९. वेस्सन्तरचरियावण्णना

६७. नवमे या मे अहोसि जनिकाति एत्थ मेति वेस्सन्तरभूतं अत्तानं सन्धाय सत्था वदति. तेनेवाह – ‘‘फुस्सती नाम खत्तिया’’ति. तदा हिस्स माता ‘‘फुस्सती’’ति एवंनामिका खत्तियानी अहोसि. सा अतीतासु जातीसूति सा ततो अनन्तरातीतजातियं. एकत्थे हि एतं बहुवचनं. सक्कस्स महेसी पिया अहोसीति सम्बन्धो. अथ वा या मे अहोसि जनिका इमस्मिं चरिमत्तभावे, सा अतीतासु जातीसु फुस्सती नाम, तत्थ अतीताय जातिया खत्तिया, यत्थाहं तस्सा कुच्छिम्हि वेस्सन्तरो हुत्वा निब्बत्तिं, ततो अनन्तरातीताय सक्कस्स महेसी पिया अहोसीति. तत्रायं अनुपुब्बिकथा –

इतो हि एकनवुते कप्पे विपस्सी नाम सत्था लोके उदपादि. तस्मिं बन्धुमतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते बन्धुमा राजा केनचि रञ्ञा पेसितं महग्घं चन्दनसारं अत्तनो जेट्ठधीताय अदासि. सा तेन सुखुमं चन्दनचुण्णं कारेत्वा समुग्गं पूरेत्वा विहारं गन्त्वा सत्थु सुवण्णवण्णं सरीरं पूजेत्वा सेसचुण्णानि गन्धकुटियं विकिरित्वा ‘‘भन्ते, अनागते तुम्हादिसस्स बुद्धस्स माता भवेय्य’’न्ति पत्थनं अकासि. सा ततो चुता तस्सा चन्दनचुण्णपूजाय फलेन रत्तचन्दनपरिप्फोसितेन विय सरीरेन देवेसु च मनुस्सेसु च संसरन्ती तावतिंसभवने सक्कस्स देवरञ्ञो अग्गमहेसी हुत्वा निब्बत्ति. अथस्सा आयुपरियोसाने पुब्बनिमित्तेसु उप्पन्नेसु सक्को देवराजा तस्सा परिक्खीणायुकतं ञत्वा तस्सा अनुकम्पाय ‘‘भद्दे, फुस्सति दस ते वरे दम्मि, ते गण्हस्सू’’ति आह. तेन वुत्तं –

६८. ‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि;

‘ददामि ते दस वरे, वर भद्दे यदिच्छसी’’’ति.

तत्थ वराति वरस्सु वरं गण्ह. भद्दे, यदिच्छसीति, भद्दे, फुस्सति यं इच्छसि यं तव पियं, तं दसहि कोट्ठासेहि ‘‘वरं वरस्सु पटिग्गण्हाही’’ति वदति.

६९. पुनिदमब्रवीति पुन इदं सा अत्तनो चवनधम्मतं अजानन्ती ‘‘किं नु मे अपराधत्थी’’तिआदिकं अभासि. सा हि पमत्ता हुत्वा अत्तनो आयुक्खयं अजानन्ती अयं ‘‘वरं गण्हा’’ति वदन्तो ‘‘कत्थचि मम उप्पज्जनं इच्छती’’ति ञत्वा एवमाह. तत्थ अपराधत्थीति अपराधो अत्थि. किं नु देस्सा अहं तवाति किं कारणं अहं तव देस्सा कुज्झितब्बा अप्पिया जाता. रम्मा चावेसि मं ठानाति रमणीया इमस्मा ठाना चावेसि. वातोव धरणीरुहन्ति येन बलवा मालुतो विय रुक्खं उम्मूलेन्तो इमम्हा देवलोका चावेतुकामोसि किं नु कारणन्ति तं पुच्छति.

