंसु. ‘‘कालो, आवुसो’’ति? ‘‘आम, भन्ते’’ति. ‘‘तेन हि गच्छथा’’ति. ‘‘किं तुम्हे पन, भन्ते’’ति? ‘‘अक्खीनि मे, आवुसो, परिहीनानी’’ति. ते तस्स अक्खीनि ओलोकेत्वा अस्सुपुण्णनेत्ता हुत्वा, ‘‘भन्ते, मा चिन्तयित्थ, मयं वो पटिजग्गिस्सामा’’ति थेरं समस्सासेत्वा कत्तब्बयुत्तकं वत्तपटिवत्तं कत्वा गामं पिण्डाय पविसिंसु. मनुस्सा थेरं अदिस्वा, ‘‘भन्ते, अम्हाकं अय्यो कुहि’’न्ति पुच्छित्वा तं पवत्तिं सुत्वा यागुं पेसेत्वा सयं पिण्डपातमादाय गन्त्वा थेरं वन्दित्वा पादमूले परिवत्तमाना रोदित्वा, ‘‘भन्ते, मयं वो पटिजग्गिस्साम, तुम्हे मा चिन्तयित्था’’ति समस्सासेत्वा पक्कमिंसु.
ततो पट्ठाय निबद्धं यागुभत्तं विहारमेव पेसेन्ति. थेरोपि इतरे सट्ठि भिक्खू निरन्तरं ओवदति. ते तस्सोवादे ठत्वा उपकट्ठाय पवारणाय सब्बेव सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. ते वुट्ठवस्सा च पन सत्थारं दट्ठुकामा हुत्वा थेरमाहंसु, ‘‘भन्ते, सत्थारं दट्ठुकामम्हा’’ति. थेरो तेसं वचनं सुत्वा चिन्तेसि – ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि एतेहि सद्धिं गच्छन्ते सब्बे किलमिस्सन्ति, भिक्खम्पि लभितुं न सक्खिस्सन्ति, इमे पुरेतरमेव पेसेस्सामी’’ति. अथ ने आह – ‘‘आवुसो, तुम्हे पुरतो गच्छथा’’ति. ‘‘तुम्हे पन भन्ते’’ति? ‘‘अहं दुब्बलो, अन्तरामग्गे च अमनुस्सपरिग्गहिता अटवी अत्थि, मयि तुम्हेहि सद्धिं गच्छन्ते सब्बे किलमिस्सथ, तुम्हे पुरतो गच्छथा’’ति. ‘‘मा, भन्ते, एवं करित्थ, मयं तुम्हेहि सद्धिंयेव गमिस्सामा’’ति. ‘‘मा वो, आवुसो, एवं रुच्चित्थ, एवं सन्ते मय्हं अफासुकं भविस्सति, मय्हं कनिट्ठो पन तुम्हे दिस्वा पुच्छिस्सति, अथस्स मम चक्खूनं परिहीनभावं आरोचेय्याथ, सो मय्हं सन्तिकं कञ्चिदेव पहिणिस्सति, तेन सद्धिं आगच्छिस्सामि, तुम्हे मम वचनेन दसबलञ्च असीतिमहाथेरे च वन्दथा’’ति ते उय्योजेसि.
ते थेरं खमापेत्वा अन्तोगामं पविसिंसु. मनुस्सा ते दिस्वा निसीदापेत्वा भिक्खं दत्वा ‘‘किं, भन्ते, अय्यानं गमनाकारो पञ्ञायती’’ति? ‘‘आम, उपासका, सत्थारं दट्ठुकामम्हा’’ति. ते पुनप्पुनं याचित्वा तेसं गमनछन्दमेव ञत्वा अनुगन्त्वा परिदेवित्वा निवत्तिंसु. तेपि अनुपुब्बेन जेतवनं गन्त्वा सत्थारञ्च असीतिमहाथेरे च थेरस्स वचनेन वन्दित्वा पुनदिवसे यत्थ थेरस्स कनिट्ठो वसति, तं वीथिं पिण्डाय पविसिंसु. कुटुम्बिको ते सञ्जानित्वा निसीदापेत्वा कतपटिसन्थारो ‘‘भातिकत्थेरो मे, भन्ते, कुहि’’न्ति पुच्छि. अथस्स ते तं पवत्तिं आरोचेसुं. सो तं सुत्वाव तेसं पादमूले परिवत्तेन्तो रोदित्वा पुच्छि – ‘‘इदानि, भन्ते, किं कातब्ब’’न्ति? ‘‘थेरो इतो कस्सचि आगमनं पच्चासीसति, तस्स गतकाले तेन सद्धिं आगमिस्सती’’ति. ‘‘अयं मे, भन्ते, भागिनेय्यो पालितो नाम, एतं पेसेथा’’ति. ‘‘एवं पेसेतुं न सक्का, मग्गे परिपन्थो अत्थि, तं पब्बाजेत्वा पेसेतुं वट्टती’’ति. ‘‘एवं कत्वा पेसेथ, भन्ते’’ति. अथ नं पब्बाजेत्वा अड्ढमासमत्तं पत्तचीवरग्गहणादीनि सिक्खापेत्वा मग्गं आचिक्खित्वा पहिणिंसु.
