९. अलीनसत्तुचरियावण्णना

७४. नवमे पञ्चालरट्ठेति एवंनामके जनपदे. नगरवरे, कपिलायन्ति ‘‘कपिला’’ति एवंलद्धनामे उत्तमनगरे. ‘‘नगरवरे’’ति वत्वा पुन ‘‘पुरुत्तमे’’ति वचनं तस्मिं काले जम्बुदीपे सब्बनगरानं तस्स नगरस्स अग्गनगरभावदस्सनत्थं. जयद्दिसो नामाति रञ्ञा अत्तनो पच्चत्थिके जिते जातो, अत्तनो वा पच्चामित्तभूतं यक्खिनीसङ्खातं जयद्दिसं जितोति एवंलद्धनामो. सीलगुणमुपागतोति आचारसीलञ्चेव उस्साहसम्पत्तियादिराजगुणञ्च उपागतो, तेन समन्नागतोति अत्थो.

७५. तस्स रञ्ञोति जयद्दिसराजस्स, अहं पुत्तो अहोसिन्ति वचनसेसो. सुतधम्मोति यावता राजपुत्तेन सोतब्बधम्मो नाम, तस्स सब्बस्स सुतत्ता सुतधम्मो, बहुस्सुतोति अत्थो. अथ वा सुतधम्मोति विस्सुतधम्मो, धम्मचरियाय समचरियाय पकासो पञ्ञातो, लोके पत्थटकित्तिधम्मोति अत्थो. अलीनसत्तोति एवंनामो. गुणवाति उळारेहि महापुरिसगुणेहि समन्नागतो. अनुरक्खपरिजनो सदाति सद्धादिगुणविसेसयोगतो चतूहि सङ्गहवत्थूहि सम्मदेव सङ्गहणतो च सब्बकालं सम्भत्तपरिवारजनो.

७६. पिता मे मिगवं गन्त्वा, पोरिसादं उपागमीति मय्हं पिता जयद्दिसराजा मिगवं चरन्तो अरञ्ञमज्झं गन्त्वा पोरिसादं मनुस्सखादकं यक्खिनिपुत्तं उपगञ्छि, तेन समागमि.

जयद्दिसराजा किर एकदिवसं ‘‘मिगवं गमिस्सामी’’ति तदनुरूपेन महता परिवारेन कपिलनगरतो निक्खमि. तं निक्खन्तमत्तमेव तक्कसिलावासी नन्दो नाम ब्राह्मणो चतस्सो सतारहा गाथा नाम कथेतुं आदाय उपसङ्कमित्वा अत्तनो आगमनकारणं रञ्ञो आरोचेसि. राजा ‘‘निवत्तित्वा सुणिस्सामी’’ति तस्स वसनगेहं परिब्बयञ्च दापेत्वा अरञ्ञं पविट्ठो ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो गीवा’’ति वत्वा मिगे परियेसन्तो विचरति. अथेको पसदमिगो महाजनस्स पदसद्देन आसयतो निक्खमित्वा रञ्ञो अभिमुखो गन्त्वा पलायि. अमच्चा परिहासं करिंसु. राजा तं अनुबन्धित्वा तियोजनमत्थके तं परिक्खीणजवं ठितं विज्झित्वा पातेसि. पतितं खग्गेन द्विधा कत्वा अनत्थिकोपि ‘‘मंसेन मिगं गहेतुं नासक्खी’’ति वचनमोचनत्थं काजे कत्वा आगच्छन्तो एकस्स निग्रोधस्स मूले दब्बतिणेसु निसीदित्वा थोकं विस्समित्वा गन्तुं आरभि.

तेन च समयेन तस्सेव रञ्ञो जेट्ठभाता जातदिवसे एव एकाय यक्खिनिया खादितुं गहितो आरक्खमनुस्सेहि अनुबद्धाय ताय निद्धमनमग्गेन गच्छन्तिया उरे ठपितो मातुसञ्ञाय मुखेन थनग्गहणेन पुत्तसिनेहं उप्पादेत्वा संवड्ढियमानो तदाहारोपयोगिताय मनुस्समंसं खादन्तो अनुक्कमेन वुद्धिप्पत्तो अत्तानं अन्तरधापनत्थं यक्खिनिया दिन्नओसधमूलानुभावेन अन्तरहितो हुत्वा मनुस्समंसं खादित्वा जीवन्तो ताय यक्खिनिया मताय तं ओसधमूलं अत्तनो पमादेन नासेत्वा दिस्समानरूपोव मनुस्समंसं खादन्तो नग्गो उब्बिग्गविरूपदस्सनो राजपुरिसेहि पस्सित्वा अनुबद्धो पलायित्वा अरञ्ञं पविसित्वा तस्स निग्रोधस्स मूले वासं कप्पेन्तो राजानं दिस्वा ‘‘भक्खोसि मे’’ति हत्थे अग्गहेसि. तेन वुत्तं ‘‘सो मे पितुमग्गहेसि, भक्खोसि मम मा चली’’तिआदि.