७०. तस्सिदन्ति तस्सा इदं. न चेव ते कतं पापन्ति न चेव तया किञ्चि पापं कतं येन ते अपराधो सिया. न च मे त्वंसि अप्पियाति मम त्वं न चापि अप्पिया, येन देस्सा नाम मम अप्पियाति अधिप्पायो.

७१. इदानि येन अधिप्पायेन वरे दातुकामो, तं दस्सेन्तो ‘‘एत्तकंयेव ते आयु, चवनकालो भविस्सती’’ति वत्वा वरे गण्हापेन्तो ‘‘पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’’ति आह.

तत्थ वरुत्तमेति वरेसु उत्तमे अग्गवरे.

७२. दिन्नवराति ‘‘वरे दस्सामी’’ति पटिञ्ञादानवसेन दिन्नवरा. तुट्ठहट्ठाति इच्छितलाभपरितोसेन तुट्ठा चेव तस्स च सिखाप्पत्तिदस्सनेन हासवसेन हट्ठा च. पमोदिताति बलवपामोज्जेन पमुदिता. ममं अब्भन्तरं कत्वाति तेसु वरेसु मं अब्भन्तरं करित्वा. दस वरे वरीति सा अत्तनो खीणायुकभावं ञत्वा सक्केन वरदानत्थं कतोकासा सकलजम्बुदीपतलं ओलोकेन्ती अत्तनो अनुच्छविकं सिविरञ्ञो निवेसनं दिस्वा तत्थ तस्स अग्गमहेसिभावो नीलनेत्तता नीलभमुकता फुस्सतीतिनामं गुणविसेसयुत्तपुत्तपटिलाभो अनुन्नतकुच्छिभावो अलम्बत्थनता अपलितभावो सुखुमच्छविता वज्झजनानं मोचनसमत्थता चाति इमे दस वरे गण्हि.

इति सा दस वरे गहेत्वा ततो चुता मद्दरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ति. जायमाना च सा चन्दनचुण्णपरिप्फोसितेन विय सरीरेन जाता. तेनस्सा नामग्गहणदिवसे ‘‘फुस्सती’’ त्वेव नामं करिंसु. सा महन्तेन परिवारेन वड्ढित्वा सोळसवस्सकाले उत्तमरूपधरा अहोसि. अथ नं जेतुत्तरनगरे सिविमहाराजा पुत्तस्स सञ्जयकुमारस्सत्थाय आनेत्वा सेतच्छत्तं उस्सापेत्वा तं सोळसन्नं इत्थिसहस्सानं जेट्ठकं कत्वा अग्गमहेसिट्ठाने ठपेसि. तेन वुत्तं –

७३. ‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ;

जेतुत्तरम्हि नगरे, सञ्जयेन समागमी’’ति.

सा सञ्जयरञ्ञो पिया अहोसि मनापा. अथ सक्को आवज्जेन्तो ‘‘मया फुस्सतिया दिन्नवरेसु नव वरा समिद्धा’’ति दिस्वा ‘‘पुत्तवरो न समिद्धो, तम्पिस्सा समिज्झापेस्सामी’’ति चिन्तेत्वा बोधिसत्तं तदा तावतिंसदेवलोके खीणायुकं दिस्वा तस्स सन्तिकं गन्त्वा ‘‘मारिस, तया मनुस्सलोके सिविसञ्जयरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हितुं वट्टती’’ति तस्स चेव अञ्ञेसञ्च चवनधम्मानं सट्ठिसहस्सानं देवपुत्तानं पटिञ्ञं गहेत्वा सकट्ठानमेव गतो. महासत्तोपि ततो चवित्वा तत्थुप्पन्नो. सेसा देवपुत्तापि सट्ठिसहस्सानं अमच्चानं गेहेसु निब्बत्तिंसु. महासत्ते कुच्छिगते फुस्सतिदेवी चतूसु नगरद्वारेसु नगरमज्झे निवेसनद्वारेति छ दानसालायो कारेत्वा देवसिकं छसतसहस्सानि विस्सज्जेत्वा दानं दातुं दोहळिनी अहोसि. राजा तस्सा दोहळं सुत्वा नेमित्तके ब्राह्मणे पक्कोसापेत्वा पुच्छित्वा ‘‘महाराज, देविया कुच्छिम्हि दानाभिरतो उळारो सत्तो उप्पन्नो, दानेन तित्तिं न पापुणिस्सती’’ति सुत्वा तुट्ठमानसो वुत्तप्पकारं दानं पट्ठपेसि. समणब्राह्मणजिण्णातुरकपणद्धिकवनिब्बकयाचके सन्तप्पेसि. बोधिसत्तस्स पटिसन्धिग्गहणतो पट्ठाय रञ्ञो आयस्स पमाणं नाहोसि. तस्स पुञ्ञानुभावेन सकलजम्बुदीपे राजानो पण्णाकारं पहिणन्ति. तेन वुत्तं –