सो अनुपुब्बेन तं गामं पत्वा गामद्वारे एकं महल्लकं दिस्वा, ‘‘इमं गामं निस्साय कोचि आरञ्ञको विहारो अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति. ‘‘को नाम तत्थ वसती’’ति? ‘‘पालितत्थेरो नाम, भन्ते’’ति. ‘‘मग्गं मे आचिक्खथा’’ति. ‘‘कोसि त्वं, भन्ते’’ति? ‘‘थेरस्स भागिनेय्योम्ही’’ति. अथ नं गहेत्वा विहारं नेसि. सो थेरं वन्दित्वा अड्ढमासमत्तं वत्तपटिवत्तं कत्वा थेरं सम्मा पटिजग्गित्वा, ‘‘भन्ते, मातुलकुटुम्बिको मे तुम्हाकं आगमनं पच्चासीसति, एथ, गच्छामा’’ति आह. ‘‘तेन हि इमं मे यट्ठिकोटिं गण्हाही’’ति. सो यट्ठिकोटिं गहेत्वा थेरेन सद्धिं अन्तोगामं पाविसि. मनुस्सा थेरं निसीदापेत्वा ‘‘किं, भन्ते, गमनाकारो वो पञ्ञायती’’ति पुच्छिंसु. ‘‘आम, उपासका, गन्त्वा सत्थारं वन्दिस्सामी’’ति. ते नानप्पकारेन याचित्वा अलभन्ता थेरं उय्योजेत्वा उपड्ढपथं गन्त्वा रोदित्वा निवत्तिंसु. सामणेरो थेरं यट्ठिकोटिया आदाय गच्छन्तो अन्तरामग्गे अटवियं कट्ठनगरं नाम थेरेन उपनिस्साय वुट्ठपुब्बं गामं सम्पापुणि, सो गामतो निक्खमित्वा अरञ्ञे गीतं गायित्वा दारूनि उद्धरन्तिया एकिस्सा इत्थिया गीतसद्दं सुत्वा सरे निमित्तं गण्हि. इत्थिसद्दो विय हि अञ्ञो सद्दो पुरिसानं सकलसरीरं फरित्वा ठातुं समत्थो नाम नत्थि. तेनाह भगवा –
‘‘नाहं, भिक्खवे, अञ्ञं एकसद्दम्पि समनुपस्सामि, यं एवं पुरिसस्स चित्तं परियादाय तिट्ठति, यथयिदं, भिक्खवे, इत्थिसद्दो’’ति (अ. नि. १.२).
सामणेरो तत्थ निमित्तं गहेत्वा यट्ठिकोटिं विस्सज्जेत्वा ‘‘तिट्ठथ ताव, भन्ते, किच्चं मे अत्थी’’ति तस्सा सन्तिकं गतो. सा तं दिस्वा तुण्ही अहोसि. सो ताय सद्धिं सीलविपत्तिं पापुणि. थेरो चिन्तेसि – ‘‘इदानेव एको गीतसद्दो सुय्यित्थ. सो च खो इत्थिया सद्दो छिज्जि, सामणेरोपि चिरायति, सो ताय सद्धिं सीलविपत्तिं पत्तो भविस्सती’’ति. सोपि अत्तनो किच्चं निट्ठापेत्वा आगन्त्वा ‘‘गच्छाम, भन्ते’’ति आह. अथ नं थेरो पुच्छि – ‘‘पापोजातोसि सामणेरा’’ति. सो तुण्ही हुत्वा थेरेन पुनप्पुनं पुट्ठोपि न किञ्चि कथेसि. अथ नं थेरो आह – ‘‘तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति. सो संवेगप्पत्तो कासायानि अपनेत्वा गिहिनियामेन परिदहित्वा, ‘‘भन्ते, अहं पुब्बे सामणेरो, इदानि पनम्हि गिही जातो, पब्बजन्तोपि च स्वाहं न सद्धाय पब्बजितो, मग्गपरिपन्थभयेन पब्बजितो, एथ गच्छामा’’ति आह. ‘‘आवुसो, गिहिपापोपि समणपापोपि पापोयेव, त्वं समणभावे ठत्वापि सीलमत्तं पूरेतुं नासक्खि, गिही हुत्वा किं नाम कल्याणं करिस्ससि, तादिसेन पापेन मम यट्ठिकोटिग्गहणकिच्चं नत्थी’’ति आह. ‘‘भन्ते, अमनुस्सुपद्दवो मग्गो, तुम्हे च अन्धा अपरिणायका, कथं इध वसिस्सथा’’ति? अथ नं थेरो, ‘‘आवुसो, त्वं मा एवं चिन्तयि, इधेव मे निपज्जित्वा मरन्तस्सापि अपरापरं परिवत्तन्तस्सापि तया सद्धिं गमनं नाम नत्थी’’ति वत्वा इमा गाथा अभासि –
‘‘हन्दाहं हतचक्खुस्मि, कन्तारद्धानमागतो;
सेय्यमानो न गच्छामि, नत्थि बाले सहायता.
