८. धम्मदेवपुत्तचरियावण्णना
६६. अट्ठमे महापक्खोति महापरिवारो. महिद्धिकोति महतिया देविद्धिया समन्नागतो. धम्मो नाम महायक्खोति नामेन धम्मो नाम महानुभावो देवपुत्तो. सब्बलोकानुकम्पकोति विभागं अकत्वा महाकरुणाय सब्बलोकं अनुग्गण्हनको.
महासत्तो हि तदा कामावचरदेवलोके धम्मो नाम देवपुत्तो हुत्वा निब्बत्ति. सो दिब्बालङ्कारपटिमण्डितो दिब्बरथमभिरुय्ह अच्छरागणपरिवुतो मनुस्सेसु सायमासं भुञ्जित्वा अत्तनो अत्तनो घरद्वारेसु सुखकथाय निसिन्नेसु पुण्णमुपोसथदिवसे गामनिगमराजधानीसु आकासे ठत्वा ‘‘पाणातिपातादीहि दसहि अकुसलकम्मपथेहि विरमित्वा तिविधसुचरितधम्मं पूरेथ, मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो भवथ, सग्गपरायना हुत्वा महन्तं यसं अनुभविस्सथा’’ति मनुस्से दसकुसलकम्मपथे समादपेन्तो जम्बुदीपं पदक्खिणं करोति. तेन वुत्तं –
६७. ‘‘दसकुसलकम्मपथे, समादपेन्तो महाजनं;
चरामि गामनिगमं, समित्तो सपरिज्जनो’’ति.
तत्थ समित्तोति धम्मिकेहि धम्मवादीहि सहायेहि ससहायो.
तेन च समयेन अधम्मो नामेको देवपुत्तो कामावचरदेवलोके निब्बत्ति. ‘‘सो पाणं हनथ, अदिन्नं आदियथा’’तिआदिना नयेन सत्ते अकुसलकम्मपथे समादपेन्तो महतिया परिसाय परिवुतो जम्बुदीपं वामं करोति. तेन वुत्तं –
६८. ‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके;
सोपेत्थ महिया चरति, समित्तो सपरिज्जनो’’ति.
तत्थ पापोति पापधम्मेहि समन्नागतो. कदरियोति थद्धमच्छरी. यक्खोति देवपुत्तो. दीपेन्तो दस पापकेति सब्बलोके गोचरं नाम सत्तानं उपभोगपरिभोगाय जातं. तस्मा सत्ते वधित्वा यंकिञ्चि कत्वा च अत्ता पीणेतब्बो, इन्द्रियानि सन्तप्पेतब्बानीतिआदिना नयेन पाणातिपातादिके दस लामकधम्मे कत्तब्बे कत्वा पकासेन्तो. सोपेत्थाति सोपि अधम्मो देवपुत्तो इमस्मिं जम्बुदीपे. महियाति भूमिया आसन्ने, मनुस्सानं दस्सनसवनूपचारेति अत्थो.
६९. तत्थ ये सत्ता साधुकम्मिका धम्मगरुनो, ते धम्मं देवपुत्तं तथा आगच्छन्तमेव दिस्वा आसना वुट्ठाय गन्धमालादीहि पूजेन्ता याव चक्खुपथसमतिक्कमना ताव अभित्थवन्ति, पञ्जलिका नमस्समाना तिट्ठन्ति, तस्स वचनं सुत्वा अप्पमत्ता सक्कच्चं पुञ्ञानि करोन्ति. ये पन सत्ता पापसमाचारा कुरूरकम्मन्ता, ते अधम्मस्स वचनं सुत्वा अब्भनुमोदन्ति, भिय्योसोमत्ताय पापानि समाचरन्ति. एवं ते तदा अञ्ञमञ्ञस्स उजुविपच्चनीकवादा चेव उजुविपच्चनीककिरिया च हुत्वा लोके विचरन्ति. तेनाह भगवा ‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मय’’न्ति.