७४. ‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया;

मम तेजेन मे माता, तदा दानरता अहु.

७५. ‘‘अधने आतुरे जिण्णे, याचके अद्धिके जने;

समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने’’ति;

तत्थ मम तेजेनाति मम दानज्झासयानुभावेन. खीणेति भोगादीहि परिक्खीणे पारिजुञ्ञप्पत्ते. अकिञ्चनेति अपरिग्गहे. सब्बत्थ विसये भुम्मं. अधनादयो हि दानधम्मस्स पवत्तिया विसयो.

देवी महन्तेन परिहारेन गब्भं धारेन्ती दसमासे परिपुण्णे नगरं दट्ठुकामा हुत्वा रञ्ञो आरोचेसि. राजा देवनगरं विय नगरं अलङ्कारापेत्वा देविं रथवरं आरोपेत्वा नगरं पदक्खिणं कारेसि. तस्सा वेस्सवीथिया मज्झप्पत्तकाले कम्मजवाता चलिंसु. अमच्चा रञ्ञो आरोचेसुं. सो वेस्सवीथियंयेवस्सा सूतिघरं कारेत्वा आरक्खं गण्हापेसि. सा तत्थ पुत्तं विजायि. तेनाह –

७६. ‘‘दसमासे धारयित्वान, करोन्ते पुरं पदक्खिणं;

वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं.

७७. ‘‘न मय्हं मत्तिकं नामं, नापि पेत्तिकसम्भवं.

जातेत्थ वेस्सवीथियं, तस्मा वेस्सन्तरो अहू’’ति.

तत्थ करोन्ते पुरं पदक्खिणन्ति देविं गहेत्वा सञ्जयमहाराजे नगरं पदक्खिणं कुरुमाने. वेस्सानन्ति वाणिजानं.

न मत्तिकं नामन्ति न मातुआगतं मातामहादीनं नामं. पेत्तिकसम्भवन्ति पितु इदन्ति पेत्तिकं, सम्भवति एतस्माति सम्भवो, तं पेत्तिकं सम्भवो एतस्साति पेत्तिकसम्भवं, नामं. मातापितुसम्बन्धवसेन न कतन्ति दस्सेति. जातेत्थाति जातो एत्थ. ‘‘जातोम्ही’’तिपि पाठो. तस्मा वेस्सन्तरो अहूति यस्मा तदा वेस्सवीथियं जातो, तस्मा वेस्सन्तरो नाम अहोसि, वेस्सन्तरोति नामं अकंसूति अत्थो.