तत्थ सो मे पितुमग्गहेसीति सो पोरिसादो मम पितरं जयद्दिसराजानं अत्तनो निसिन्नरुक्खसमीपमागतं ‘‘मम भक्खो त्वं आगतोसि, हत्थपरिप्फन्दनादिवसेन मा चलि, चलन्तम्पि अहं तं खादिस्सामी’’ति हत्थे अग्गहेसि.

७७. तस्साति तस्स यक्खिनिपुत्तस्स. तसितवेधितोति चित्तुत्रासेन तसितो सरीरपरिकम्पेन वेधितो. ऊरुक्खम्भोति उभिन्नं ऊरूनं थद्धभावो, येन सो ततो पलायितुं नासक्खि.

मिगवं गहेत्वा मुञ्चस्सूति एत्थ मिगवन्ति मिगववसेन लद्धत्ता तं मिगमंसं ‘‘मिगव’’न्ति आह, इमं मिगमंसं गहेत्वा मं मुञ्चस्सूति अत्थो. सो हि राजा नं यक्खिनिपुत्तं दिस्वा भीतो ऊरुक्खम्भं पत्वा खाणुको विय अट्ठासि. सो वेगेन गन्त्वा तं हत्थे गहेत्वा ‘‘भक्खोसि मे आगतोसी’’ति आह. अथ नं राजा सतिं पच्चुपट्ठपेत्वा ‘‘सचे आहारत्थिको, इमं ते मंसं ददामि, तं गहेत्वा खाद, मं मुञ्चाही’’ति आह. तं सुत्वा पोरिसादो ‘‘किमिदं मय्हमेव सन्तकं दत्वा मया वोहारं करोसि, ननु इमं मंसञ्च त्वञ्च मम हत्थगतकालतो पट्ठाय मय्हमेव सन्तकं, तस्मा तं पठमं खादित्वा पच्छा मंसं खादिस्सामी’’ति आह.

अथ राजा ‘‘मंसनिक्कयेनायं न मं मुञ्चति, मया च मिगवं आगच्छन्तेन तस्स ब्राह्मणस्स ‘आगन्त्वा ते धनं दस्सामी’ति पटिञ्ञा कता. सचायं यक्खो अनुजानिस्सति, सच्चं अनुरक्खन्तो गेहं गन्त्वा तं पटिञ्ञं मोचेत्वा पुन इमस्स यक्खस्स भत्तत्थं आगच्छेय्य’’न्ति चिन्तेत्वा तस्स तमत्थं आरोचेसि. तं सुत्वा पोरिसादो ‘‘सचे त्वं सच्चं अनुरक्खन्तो गन्तुकामोसि, गन्त्वा तस्स ब्राह्मणस्स दातब्बं धनं दत्वा सच्चं अनुरक्खन्तो सीघं पुन आगच्छेय्यासी’’ति वत्वा राजानं विस्सज्जेसि. सो तेन विस्सट्ठो ‘‘त्वं मा चिन्तयि, अहं पातोव आगमिस्सामी’’ति वत्वा मग्गनिमित्तानि सल्लक्खेन्तो अत्तनो बलकायं उपगन्त्वा तेन परिवुतो नगरं पविसित्वा नन्दब्राह्मणं पक्कोसापेत्वा महारहे आसने निसीदापेत्वा ता गाथा सुत्वा चत्तारि सहस्सानि दत्वा यानं आरोपेत्वा ‘‘इमं तक्कसिलमेव नेथा’’ति मनुस्से दत्वा ब्राह्मणं उय्योजेत्वा दुतियदिवसे पोरिसादस्स सन्तिकं गन्तुकामो पुत्तं रज्जे पतिट्ठपेतुं अनुसासनिञ्च देन्तो तमत्थं आरोचेसि. तेन वुत्तं –

७८. ‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन;

ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं.

७९. ‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदं;

कतं मे पोरिसादेन, मम आगमनं पुना’’ति.