एवं पन गच्छन्ते काले अथेकदिवसं तेसं रथा आकासे सम्मुखा अहेसुं. अथ नेसं परिसा ‘‘तुम्हे कस्स, तुम्हे कस्सा’’ति पुच्छित्वा ‘‘मयं धम्मस्स, मयं अधम्मस्सा’’ति वत्वा मग्गा ओक्कमित्वा द्विधा जाता. धम्मस्स पन अधम्मस्स च रथा अभिमुखा हुत्वा ईसाय ईसं आहच्च अट्ठंसु. ‘‘तव रथं ओक्कमापेत्वा मय्हं मग्गं देहि, तव रथं ओक्कमापेत्वा मय्हं मग्गं देही’’ति अञ्ञमञ्ञं मग्गदापनत्थं विवादं अकंसु. परिसा च नेसं आवुधानि अभिहरित्वा युद्धसज्जा अहेसुं. यं सन्धाय वुत्तं –
‘‘धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो’’.
७०. ‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च;
मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो’’ति.
तत्थ धुरे धुरन्ति एकस्स रथीसाय इतरस्स रथीसं घट्टयन्ता. समिम्हाति समागता सम्मुखीभूता. पुन उभोति वचनं उभोपि मयं अञ्ञमञ्ञस्स पच्चनीका हुत्वा लोके विचरन्ता एकदिवसं पटिमुखं आगच्छन्ता द्वीसु परिसासु उभोसु पस्सेसु मग्गतो ओक्कन्तासु सह रथेन मयं उभो एव समागताति दस्सनत्थं वुत्तं. भेस्माति भयजनको. कल्याणपापकस्स चाति कल्याणस्स च पापकस्स च. महायुद्धो उपट्ठितोति महासङ्गामो पच्चुपट्ठितो आसि.
अञ्ञमञ्ञस्स हि परिसाय च युज्झितुकामता जाता. तत्थ हि धम्मो अधम्मं आह – ‘‘सम्म, त्वं अधम्मो, अहं धम्मो, मग्गो मय्हं अनुच्छविको, तव रथं ओक्कमापेत्वा मय्हं मग्गं देही’’ति. इतरो ‘‘अहं दळ्हयानो बलवा असन्तासी, तस्मा मग्गं न देमि, युद्धं पन करिस्सामि, यो युद्धे जिनिस्सति, तस्स मग्गो होतू’’ति आह. तेनेवाह –
‘‘यसोकरो पुञ्ञकरोहमस्मि, सदात्थुतो समणब्राह्मणानं;
मग्गारहो देवमनुस्सपूजितो, धम्मो अहं देहि अधम्म मग्गं.
‘‘अधम्मयानं दळ्हमारुहित्वा, असन्तसन्तो बलवाहमस्मि;
स किस्स हेतुम्हि तवज्ज दज्जं, मग्गं अहं धम्म अदिन्नपुब्बं.
‘‘धम्मो हवे पातुरहोसि पुब्बे, पच्छा अधम्मो उदपादि लोके;
जेट्ठो च सेट्ठो च सनन्तनो च, उय्याहि जेट्ठस्स कनिट्ठ मग्गा.
‘‘न याचनाय नपि पातिरूपा, न अरहता तेहं ददेय्य मग्गं;
युद्धञ्च नो होतु उभिन्नमज्ज, युद्धम्हि यो जेस्सति तस्स मग्गो.
‘‘सब्बा दिसा अनुविसटोहमस्मि, महब्बलो अमितयसो अतुल्यो;
गुणेहि सब्बेहि उपेतरूपो, धम्मो अधम्म त्वं कथं विजेस्ससि.
‘‘लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोहं;
सचे अधम्मो हञ्छति धम्ममज्ज, अयो सुवण्णं विय दस्सनेय्यं.