महासत्तो मातु कुच्छितो निक्खमन्तो विसदो हुत्वा अक्खीनि उम्मीलेत्वाव निक्खमि. निक्खन्तमत्ते एव मातु हत्थं पसारेत्वा ‘‘अम्म, दानं दस्सामि, अत्थि किञ्ची’’ति आह. अथस्स माता ‘‘तात, यथाज्झासयं दानं देही’’ति हत्थसमीपे सहस्सत्थविकं ठपेसि. बोधिसत्तो हि उम्मङ्गजातके (जा. २.२२.५९० आदयो) इमस्मिं जातके पच्छिमत्तभावेति तीसु ठानेसु जातमत्तोव कथेसि. राजा महासत्तस्स अतिदीघादिदोसविवज्जिता मधुरखीरा चतुसट्ठिधातियो उपट्ठापेसि. तेन सद्धिं जातानं सट्ठिया दारकसहस्सानम्पि धातियो दापेसि. सो सट्ठिदारकसहस्सेहि सद्धिं महन्तेन परिवारेन वड्ढति. तस्स राजा सतसहस्सग्घनकं कुमारपिळन्धनं कारापेत्वा अदासि. सो चतुपञ्चवस्सिककाले तं ओमुञ्चित्वा धातीनं दत्वा पुन ताहि दीयमानं न गण्हाति. तं सुत्वा राजा ‘‘मम पुत्तेन दिन्नं सुदिन्न’’न्ति वत्वा अपरम्पि कारेसि. तम्पि देति. दारककालेयेव धातीनं नववारे पिळन्धनं अदासि.

अट्ठवस्सिककाले पन सयनपीठे निसिन्नो चिन्तेसि – ‘‘अहं बाहिरकदानं देमि, न तं मं परितोसेति, अज्झत्तिकदानं दातुकामोम्हि. सचे हि मं कोचि हदयं याचेय्य, हदयं नीहरित्वा ददेय्यं. सचे अक्खीनि याचेय्य, अक्खीनि उप्पाटेत्वा ददेय्यं. सचे सकलसरीरे मंसं रुधिरम्पि वा याचेय्य, सकलसरीरतो मंसं छिन्दित्वा रुधिरम्पि असिना विज्झित्वा ददेय्यं. अथापि कोचि ‘दासो मे होही’ति वदेय्य, अत्तानं तस्स सावेत्वा ददेय्य’’न्ति. तस्सेवं सभावं सरसं चिन्तेन्तस्स चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी उदकपरियन्तं कत्वा कम्पि. सिनेरुपब्बतराजा ओनमित्वा जेतुत्तरनगराभिमुखो अट्ठासि. तेन वुत्तं –

७८. ‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको;

तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं.

७९. ‘‘हदयं ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च;

ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं.

८०. ‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितं;

अकम्पि तत्थ पथवी, सिनेरुवनवटंसका’’ति.

तत्थ सावेत्वाति ‘‘अज्ज पट्ठाय अहं इमस्स दासो’’ति दासभावं सावेत्वा. यदि कोचि याचये ममन्ति कोचि मं यदि याचेय्य. सभावं चिन्तयन्तस्साति अविपरीतं अत्तनो यथाभूतं सभावं अतित्तिमं यथाज्झासयं चिन्तेन्तस्स मम, मयि चिन्तेन्तेति अत्थो. अकम्पितन्ति कम्पितरहितं. असण्ठितन्ति सङ्कोचरहितं. येन हि लोभादिना अबोधिसत्तानं चक्खादिदाने चित्तुत्राससङ्खातं कम्पितं सङ्कोचसङ्खातं सण्ठितञ्च सिया, तेन विनाति अत्थो. अकम्पीति अचलि. सिनेरुवनवटंसकाति सिनेरुम्हि उट्ठितनन्दनवनफारुसकवनमिस्सकवनचित्तलतावनादिकप्पकतरुवनं सिनेरुवनं. अथ वा सिनेरु च जम्बुदीपादीसु रमणीयवनञ्च सिनेरुवनं, तं वनं वटंसकं एतिस्साति सिनेरुवनवटंसका.