‘‘हन्दाहं हतचक्खुस्मि, कन्तारद्धानमागतो;
मरिस्सामि नो गमिस्सामि, नत्थि बाले सहायता’’ति.
तं सुत्वा इतरो संवेगजातो ‘‘भारियं वत मे साहसिकं अननुच्छविकं कम्मं कत’’न्ति बाहा पग्गय्ह कन्दन्तो वनसण्डं पक्खन्दित्वा तथा पक्कन्तोव अहोसि. थेरस्सापि सीलतेजेन सट्ठियोजनायामं पञ्ञासयोजनवित्थतं पन्नरसयोजनबहलं जयसुमनपुप्फवण्णं निसीदनुट्ठहनकालेसु ओनमनुन्नमनपकतिकं सक्कस्स देवरञ्ञो पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को ‘‘को नु खो मं ठाना चावेतुकामो’’ति ओलोकेन्तो दिब्बेन चक्खुना थेरं अद्दस. तेनाहु पोराणा –
‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;
पापगरही अयं पालो, आजीवं परिसोधयि.
‘‘सहस्सनेत्तो देविन्दो, दिब्बचक्खुं विसोधयि;
धम्मगरुको अयं पालो, निसिन्नो सासने रतो’’ति.
अथस्स एतदहोसि – ‘‘सचाहं एवरूपस्स पापगरहिनो धम्मगरुकस्स अय्यस्स सन्तिकं न गमिस्सामि, मुद्धा मे सत्तधा फलेय्य, गमिस्सामि तस्स सन्तिक’’न्ति. ततो –
‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;
तङ्खणेन आगन्त्वान, चक्खुपालमुपागमि’’. –
उपगन्त्वा च पन थेरस्स अविदूरे पदसद्दमकासि. अथ नं थेरो पुच्छि – ‘‘को एसो’’ति? ‘‘अहं, भन्ते, अद्धिको’’ति. ‘‘कुहिं यासि उपासका’’ति? ‘‘सावत्थियं, भन्ते’’ति. ‘‘याहि, आवुसो’’ति. ‘‘अय्यो पन, भन्ते, कुहिं गमिस्सती’’ति? ‘‘अहम्पि तत्थेव गमिस्सामी’’ति. ‘‘तेन हि एकतोव गच्छाम, भन्ते’’ति. ‘‘अहं, आवुसो, दुब्बलो, मया सद्धिं गच्छन्तस्स तव पपञ्चो भविस्सती’’ति. ‘‘मय्हं अच्चायिकं नत्थि, अहम्पि अय्येन सद्धिं गच्छन्तो दससु पुञ्ञकिरियवत्थूसु एकं लभिस्सामि, एकतोव गच्छाम, भन्ते’’ति. थेरो ‘‘एसो सप्पुरिसो भविस्सती’’ति चिन्तेत्वा – ‘‘तेन हि सद्धिं गमिस्सामि, यट्ठिकोटिं गण्ह उपासका’’ति आह. सक्को तथा कत्वा पथविं सङ्खिपन्तो सायन्हसमये जेतवनं सम्पापेसि. थेरो सङ्खपणवादिसद्दं सुत्वा ‘‘कत्थेसो सद्दो’’ति पुच्छि. ‘‘सावत्थियं, भन्ते’’ति? ‘‘पुब्बे मयं गमनकाले चिरेन गमिम्हा’’ति. ‘‘अहं उजुमग्गं जानामि, भन्ते’’ति. तस्मिं खणे थेरो ‘‘नायं मनुस्सो, देवता भविस्सती’’ति सल्लक्खेसि.
‘‘सहस्सनेत्तो देविन्दो, देवरज्जसिरिन्धरो;
सङ्खिपित्वान तं मग्गं, खिप्पं सावत्थिमागमी’’ति.
सो थेरं नेत्वा थेरस्सेवत्थाय कनिट्ठकुटुम्बिकेन कारितं पण्णसालं नेत्वा फलके निसीदापेत्वा पियसहायकवण्णेन तस्स सन्तिकं गन्त्वा, ‘‘सम्म, चूळपाला’’ति पक्कोसि. ‘‘किं, सम्मा’’ति? ‘‘थेरस्सागतभावं जानासी’’ति? ‘‘न जानामि, किं पन थेरो आगतो’’ति? ‘‘आम, सम्म, इदानि अहं विहारं गन्त्वा थेरं तया कारितपण्णसालाय निसिन्नकं दिस्वा आगतोम्ही’’ति वत्वा पक्कामि. कुटुम्बिकोपि विहारं गन्त्वा थेरं दिस्वा पादमूले परिवत्तन्तो रोदित्वा ‘‘इदं दिस्वा अहं, भन्ते, तुम्हाकं पब्बजितुं नादासि’’न्तिआदीनि वत्वा द्वे दासदारके भुजिस्से कत्वा थेरस्स सन्तिके पब्बाजेत्वा ‘‘अन्तोगामतो यागुभत्तादीनि आहरित्वा थेरं उपट्ठहथा’’ति पटियादेसि. सामणेरा वत्तपटिवत्तं कत्वा थेरं उपट्ठहिंसु.