तत्थ आगमनं पुनाति पुन आगमनं पटिञ्ञातस्स पोरिसादस्स सङ्गरं कत्वा. ब्राह्मणस्स धनं दत्वाति तक्कसिलतो आगतस्स नन्दनामस्स ब्राह्मणस्स ता गाथा सुत्वा चतुसहस्सपरिमाणं धनं दत्वा. पिता आमन्तयी ममन्ति मम पिता जयद्दिसराजा मं आमन्तेसि.

कथं आमन्तेसीति चे? आह ‘‘रज्ज’’न्तिआदि. तस्सत्थो – पुत्त, त्वं इमं कुलसन्तकं रज्जं पटिपज्ज, यथाहं धम्मेन समेन रज्जं कारेमि, एवं त्वम्पि छत्तं उस्सापेत्वा रज्जं कारेहि. त्वं इदं पुरं रक्खन्तो रज्जञ्च कारेन्तो मा पमादमापज्जि, असुकस्मिं ठाने निग्रोधरुक्खमूले पोरिसादेन यक्खेन कतमेतं मया सङ्गरं मम पुन तस्स सन्तिकं आगमनं उद्दिस्स, केवलं तस्स ब्राह्मणस्स धनदानत्थं इधागतो सच्चं अनुरक्खन्तो, तस्मा तत्थाहं गमिस्सामीति.

तं सुत्वा महासत्तो ‘‘मा खो त्वं, महाराज, तत्थ अगमासि, अहं तत्थ गमिस्सामि. सचे पन त्वं, तात, गमिस्ससियेव, अहम्पि तया सद्धिं गमिस्सामियेवा’’ति. ‘‘एवं सन्ते मयं उभोपि न भविस्साम, तस्मा अहमेव तत्थ गमिस्सामी’’ति नानप्पकारेन वारेन्तं राजानं सञ्ञापेत्वा मातापितरो वन्दित्वा पितु अत्थाय अत्तानं परिच्चजित्वा सोत्थिभावाय पितरि सासितवादं पयुञ्जमाने मातुभगिनिभरियासु च सच्चकिरियं करोन्तीसु आवुधं गहेत्वा नगरतो निक्खमित्वा अस्सुपुण्णमुखं महाजनं अनुबन्धन्तं आपुच्छित्वा पितरा अक्खातनयेन यक्खवासमग्गं पटिपज्जि. यक्खिनिपुत्तोपि ‘‘खत्तिया नाम बहुमाया, को जानाति किं भविस्सती’’ति रुक्खं अभिरुहित्वा रञ्ञो आगमनं ओलोकेन्तो निसिन्नो कुमारं आगच्छन्तं दिस्वा ‘‘पितरं निवत्तेत्वा पुत्तो आगतो भविस्सति, नत्थि मे भय’’न्ति ओतरित्वा तस्स पिट्ठिं दस्सेत्वाव निसीदि. महासत्तो आगन्त्वा तस्स पुरतो अट्ठासि. तेन वुत्तं –

८०. ‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना;

निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमि’’न्ति.

८१. ससत्थहत्थूपगतन्ति ससत्थहत्थं उपगतं आवुधपाणिं मं अत्तनो सन्तिकं उपगतं दिस्वा. कदाचि सो तसिस्सतीति सो यक्खो अपि तसेय्य. तेन भिज्जिस्सति सीलन्ति तेन तस्स तासुप्पादनेन मय्हं सीलं विनस्सति संकिलिस्सति. परितासं कते मयीति मयि तस्स परितासं कते सति.

८२. सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिन्ति यथा च सीलभेदभयेन निहितसत्थो तस्स सन्तिकं अगमासि, एवं मय्हं सीलखण्डभया एव तस्स पोरिसादस्स देस्सं अनिट्ठम्पि न ब्याहरिं, केवलं पन मेत्तचित्तेन हितवादी इदं इदानि वक्खमानं वचनं अभासिं.