एवञ्च पथविकम्पने वत्तमाने मधुरगम्भीरदेवो गज्जन्तो खणिकवस्सं वस्सि, विज्जुलता निच्छरिंसु, महासमुद्दो उब्भिज्जि, सक्को देवराजा अप्फोटेसि, महाब्रह्मा साधुकारमदासि, याव ब्रह्मलोका एककोलाहलं अहोसि. महासत्तो सोळसवस्सकालेयेव सब्बसिप्पानं निप्फत्तिं पापुणि. तस्स पिता रज्जं दातुकामो मातरा सद्धिं मन्तेत्वा मद्दराजकुलतो मातुलधीतरं मद्दिं नाम राजकञ्ञं आनेत्वा सोळसन्नं इत्थिसहस्सानं जेट्ठकं अग्गमहेसिं कत्वा महासत्तं रज्जे अभिसिञ्चि. महासत्तो रज्जे पतिट्ठितकालतो पट्ठाय देवसिकं छसतसहस्सानि विस्सज्जेत्वा महादानं पवत्तेन्तो अन्वद्धमासं दानं ओलोकेतुं उपसङ्कमति. अपरभागे मद्दिदेवी पुत्तं विजायि. तं कञ्चनजालेन सम्पटिच्छिंसु, तेनस्स ‘‘जालिकुमारो’’त्वेव नामं करिंसु. तस्स पदसा गमनकाले सा धीतरं विजायि. तं कण्हाजिनेन सम्पटिच्छिंसु, तेनस्सा ‘‘कण्हाजिना’’त्वेव नामं करिंसु. तेन वुत्तं –

८१. ‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे;

पच्चयं नागमारुय्ह, दानं दातुं उपागमि’’न्ति.

तत्थ अन्वद्धमासेति अनुअद्धमासे, अद्धमासे अद्धमासेति अत्थो. पुण्णमासेति पुण्णमासियं, मासपरिपूरिया चन्दपरिपूरिया च समन्नागते पन्नरसे दानं दातुं उपागमिन्ति सम्बन्धो. तत्रायं योजना – पच्चयं नागमारुय्ह अद्धमासे अद्धमासे दानं दातुं दानसालं उपागमिं, एवं उपगच्छन्तो च यदा एकस्मिं पन्नरसे पुण्णमासिउपोसथे दानं दातुं उपागमिं, तदा कलिङ्गरट्ठविसया ब्राह्मणा उपगञ्छु मन्ति तत्थ पच्चयं नागन्ति पच्चयनामकं मङ्गलहत्थिं. बोधिसत्तस्स हि जातदिवसे एका आकासचारिनी करेणुका अभिमङ्गलसम्मतं सब्बसेतहत्थिपोतकं आनेत्वा मङ्गलहत्थिट्ठाने ठपेत्वा पक्कामि. तस्स महासत्तं पच्चयं कत्वा लद्धत्ता ‘‘पच्चयो’’त्वेव नामं करिंसु. तं पच्चयनामकं ओपवय्हं हत्थिनागं आरुय्ह दानं दातुं उपागमिन्ति. तेन वुत्तं –

८२. ‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मं;

अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं.

८३. ‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा;

ददाहि पवरं नागं, सब्बसेतं गजुत्तम’’न्ति.

तत्थ ‘‘कलिङ्गरट्ठविसया’’तिआदिगाथा हेट्ठा कुरुराजचरितेपि (चरिया. १.२१-२२) आगता एव, तस्मा तासं अत्थो कथामग्गो च तत्थ वुत्तनयेनेव वेदितब्बो. इध पन मङ्गलहत्थिनो सेतत्ता ‘‘सब्बसेतं गजुत्तम’’न्ति वुत्तं. बोधिसत्तो हत्थिक्खन्धवरगतो –

८४. ‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा;

सन्तं नप्पटिगूहामि, दाने मे रमते मनो’’ति. –

अत्तनो दानाभिरतिं पवेदेन्तो –

८५. ‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो;