अथेकदिवसं दिसावासिनो भिक्खू ‘‘सत्थारं पस्सिस्सामा’’ति जेतवनं आगन्त्वा तथागतं वन्दित्वा असीतिमहाथेरे च, वन्दित्वा विहारचारिकं चरन्ता चक्खुपालत्थेरस्स वसनट्ठानं पत्वा ‘‘इदम्पि पस्सिस्सामा’’ति सायं तदभिमुखा अहेसुं. तस्मिं खणे महामेघो उट्ठहि. ते ‘‘इदानि अतिसायन्हो, मेघो च उट्ठितो, पातोव गन्त्वा पस्सिस्सामा’’ति निवत्तिंसु. देवो पठमयामं वस्सित्वा मज्झिमयामे विगतो. थेरो आरद्धवीरियो आचिण्णचङ्कमनो, तस्मा पच्छिमयामे चङ्कमनं ओतरि. तदा च पन नववुट्ठाय भूमिया बहू इन्दगोपका उट्ठहिंसु. ते थेरे चङ्कमन्ते येभुय्येन विपज्जिंसु. अन्तेवासिका थेरस्स चङ्कमनट्ठानं कालस्सेव न सम्मज्जिंसु. इतरे भिक्खू ‘‘थेरस्स वसनट्ठानं पस्सिस्सामा’’ति आगन्त्वा चङ्कमने मतपाणके दिस्वा ‘‘को इमस्मिं चङ्कमती’’ति पुच्छिंसु. ‘‘अम्हाकं उपज्झायो, भन्ते’’ति. ते उज्झायिंसु ‘‘पस्सथावुसो, समणस्स कम्मं, सचक्खुककाले निपज्जित्वा निद्दायन्तो किञ्चि अकत्वा इदानि चक्खुविकलकाले ‘चङ्कमामी’ति एत्तके पाणके मारेसि ‘अत्थं करिस्सामी’ति अनत्थं करोती’’ति.
अथ खो ते गन्त्वा तथागतस्स आरोचेसुं, ‘‘भन्ते, चक्खुपालत्थेरो ‘चङ्कमामी’ति बहू पाणके मारेसी’’ति. ‘‘किं पन सो तुम्हेहि मारेन्तो दिट्ठो’’ति? ‘‘न दिट्ठो, भन्ते’’ति. ‘‘यथेव तुम्हे तं न पस्सथ, तथेव सोपि ते पाणे न पस्सति. खीणासवानं मरणचेतना नाम नत्थि, भिक्खवे’’ति. ‘‘भन्ते, अरहत्तस्स उपनिस्सये सति कस्मा अन्धो जातो’’ति? ‘‘अत्तनो कतकम्मवसेन, भिक्खवे’’ति. ‘‘किं पन, भन्ते, तेन कत’’न्ति? तेन हि, भिक्खवे, सुणाथ –
अतीते बाराणसियं कासिरञ्ञे रज्जं कारेन्ते एको वेज्जो गामनिगमेसु चरित्वा वेज्जकम्मं करोन्तो एकं चक्खुदुब्बलं इत्थिं दिस्वा पुच्छि – ‘‘किं ते अफासुक’’न्ति? ‘‘अक्खीहि न पस्सामी’’ति. ‘‘भेसज्जं ते करिस्सामी’’ति? ‘‘करोहि, सामी’’ति. ‘‘किं मे दस्ससी’’ति? ‘‘सचे मे अक्खीनि पाकतिकानि कातुं सक्खिस्ससि, अहं ते सद्धिं पुत्तधीताहि दासी भविस्सामी’’ति. सो ‘‘साधू’’ति भेसज्जं संविदहि, एकभेसज्जेनेव अक्खीनि पाकतिकानि अहेसुं. सा चिन्तेसि – ‘‘अहमेतस्स सपुत्तधीता दासी भविस्सामी’’ति पटिजानिं, ‘‘न खो पन मं सण्हेन सम्माचारेन समुदाचरिस्सति, वञ्चेस्सामि न’’न्ति. सा वेज्जेनागन्त्वा ‘‘कीदिसं, भद्दे’’ति पुट्ठा ‘‘पुब्बे मे अक्खीनि थोकं रुज्जिंसु, इदानि पन अतिरेकतरं रुज्जन्ती’’ति आह. वेज्जो ‘‘अयं मं वञ्चेत्वा किञ्चि अदातुकामा, न मे एताय दिन्नाय भतिया अत्थो, इदानेव नं अन्धं करिस्सामी’’ति चिन्तेत्वा गेहं गन्त्वा भरियाय एतमत्थं आचिक्खि. सा तुण्ही अहोसि. सो एकं भेसज्जं योजेत्वा तस्सा सन्तिकं गन्त्वा ‘‘भद्दे, इमं भेसज्जं अञ्जेही’’ति अञ्जापेसि. अथस्सा द्वे अक्खीनि दीपसिखा विय विज्झायिंसु. सो वेज्जो चक्खुपालो अहोसि.