‘‘सचे तुवं युद्धबलो अधम्म, न तुय्हं वुड्ढा च गरू च अत्थि;
मग्गञ्च ते दम्मि पियाप्पियेन, वाचा दुरुत्तानिपि ते खमामी’’ति. (जा. १.११.२६-३२);
इमा हि तेसं वचनपटिवचनकथा.
तत्थ यसोकरोति धम्मे नियोजनवसेन देवमनुस्सानं यसदायको. दुतियपदेपि एसेव नयो. सदात्थुतोति सदा थुतो निच्चप्पसत्थो. स किस्स हेतुम्हि तवज्ज दज्जन्ति सोम्हि अहं अधम्मो अधम्मयानरथं अभिरुळ्हो अभीतो बलवा, किंकारणा अज्ज, भो धम्म, कस्सचि अदिन्नपुब्बं मग्गं तुय्हं दम्मि. पातुरहोसीति पठमकप्पिककाले इमस्मिं लोके दसकुसलकम्मपथधम्मो पुब्बे पातुरहोसि, पच्छा अधम्मो. जेट्ठो चाति पुरे निब्बत्तभावेन अहं जेट्ठो च सेट्ठो च पोराणको च, त्वं पन कनिट्ठो, तस्मा ‘‘मग्गा उय्याही’’ति वदति.
नपि पातिरूपाति अहञ्हि भोतो नेव याचनाय न पटिरूपवचनेन न मग्गारहताय मग्गं ददेय्यं. अनुविसटोति अहं चतस्सो दिसा चतस्सो अनुदिसाति सब्बा दिसा अत्तनो गुणेन पत्थटो पञ्ञातो. लोहेनाति अयोमुट्ठिकेन. हञ्छतीति हनिस्सति. युद्धबलो अधम्माति सचे तुवं युद्धबलो असि अधम्म. वुड्ढा च गरू चाति यदि तुय्हं इमे वुड्ढा इमे गरू पण्डिताति एतं नत्थि. पियाप्पियेनाति पियेन विय अप्पियेन, अप्पियेनपि ददन्तो (जा. अट्ठ. ४.११.३२) पियेन विय ते मग्गं ददामीति अत्थो.
७१. महासत्तो हि तदा चिन्तेसि – ‘‘सचाहं इमं पापपुग्गलं सब्बलोकस्स अहिताय पटिपन्नं एवं मया विलोमग्गाहं गहेत्वा ठितं अच्छरं पहरित्वा ‘अनाचार मा इध तिट्ठ, सीघं पटिक्कम विनस्सा’ति वदेय्यं, सो तङ्खणञ्ञेव मम धम्मतेजेन भुसमुट्ठि विय विकिरेय्य, न खो पन मेतं पतिरूपं, स्वाहं सब्बलोकं अनुकम्पन्तो ‘लोकत्थचरियं मत्थकं पापेस्सामी’ति पटिपज्जामि, अयं खो पन पापो आयतिं महादुक्खभागी, स्वायं मया विसेसतो अनुकम्पितब्बो, तस्मास्स मग्गं दस्सामि, एवं मे सीलं सुविसुद्धं अखण्डितं भविस्सती’’ति. एवं पन चिन्तेत्वा बोधिसत्ते ‘‘सचे तुवं युद्धबलो’’ति गाथं वत्वा थोकं मग्गतो ओक्कन्तमत्ते एव अधम्मो रथे ठातुं असक्कोन्तो अवंसिरो पथवियं पतित्वा पथविया विवरे दिन्ने गन्त्वा अवीचिम्हि एव निब्बत्ति. तेन वुत्तं ‘‘यदिहं तस्स कुप्पेय्य’’न्तिआदि.