मा मे भिज्जि समादानं, दस्सामि विपुलं गज’’न्ति. (चरिया. १.२३) –

पटिजानित्वा हत्थिक्खन्धतो ओरुय्ह अनलङ्कतट्ठानं ओलोकनत्थं अनुपरियायित्वा अनलङ्कतट्ठानं अदिस्वा कुसुममिस्सगन्धोदकभरितं सुवण्णभिङ्गारं गहेत्वा ‘‘भोन्तो इतो एथा’’ति अलङ्कतरजतदामसदिसं हत्थिसोण्डं तेसं हत्थे ठपेत्वा उदकं पातेत्वा अलङ्कतवारणं अदासि. तेन वुत्तं –

८६. ‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये;

जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गज’’न्ति. (चरिया. १.२४);

तत्थ सन्तन्ति विज्जमानं देय्यधम्मं. नप्पटिगूहामीति न पटिच्छादेमि. यो हि अत्तनो सन्तकं ‘‘मय्हमेव होतू’’ति चिन्तेति, याचितो वा पटिक्खिपति, सो याचकानं अभिमुखे ठितम्पि अत्थतो पटिच्छादेति नाम. महासत्तो पन अत्तनो सीसं आदिं कत्वा अज्झत्तिकदानं दातुकामोव, कथं बाहिरं पटिक्खिपति, तस्मा आह ‘‘सन्तं नप्पटिगूहामी’’ति. तेनेवाह ‘‘दाने मे रमते मनो’’ति. सेसं हेट्ठा वुत्तत्थमेव.

तस्स पन हत्थिनो चतूसु पादेसु अलङ्कारा चत्तारि सतसहस्सानि अग्घन्ति, उभोसु पस्सेसु अलङ्कारा द्वे सतसहस्सानि, हेट्ठा उदरे कम्बलं सतसहस्सं, पिट्ठियं मुत्ताजालं मणिजालं कञ्चनजालन्ति तीणि जालानि तीणि सतसहस्सानि, उभो कण्णालङ्कारा द्वे सतसहस्सानि, पिट्ठियं अत्थतकम्बलं सतसहस्सं, कुम्भालङ्कारो सतसहस्सं, तयो वटंसका तीणि सतसहस्सानि, कण्णचूळालङ्कारो सतसहस्सं, द्विन्नं दन्तानं अलङ्कारा द्वे सतसहस्सानि, सोण्डाय सोवत्थिकालङ्कारो सतसहस्सं, नङ्गुट्ठालङ्कारो सतसहस्सं, आरोहणनिस्सेणि सतसहस्सं, भुञ्जनकटाहं सतसहस्सं, ठपेत्वा अनग्घभण्डं इदं ताव एत्तकं चतुवीसति सतसहस्सानि अग्घति. छत्तपिण्डियं पन मणि, चूळामणि, मुत्ताहारे मणि, अङ्कुसे मणि, हत्थिकण्ठवेठनमुत्ताहारे मणि, हत्थिकुम्भे मणीति इमानि छ अनग्घानि, हत्थीपि अनग्घो एवाति हत्थिना सद्धिं सत्त अनग्घानि, तानि सब्बानि ब्राह्मणानं अदासि. तथा हत्थिनो परिचारकानि पञ्च कुलसतानि हत्थिमेण्डहत्थिगोपकेहि सद्धिं अदासि. सह दानेन पनस्स हेट्ठा वुत्तनयेनेव भूमिकम्पादयो अहेसुं. तेन वुत्तं –

८७. ‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमं;

तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.

जातकेपि (जा. २.२२.१६७३) वुत्तं –

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

हत्थिनागे पदिन्नम्हि, मेदनी सम्पकम्पथा’’ति.