भिक्खवे, तदा मम पुत्तेन कतकम्मं पच्छतो पच्छतो अनुबन्धि. पापकम्मञ्हि नामेतं धुरं वहतो बलिबद्दस्स पदं चक्कं विय अनुगच्छतीति इदं वत्थुं कथेत्वा अनुसन्धिं घटेत्वा पतिट्ठापितमत्तिकं सासनं राजमुद्दाय लञ्छन्तो विय धम्मराजा इमं गाथमाह –
१. ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पद’’न्ति.
तत्थ मनोति कामावचरकुसलादिभेदं सब्बम्पि चतुभूमिकचित्तं. इमस्मिं पन पदे तदा तस्स वेज्जस्स उप्पन्नचित्तवसेन नियमियमानं ववत्थापियमानं परिच्छिज्जियमानं दोमनस्ससहगतं पटिघसम्पयुत्तचित्तमेव लब्भति. पुब्बङ्गमाति तेन पठमगामिना हुत्वा समन्नागता. धम्माति गुणदेसनापरियत्तिनिस्सत्तनिज्जीववसेन चत्तारो धम्मा नाम. तेसु –
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४; जा. १.१५.३८६) –
अयं गुणधम्मो नाम. ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याण’’न्ति (म. नि. ३.४२०) अयं देसनाधम्मो नाम. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति सुत्तं गेय्य’’न्ति (म. नि. १.२३९) अयं परियत्तिधम्मो नाम. ‘‘तस्मिं खो पन समये धम्मा होन्ति, खन्धा होन्ती’’ति (ध. स. १२१) अयं निस्सत्तधम्मो नाम, निज्जीवधम्मोतिपि एसो एव. तेसु इमस्मिं ठाने निस्सत्तनिज्जीवधम्मो अधिप्पेतो. सो अत्थतो तयो अरूपिनो खन्धा वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धोति. एते हि मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा नाम.
कथं पनेतेहि सद्धिं एकवत्थुको एकारम्मणो अपुब्बं अचरिमं एकक्खणे उप्पज्जमानो मनो पुब्बङ्गमो नाम होतीति? उप्पादपच्चयट्ठेन. यथा हि बहूसु एकतो गामघातादीनि कम्मानि करोन्तेसु ‘‘को एतेसं पुब्बङ्गमो’’ति वुत्ते यो नेसं पच्चयो होति, यं निस्साय ते तं कम्मं करोन्ति, सो दत्तो वा मित्तो वा तेसं पुब्बङ्गमोति वुच्चति, एवंसम्पदमिदं वेदितब्बं. इति उप्पादपच्चयट्ठेन मनो पुब्बङ्गमो एतेसन्ति मनोपुब्बङ्गमा. न हि ते मने अनुप्पज्जन्ते उप्पज्जितुं सक्कोन्ति, मनो पन एकच्चेसु चेतसिकेसु अनुपज्जन्तेसुपि उप्पज्जतियेव. अधिपतिवसेन पन मनो सेट्ठो एतेसन्ति मनोसेट्ठो. यथा हि चोरादीनं चोरजेट्ठकादयो अधिपतिनो सेट्ठा. तथा तेसम्पि मनो अधिपति मनोव सेट्ठा. यथा पन दारुआदीहि निप्फन्नानि तानि तानि भण्डानि दारुमयादीनि नाम होन्ति, तथा तेपि मनतो निप्फन्नत्ता मनोमया नाम.
पदुट्ठेनाति आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठेन. पकतिमनो हि भवङ्गचित्तं, तं अपदुट्ठं. यथा हि पसन्नं उदकं आगन्तुकेहि नीलादीहि उपक्किलिट्ठं नीलोदकादिभेदं होति, न च नवं उदकं, नापि पुरिमं पसन्नउदकमेव, तथा तम्पि आगन्तुकेहि अभिज्झादीहि दोसेहि पदुट्ठं होति, न च नवं चित्तं, नापि पुरिमं भवङ्गचित्तमेव, तेनाह भगवा – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). एवं मनसा चे पदुट्ठेन, भासति वा करोति वा सो भासमानो चतुब्बिधं वचीदुच्चरितमेव भासति, करोन्तो तिविधं कायदुच्चरितमेव करोति, अभासन्तो अकरोन्तो ताय अभिज्झादीहि पदुट्ठमानसताय तिविधं मनोदुच्चरितं पूरेति. एवमस्स दस अकुसलकम्मपथा पारिपूरिं गच्छन्ति.