महासत्तो च गन्त्वा पुरतो ठितो. यक्खिनिपुत्तो तं वीमंसितुकामो ‘‘कोसि त्वं, कुतो आगतो, किं मं न जानासि ‘लुद्दो मनुस्समंसखादको’ति, कस्मा च इधागतोसी’’ति पुच्छि. कुमारो ‘‘अहं जयद्दिसरञ्ञो पुत्तो, त्वं पोरिसादकोति जानामि, पितु जीवितं रक्खितुं इधागतो, तस्मा तं मुञ्च, मं खादा’’ति आह. पुन यक्खिनिपुत्तो मुखाकारेनेव ‘‘तं तस्स पुत्तोति अहं जानामि, दुक्करं पन तया कतं एवं आगच्छन्तेना’’ति आह. कुमारो ‘‘न इदं दुक्करं, यं पितु अत्थे जीवितपरिच्चजनं, मातापितुहेतु हि एवरूपं पुञ्ञं कत्वा एकन्तेनेव सग्गे पमोदति, अहञ्च ‘अमरणधम्मो नाम कोचि सत्तो नत्थी’ति जानामि, अत्तना च किञ्चि कतं पापं नाम न सरामि, तस्मा मरणतोपि मे भयं नत्थि, इदं सरीरं मया ते निस्सट्ठं, अग्गिं जालेत्वा खादा’’ति आह. तेन वुत्तं –

८३. ‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो;

त्वं पक्ककालमञ्ञाय, भक्खय मं पितामहा’’ति.

तं सुत्वा यक्खिनिपुत्तो ‘‘न सक्का इमस्स मंसं खादितुं, उपायेन इमं पलापेस्सामी’’ति चिन्तेत्वा ‘‘तेन हि अरञ्ञं पविसित्वा सारदारूनि आहरित्वा निद्धूमे अङ्गारे करोहि, तत्थ ते मंसं पचित्वा खादिस्सामी’’ति आह. महासत्तो तथा कत्वा तस्स आरोचेसि. सो तं ओलोकेन्तो ‘‘अयं पुरिससीहो मरणतोपि भयं नत्थि, एवं निब्भयो नाम न मया दिट्ठपुब्बो’’ति लोमहंसजातो कुमारं ओलोकेसि. कुमारो किस्स मं ओलोकेसि, न यथावुत्तं करोसीति. यक्खिनिपुत्तो महासत्तं ‘‘सत्तधा तस्स मुद्धा फलेय्य, यो तं खादेय्या’’ति आह. ‘‘सचे मं न खादितुकामोसि, अथ कस्मा अग्गिं कारेसी’’ति? ‘‘तव परिग्गण्हनत्थ’’न्ति. ‘‘त्वं इदानि मं कथं परिग्गण्हिस्ससि, स्वाहं तिरच्छानयोनियं निब्बत्तोपि सक्कस्स देवरञ्ञो अत्तानं परिग्गण्हितुं न अदासि’’न्ति इममत्थं दस्सेन्तो –

‘‘इदञ्हि सो ब्राह्मणं मञ्ञमानो, ससो अवासेसि सके सरीरे;

तेनेव सो चन्दिमा देवपुत्तो, ससत्थुतो कामदुहज्ज यक्खा’’ति.(जा. १.१६.९३) –

गाथमाह.

तत्थ ससो अवासेसि सके सरीरेति अत्तनो सरीरहेतु इमं सरीरं खादित्वा इध वसाति एवं सके सरीरे अत्तनो सरीरं देन्तो तं ब्राह्मणरूपं सक्कं तत्थ वासेसि. ससत्थुतोति ‘‘ससी’’ति एवं सससद्देन थुतो. कामदुहोति कामवड्ढनो. यक्खाति देव.

एवं महासत्तो चन्दे ससलक्खणं कप्पट्ठियं पाटिहारियं सक्खिं कत्वा अत्तनो सक्केनपि परिग्गण्हितुं असक्कुणेय्यतं अभासि. तं सुत्वा पोरिसादो अच्छरियब्भुतचित्तजातो –

‘‘चन्दो यथा राहुमुखा पमुत्तो, विरोचते पन्नरसेव भाणुमा;

एवं तुवं पोरिसादा पमुत्तो, विरोच कपिले महानुभाव;