८८. तस्स नागस्स दानेनाति छहि अनग्घेहि सद्धिं चतुवीसतिसतसहस्सग्घनिकअलङ्कारभण्डसहितस्स तस्स मङ्गलहत्थिस्स परिच्चागेन. सिवयोति सिविराजकुमारा चेव सिविरट्ठवासिनो च. ‘‘सिवयो’’ति च देसनासीसमेतं. तत्थ हि अमच्चा पारिसज्जा ब्राह्मणगहपतिका नेगमजानपदा नागरा सकलरट्ठवासिनो च सञ्जयमहाराजं फुस्सतिदेविं मद्दिदेविञ्च ठपेत्वा सब्बे एव. कुद्धाति देवतावत्तनेन बोधिसत्तस्स कुद्धा. समागताति सन्निपतिता. ते किर ब्राह्मणा हत्थिं लभित्वा तं अभिरुहित्वा महाद्वारेन पविसित्वा नगरमज्झेन पायिंसु. महाजनेन च ‘‘अम्भो ब्राह्मणा, अम्हाकं हत्थी कुतो अभिरुळ्हो’’ति वुत्ते ‘‘वेस्सन्तरमहाराजेन नो हत्थी दिन्नो, के तुम्हे’’ति हत्थविकारादीहि घट्टेन्ता अगमंसु. अथ अमच्चे आदिं कत्वा महाजना राजद्वारे सन्निपतित्वा ‘‘रञ्ञा नाम ब्राह्मणानं धनं वा धञ्ञं वा खेत्तं वा वत्थु वा दासिदासपरिचारिका वा दातब्बा सिया, कथञ्हि नामायं वेस्सन्तरमहाराजा राजारहं मङ्गलहत्थिं दस्सति, न इदानि एवं रज्जं विनासेतुं दस्सामा’’ति उज्झायित्वा सञ्जयमहाराजस्स तमत्थं आरोचेत्वा तेन अनुनीयमाना अननुयन्ता अगमंसु. केवलं पन –

‘‘मा नं दण्डेन सत्थेन, न हि सो बन्धनारहो;

पब्बाजेहि च नं रट्ठा, वङ्के वसतु पब्बते’’ति. (जा. २.२२.१६८७) –

वदिंसु. तेन वुत्तं –

‘‘पब्बाजेसुं सका रट्ठा, वङ्कं गच्छतु पब्बत’’न्ति.

तत्थ पब्बाजेसुन्ति रज्जतो बहि वासत्थाय उस्सुक्कमकंसु; –

राजापि ‘‘महा खो अयं पटिपक्खो, हन्द मम पुत्तो कतिपाहं रज्जतो बहि वसतू’’ति चिन्तेत्वा –

‘‘एसो चे सिवीनं छन्दो, छन्दं नप्पनुदामसे;

इमं सो वसतु रत्तिं, कामे च परिभुञ्जतु.

‘‘ततो रत्या विवसाने, सूरियुग्गमनं पति;

समग्गा सिवयो हुत्वा, रट्ठा पब्बाजयन्तु न’’न्ति. (जा. २.२२.१६८८-१६८९) –

वत्वा पुत्तस्स सन्तिके कत्तारं पेसेसि ‘‘इमं पवत्तिं मम पुत्तस्स आरोचेही’’ति. सो तथा अकासि.

महासत्तोपि तं सुत्वा –

‘‘किस्मिं मे सिवयो कुद्धा, नाहं पस्सामि दुक्कटं;

तं मे कत्ते वियाचिक्ख, कस्मा पब्बाजयन्ति म’’न्ति. (जा. २.२२.१७०१) –

कारणं पुच्छि. तेन ‘‘तुम्हाकं हत्थिदानेना’’ति वुत्ते सोमनस्सप्पत्तो हुत्वा –

‘‘हदयं चक्खुम्पहं दज्जं, किं मे बाहिरकं धनं;

हिरञ्ञं वा सुवण्णं वा, मुत्ता वेळुरिया मणि.

‘‘दक्खिणं वापहं बाहुं, दिस्वा याचकमागते;

ददेय्यं न विकम्पेय्यं, दाने मे रमते मनो.