ततो नं दुक्खमन्वेतीति ततो तिविधदुच्चरिततो तं पुग्गलं दुक्खं अन्वेति, दुच्चरितानुभावेन चतूसु अपायेसु, मनुस्सेसु वा तमत्तभावं गच्छन्तं कायवत्थुकम्पि इतरम्पीति इमिना परियायेन कायिकचेतसिकं विपाकदुक्खं अनुगच्छति. यथा किं? चक्कंव वहतो पदन्ति धुरे युत्तस्स धुरं वहतो बलिबद्दस्स पदं चक्कं विय. यथा हि सो एकम्पि दिवसं द्वेपि पञ्चपि दसपि अड्ढमासम्पि मासम्पि वहन्तो चक्कं निवत्तेतुं जहितुं न सक्कोति, अथ ख्वस्स पुरतो अभिक्कमन्तस्स युगं गीवं बाधति, पच्छतो पटिक्कमन्तस्स चक्कं ऊरुमंसं पटिहनति. इमेहि द्वीहि आकारेहि बाधन्तं चक्कं तस्स पदानुपदिकं होति; तथेव मनसा पदुट्ठेन तीणि दुच्चरितानि पूरेत्वा ठितं पुग्गलं निरयादीसु तत्थ तत्थ गतगतट्ठाने दुच्चरितमूलकं कायिकम्पि चेतसिकम्पि दुक्खमनुबन्धतीति.
गाथापरियोसाने तिंससहस्सा भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिभायपि देसना सात्थिका सफला अहोसीति.
चक्खुपालत्थेरवत्थु पठमं
२. मट्ठकुण्डलीवत्थु
२. मनोपुब्बङ्गमा धम्माति दुतियगाथापि सावत्थियंयेव मट्ठकुण्डलिं आरब्भ भासिता.
सावत्थियं किर अदिन्नपुब्बको नाम ब्राह्मणो अहोसि. तेन कस्सचि किञ्चि न दिन्नपुब्बं, तेन तं ‘‘अदिन्नपुब्बको’’त्वेव सञ्जानिंसु. तस्स एकपुत्तको अहोसि पियो मनापो. अथस्स पिलन्धनं कारेतुकामो ‘‘सचे सुवण्णकारे कारेस्सामि, भत्तवेतनं दातब्बं भविस्सती’’ति सयमेव सुवण्णं कोट्टेत्वा मट्ठानि कुण्डलानि कत्वा अदासि. तेनस्स पुत्तो मट्ठकुण्डलीत्वेव पञ्ञायित्थ. तस्स सोळसवस्सिककाले पण्डुरोगो उदपादि. तस्स माता पुत्तं ओलोकेत्वा, ‘‘ब्राह्मण, पुत्तस्स ते रोगो उप्पन्नो, तिकिच्छापेहि न’’न्ति आह. ‘‘भोति सचे वेज्जं आनेस्सामि, भत्तवेतनं दातब्बं भविस्सति; किं त्वं मम धनच्छेदं न ओलोकेस्ससी’’ति? ‘‘अथ नं किं करिस्ससि, ब्राह्मणा’’ति? ‘‘यथा मे धनच्छेदो न होति, तथा करिस्सामी’’ति. सो वेज्जानं सन्तिकं गन्त्वा ‘‘असुकरोगस्स नाम तुम्हे किं भेसज्जं करोथा’’ति पुच्छि. अथस्स ते यं वा तं वा रुक्खतचादिं आचिक्खन्ति. सो तमाहरित्वा पुत्तस्स भेसज्जं करोति. तं करोन्तस्सेवस्स रोगो बलवा अहोसि, अतेकिच्छभावं उपागमि. ब्राह्मणो तस्स दुब्बलभावं ञत्वा एकं वेज्जं पक्कोसि. सो तं ओलोकेत्वाव ‘‘अम्हाकं एकं किच्चं अत्थि, अञ्ञं वेज्जं पक्कोसित्वा तिकिच्छापेही’’ति तं पहाय निक्खमि. ब्राह्मणो तस्स मरणसमयं ञत्वा ‘‘इमस्स दस्सनत्थाय आगता अन्तोगेहे सापतेय्यं पस्सिस्सन्ति, बहि नं करिस्सामी’’ति पुत्तं नीहरित्वा बहिआळिन्दे निपज्जापेसि.