तत्थ यदिहं तस्स कुप्पेय्यन्ति तस्स अधम्मस्स यदि अहं कुज्झेय्यं. यदि भिन्दे तपोगुणन्ति तेनेवस्स कुज्झनेन मय्हं तपोगुणं सीलसंवरं यदि विनासेय्यं. सहपरिजनं तस्साति सपरिजनं तं अधम्मं. रजभूतन्ति रजमिव भूतं, रजभावं पत्तं अहं करेय्यं.
७२. अपिचाहन्ति एत्थ अहन्ति निपातमत्तं. सीलरक्खायाति सीलरक्खणत्थं. निब्बापेत्वानाति पटिकच्चेव खन्तिमेत्तानुद्दयस्स उपट्ठापितत्ता तस्मिं अधम्मे उप्पज्जनककोधस्स अनुप्पादनेनेव दोसपरिळाहवूपसमनेन मानसं वूपसमेत्वा. सह जनेनोक्कमित्वाति मय्हं परिजनेन सद्धिं मग्गा ओक्कमित्वा तस्स पापस्स अधम्मस्स अहं मग्गं अदासिं.
७३. सह पथतो ओक्कन्तेति वुत्तनयेन चित्तस्स वूपसमं कत्वा ‘‘मग्गं ते दम्मी’’ति च वत्वा थोकं मग्गतो सह ओक्कमनेन. पापयक्खस्साति अधम्मदेवपुत्तस्स. तावदेति तङ्खणं एव महापथवी विवरमदासि. जातकट्ठकथायं पन ‘‘मग्गञ्च ते दम्मी’’ति गाथाय कथितक्खणेयेवाति वुत्तं.
एवं तस्मिं भूमियं पतिते चतुनहुताधिकद्वियोजनसतसहस्सबहला सकलं वरावरं धारेन्तीपि महापथवी ‘‘नाहमिमं पापपुरिसं धारेमी’’ति कथेन्ती विय तेन ठितट्ठाने द्विधा भिज्जि. महासत्तो पन तस्मिं निपतित्वा अवीचिम्हि निब्बत्ते रथधुरे यथाठितोव सपरिजनो महता देवानुभावेन गमनमग्गेनेव गन्त्वा अत्तनो भवनं पाविसि. तेनाह भगवा –
‘‘खन्तीबलो युद्धबलं विजेत्वा, हन्त्वा अधम्मं निहनित्व भूम्या;
पायासि वित्तो अभिरुय्ह सन्दनं, मग्गेनेव अतिबलो सच्चनिक्कमो’’ति. (जा. १.११.३४);
तदा अधम्मो देवदत्तो अहोसि, तस्स परिसा देवदत्तपरिसा, धम्मो लोकनाथो, तस्स परिसा बुद्धपरिसा.
इधापि हेट्ठा वुत्तनयेनेव सेसपारमियो यथारहं निद्धारेतब्बा. तथा इधापि दिब्बेहि आयुवण्णयससुखआधिपतेय्येहि दिब्बेहेव उळारेहि कामगुणेहि समप्पितस्स समङ्गीभूतस्स अनेकसहस्ससङ्खाहि अच्छराहि सब्बकालं परिचारियमानस्स महति पमादट्ठाने ठितस्स सतो ईसकम्पि पमादं अनापज्जित्वा ‘‘लोकत्थचरियं मत्थकं पापेस्सामी’’ति मासे मासे पुण्णमियं धम्मं दीपेन्तो सपरिजनो मनुस्सपथे विचरित्वा महाकरुणाय सब्बसत्ते अधम्मतो विवेचेत्वा धम्मे नियोजनं, अधम्मेन समागतोपि तेन कतं अनाचारं अगणेत्वा तत्थ चित्तं अकोपेत्वा खन्तिमेत्तानुद्दयमेव पच्चुपट्ठपेत्वा अखण्डं सुविसुद्धञ्च कत्वा अत्तनो सीलस्स रक्खणन्ति एवमादयो महासत्तस्स गुणानुभावा विभावेतब्बाति.
धम्मदेवपुत्तचरियावण्णना निट्ठिता.