आमोदयं पितरं मातरञ्च, सब्बो च ते नन्दतु ञातिपक्खो’’ति. (जा. १.१६.९४) –

गाथं वत्वा ‘‘गच्छ महावीरा’’ति कुमारं विस्सज्जेसि. सोपि तं निब्बिसेवनं कत्वा पञ्च सीलानि दत्वा ‘‘यक्खो नु खो एस, नो’’ति वीमंसन्तो ‘‘यक्खानं अक्खीनि रत्तानि होन्ति अनिमिसानि च, छाया च न पञ्ञायति, असम्भीतो होति, न इमस्स तथा. तस्मा नायं यक्खो मनुस्सो एसो, मय्हं किर पितु तयो भातरो यक्खिनिया गहिता, तेसु ताय द्वे खादिता भविस्सन्ति, एको पुत्तसिनेहेन पटिजग्गितो भविस्सति. इमिना तेन भवितब्ब’’न्ति नयग्गाहेन अनुमानेन सब्बञ्ञुतञ्ञाणेन विय अविपरीततो निट्ठं गन्त्वा ‘‘मय्हं पितु आचिक्खित्वा रज्जे पतिट्ठापेस्सामी’’ति चिन्तेत्वा ‘‘न त्वं यक्खो, पितु मे जेट्ठभातिकोसि, एहि मया सद्धिं गन्त्वा कुलसन्तकं रज्जं पटिपज्जाही’’ति आह. तेन वुत्तं ‘‘त्वं पितामहा’’ति, त्वं मम महापिताति अत्थो. इतरेन ‘‘नाहं मनुस्सो’’ति वुत्ते तेन सद्धातब्बस्स दिब्बचक्खुकतापसस्स सन्तिकं नेसि. तापसेन ‘‘किं करोन्ता पिता पुत्ता अरञ्ञे विचरथा’’ति पितुभावे कथिते पोरिसादो सद्दहित्वा ‘‘गच्छ, तात, त्वं, न मे रज्जेन अत्थो, पब्बजिस्सामह’’न्ति तापसस्स सन्तिके इसिपब्बज्जं पब्बजि. तेन वुत्तं –

८४. ‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितं;

पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति.

तत्थ सीलवतं हेतूति सीलवन्तानं मम पितूनं हेतु. अथ वा सीलवतं हेतूति सीलवतहेतु, मय्हं सीलवतसमादाननिमित्तं तस्स अभिज्जनत्थं. तस्साति तं पोरिसादं.

अथ महासत्तो अत्तनो महापितरं पब्बजितं वन्दित्वा नगरस्स समीपं गन्त्वा ‘‘कुमारो किर आगतो’’ति सुत्वा हट्ठतुट्ठेन रञ्ञा नागरेहि नेगमजानपदेहि च पच्चुग्गतो राजानं वन्दित्वा सब्बं पवत्तिं आरोचेसि. तं सुत्वा राजा तङ्खणञ्ञेव भेरिं चरापेत्वा महन्तेन परिवारेन तस्स सन्तिकं गन्त्वा ‘‘एहि, भातिक, रज्जं पटिपज्जाही’’ति आह. ‘‘अलं, महाराजा’’ति. ‘‘तेन हि मय्हं उय्याने वसा’’ति. ‘‘न आगच्छामी’’ति. राजा तस्स अस्समस्स अविदूरे गामं निवेसेत्वा भिक्खं पट्ठपेसि. सो चूळकम्मासदम्मनिगमो नाम जातो.

तदा मातापितरो महाराजकुलानि अहेसुं, तापसो सारिपुत्तो, पोरिसादो अङ्गुलिमालो, कनिट्ठा उप्पलवण्णा, अग्गमहेसी राहुलमाता, अलीनसत्तुकुमारो लोकनाथो.

तस्स इधापि हेट्ठा वुत्तनयेनेव यथारहं सेसपारमियो निद्धारेतब्बा. तथा पितरा निवारियमानो अत्तनो जीवितं परिच्चजित्वा पितु जीवितरक्खणत्थं ‘‘पोरिसादस्स सन्तिकं गमिस्सामी’’ति निच्छयो, तस्स च सन्तासपरिहरणत्थं निहितसत्थस्स गमनं, ‘‘अत्तनो सीलखण्डनं मा होतू’’ति तेन पियवाचाय समुदाचारो, तेन च नानानयेहि परिग्गण्हियमानस्स मरणसन्तासाभावो, पितु अत्थे मय्हं सरीरं सफलं करिस्सामीति हट्ठतुट्ठभावो, सक्केनापि परिग्गण्हितुं असक्कुणेय्यस्स ससजातियम्पि परिच्चागत्थं अत्तनो जीवितनिरपेक्खभावस्स जाननं, तेन समागमेपि ओस्सट्ठेपि चित्तस्स विकाराभावो, तस्स च मनुस्सभावमहापितुभावानं अविपरीततो जाननं, ञातमत्ते च तं कुलसन्तके रज्जे पतिट्ठापेतुकामता, धम्मदेसनाय संवेजेत्वा सीलेसु पतिट्ठापनन्ति. एवमादयो इध बोधिसत्तस्स गुणानुभावा विभावेतब्बाति.

अलीनसत्तुचरियावण्णना निट्ठिता.