तं दिवसं भगवा बलवपच्चूससमये महाकरुणासमापत्तितो वुट्ठाय पुब्बबुद्धेसु कताधिकारानं उस्सन्नकुसलमूलानं वेनेय्यबन्धवानं दस्सनत्थं बुद्धचक्खुना लोकं वोलोकेन्तो दससहस्सचक्कवाळेसु ञाणजालं पत्थरि. मट्ठकुण्डली बहिआळिन्दे निपन्नाकारेनेव तस्स अन्तो पञ्ञायि. सत्था तं दिस्वा तस्स अन्तोगेहा नीहरित्वा तत्थ निपज्जापितभावं ञत्वा ‘‘अत्थि नु खो मय्हं एत्थ गतपच्चयेन अत्थो’’ति उपधारेन्तो इदं अद्दस – अयं माणवो मयि चित्तं पसादेत्वा कालं कत्वा तावतिंसदेवलोके तिंसयोजनिके कनकविमाने निब्बत्तिस्सति, अच्छरासहस्सपरिवारो भविस्सति, ब्राह्मणोपि तं झापेत्वा रोदन्तो आळाहने विचरिस्सति. देवपुत्तो तिगावुतप्पमाणं सट्ठिसकटभारालङ्कारपटिमण्डितं अच्छरासहस्सपरिवारं अत्तभावं ओलोकेत्वा ‘‘केन नु खो कम्मेन मया अयं सिरिसम्पत्ति लद्धा’’ति ओलोकेत्वा मयि चित्तप्पसादेन लद्धभावं ञत्वा ‘‘अयं ब्राह्मणो धनच्छेदभयेन मम भेसज्जमकत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तं नं करिस्सामी’’ति पितरि रोदन्ते मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे निपज्जित्वा रोदिस्सति. अथ नं ब्राह्मणो ‘‘कोसि त्व’’न्ति पुच्छिस्सति. ‘‘अहं ते पुत्तो मट्ठकुण्डली’’ति आचिक्खिस्सति. ‘‘कुहिं निब्बत्तोसी’’ति? ‘‘तावसिंसभवने’’ति. ‘‘किं कम्मं कत्वा’’ति वुत्ते मयि चित्तप्पसादेन निब्बत्तभावं आचिक्खिस्सति. ब्राह्मणो ‘‘तुम्हेसु चित्तं पसादेत्वा सग्गे निब्बत्तो नाम अत्थी’’ति मं पुच्छिस्सति. अथस्साहं ‘‘एत्तकानि सतानि वा सहस्सानि वा सतसहस्सानि वाति न सक्का गणना परिच्छिन्दितु’’न्ति वत्वा धम्मपदे गाथं भासिस्सामि. गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सति, मट्ठ कुण्डली सोतापन्नो भविस्सति. तथा अदिन्नपुब्बको ब्राह्मणो. इति इमं कुलपुत्तं निस्साय महाधम्माभिसमयो भविस्सतीति दिस्वा पुनदिवसे कतसरीरपटिजग्गनो महाभिक्खुसङ्घपरिवुतो सावत्थिं पिण्डाय पविसित्वा अनुपुब्बेन ब्राह्मणस्स गेहद्वारं गतो.
तस्मिं खणे मट्ठकुण्डली अन्तोगेहाभिमुखो निपन्नो होति. अथस्स सत्था अत्तनो अपस्सनभावं ञत्वा एकं रस्मिं विस्सज्जेसि. माणवो ‘‘किं ओभासो नामेसो’’ति परिवत्तेत्वा निपन्नोव सत्थारं दिस्वा, ‘‘अन्धबालपितरं निस्साय एवरूपं बुद्धं उपसङ्कमित्वा कायवेय्यावटिकं वा कातुं दानं वा दातुं धम्मं वा सोतुं नालत्थं, इदानि मे हत्थापि अनधिपतेय्या, अञ्ञं कत्तब्बं नत्थी’’ति मनमेव पसादेसि. सत्था ‘‘अलं एत्तकेन चित्तप्पसादेन इमस्सा’’ति पक्कामि. सो तथागते चक्खुपथं विजहन्तेयेव पसन्नमनो कालं कत्वा सुत्तप्पबुद्धो विय देवलोके तिंसयोजनिके कनकविमाने निब्बत्ति.
ब्राह्मणोपिस्स सरीरं झापेत्वा आळाहने रोदनपरायणो अहोसि, देवसिकं आळाहनं गन्त्वा रोदति – ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’ति. देवपुत्तोपि अत्तनो सम्पत्तिं ओलोकेत्वा, ‘‘केन मे कम्मेन लद्धा’’ति उपधारेन्तो ‘‘सत्थरि मनोपसादेना’’ति ञत्वा ‘‘अयं ब्राह्मणो मम अफासुककाले भेसज्जमकारेत्वा इदानि आळाहनं गन्त्वा रोदति, विप्पकारप्पत्तमेव नं कातुं वट्टती’’ति मट्ठकुण्डलिवण्णेन आगन्त्वा आळाहनस्साविदूरे बाहा पग्गय्ह रोदन्तो अट्ठासि. ब्राह्मणो तं दिस्वा ‘‘अहं ताव पुत्तसोकेन रोदामि, एस किमत्थं रोदति, पुच्छिस्सामि न’’न्ति पुच्छन्तो इमं गाथमाह –
‘‘अलङ्कतो मट्ठकुण्डली,
मालधारी हरिचन्दनुस्सदो;
बाहा पग्गय्ह कन्दसि,
वनमज्झे किं दुक्खितो तुव’’न्ति. (वि. व. १२०७; पे. व. १८६);
सो माणवो आह –
‘‘सोवण्णमयो पभस्सरो,
उप्पन्नो रथपञ्जरो मम;
तस्स चक्कयुगं न विन्दामि,
तेन दुक्खेन जहामि जीवित’’न्ति. (व. १२०८; पे. व. १८७);
अथ नं ब्राह्मणो आह –
‘‘सोवण्णमयं मणिमयं,
लोहितकमयं अथ रूपियमयं;
आचिक्ख मे भद्द माणव,
चक्कयुगं पटिपादयामि ते’’ति. (वि. व. १२०९; पे. व. १८८);
तं सुत्वा माणवो ‘‘अयं ब्राह्मणो पुत्तस्स भेसज्जमकत्वा पुत्तपतिरूपकं मं दिस्वा रोदन्तो ‘सुवण्णादिमयं रथचक्कं करोमी’ति वदति, होतु निग्गण्हिस्सामि न’’न्ति चिन्तेत्वा ‘‘कीव महन्तं मे चक्कयुगं करिस्ससी’’ति वत्वा ‘‘याव महन्तं आकङ्खसि, ताव महन्तं करिस्सामी’’ति वुत्ते ‘‘चन्दिमसूरियेहि मे अत्थो, ते मे देही’’ति याचन्तो आह –
‘‘सो माणवो तस्स पावदि,
चन्दसूरिया उभयेत्थ दिस्सरे;
सोवण्णमयो रथो मम,
तेन चक्कयुगेन सोभती’’ति. (वि. व. १२१०; पे. व. १८९);
अथ नं ब्राह्मणो आह –
‘‘बालो खो त्वं असि माणव,
यो त्वं पत्थयसे अपत्थियं;
मञ्ञामि तुवं मरिस्ससि,
न हि त्वं लच्छसि चन्दसूरिये’’ति. (वि. व. १२११; पे. व. १९०);
अथ नं माणवो आह –
‘‘किं पन पञ्ञायमानस्सत्थाय रोदन्तो बालो होति, उदाहु अपञ्ञायमानस्सत्थाया’’ति वत्वा –
‘‘गमनागमनम्पि दिस्सति,
वण्णधातु उभयत्थ वीथिया;
पेतो कालकतो न दिस्सति,
को निध कन्दतं बाल्यतरो’’ति. (वि. व. १२१२; पे. व. १९१);
तं सुत्वा ब्राह्मणो ‘‘युत्तं एस वदती’’ति सल्लक्खेत्वा –
‘‘सच्चं खो वदेसि माणव,
अहमेव कन्दतं बाल्यतरो;
चन्दं विय दारको रुदं,
पेतं कालकताभिपत्थयि’’न्ति. (वि. व. १२१३; पे. व. १९२) –
वत्वा तस्स कथाय निस्सोको हुत्वा माणवस्स थुतिं करोन्तो इमा गाथा अभासि –
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, तव सुत्वान माणवा’’ति. (वि. व. १२१४-१२१६; पे. व. १९३-१९५);
अथ नं ‘‘को नाम त्व’’न्ति पुच्छन्तो –
‘‘देवतानुसि गन्धब्बो, अदु सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति. (वि. व. १२१७; पे. व. १९६) –
आह. अथस्स माणवो –
‘‘यञ्च कन्दसि यञ्च रोदसि,
पुत्तं आळाहने सयं दहित्वा;
स्वाहं कुसलं करित्वा कम्मं,
तिदसानं सहब्यतं गतो’’ति. (वि. व. १२१८; पे. व. १९७) –
आचिक्खि. अथ नं ब्राह्मणो आह –
‘‘अप्पं वा बहुं वा नाद्दसाम,
दानं ददन्तस्स सके अगारे;
उपोसथकम्मं वा तादिसं,
केन कम्मेन गतोसि देवलोक’’न्ति. (वि. व. १२१९; पे. व. १९८);
माणवो आह –
‘‘आबाधिकोहं दुक्खितो गिलानो,
आतूररूपोम्हि सके निवेसने;
बुद्धं विगतरजं वितिण्णकङ्खं,
अद्दक्खिं सुगतं अनोमपञ्ञं.
‘‘स्वाहं मुदितधनो पसन्नचित्तो,
अञ्जलिं अकरिं तथागतस्स;
ताहं कुसलं करित्वान कम्मं,
तिदसानं सहब्यतं गतो’’ति. (वि. व. १२२०-१२२१; पे. व. १९९-२००);
तस्मिं कथेन्तेयेव ब्राह्मणस्स सकलसरीरं पीतिया परिपूरि. सो तं पीतिं पवेदेन्तो –
‘‘अच्छरियं वत अब्भुतं वत,
अञ्जलिकम्मस्स अयमीदिसो विपाको;
अहम्पि पमुदितमनो पसन्नचित्तो,
अज्जेव बुद्धं सरणं वजामी’’ति. (वि. व. १२२२; पे. व. २०१) –
आह. अथ नं माणवो –
‘‘अज्जेव बुद्धं सरणं वजाहि,
धम्मञ्च सङ्घञ्च पसन्नचित्तो;
तथेव सिक्खापदानि पञ्च,