‘‘कामं मं सिवयो सब्बे, पब्बाजेन्तु हनन्तु वा;

नेव दाना विरमिस्सं, कामं छिन्दन्तु सत्तधा’’ति. (जा. २.२२.१७०३-१७०५) –

वत्वा ‘‘नागरा मे एकदिवसं दानं दातुं ओकासं देन्तु, स्वे दानं दत्वा ततियदिवसे गमिस्सामी’’ति वत्वा कत्तारं तेसं सन्तिके पेसेत्वा ‘‘अहं स्वे सत्तसतकं नाम महादानं दस्सामि, सत्तहत्थिसतानि सत्तअस्ससतानि सत्तरथसतानि सत्तइत्थिसतानि सत्तदाससतानि सत्तदासिसतानि सत्तधेनुसतानि पटियादेहि, नानप्पकारञ्च अन्नपानादिं सब्बं दातब्बयुत्तकं उपट्ठपेही’’ति सब्बकम्मिकं अमच्चं आणापेत्वा एककोव मद्दिदेविया वसनट्ठानं गन्त्वा ‘‘भद्दे मद्दि, अनुगामिकनिधिं निदहमाना, सीलवन्तेसु ददेय्यासी’’ति तम्पि दाने नियोजेत्वा तस्सा अत्तनो गमनकारणं आचिक्खित्वा ‘‘अहं वनं वसनत्थाय गमिस्सामि, त्वं इधेव अनुक्कण्ठिता वसाही’’ति आह. सा ‘‘नाहं, महाराज, तुम्हेहि विना एकदिवसम्पि वसिस्सामी’’ति आह.

दुतियदिवसे सत्तसतकं महादानं पवत्तेसि. तस्स सत्तसतकं दानं देन्तस्सेव सायं अहोसि. अलङ्कतरथेन मातापितूनं वसनट्ठानं गन्त्वा ‘‘अहं स्वे गमिस्सामी’’ति ते आपुच्छित्वा अकामकानं तेसं अस्सुमुखानं रोदन्तानंयेव वन्दित्वा पदक्खिणं कत्वा ततो निक्खमित्वा तं दिवसं अत्तनो निवेसने वसित्वा पुनदिवसे ‘‘गमिस्सामी’’ति पासादतो ओतरि. मद्दिदेवी सस्सुससुरेहि नानानयेहि याचित्वा निवत्तियमानापि तेसं वचनं अनादियित्वा ते वन्दित्वा पदक्खिणं कत्वा सेसित्थियो अपलोकेत्वा द्वे पुत्ते आदाय वेस्सन्तरस्स पठमतरं गन्त्वा रथे अट्ठासि.

महापुरिसो रथं अभिरुहित्वा रथे ठितो महाजनं आपुच्छित्वा ‘‘अप्पमत्ता दानादीनि पुञ्ञानि करोथा’’ति ओवादमस्स दत्वा नगरतो निक्खमि. बोधिसत्तस्स माता ‘‘पुत्तो मे दानवित्तको दानं देतू’’ति आभरणेहि सद्धिं सत्तरतनपूरानि सकटानि उभोसु पस्सेसु पेसेसि. सोपि अत्तनो कायारुळ्हमेव आभरणभण्डं सम्पत्तयाचकानं अट्ठारस वारे दत्वा सेसं सब्बमदासि. नगरा निक्खमित्वाव निवत्तित्वा ओलोकेतुकामो अहोसि. अथस्स पुञ्ञानुभावेन रथप्पमाणे ठाने महापथवी भिज्जित्वा परिवत्तित्वा रथं नगराभिमुखं अकासि. सो मातापितूनं वसनट्ठानं ओलोकेसि. तेन कारुञ्ञेन पथविकम्पो अहोसि. तेन वुत्तं ‘‘तेसं निच्छुभमानान’’न्तिआदि.

८९-९०. तत्थ निच्छुभमानानन्ति तेसु सिवीसु निक्कड्ढन्तेसु, पब्बाजेन्तेसूति अत्थो. तेसं वा निक्खमन्तानं. महादानं पवत्तेतुन्ति सत्तसतकमहादानं दातुं. आयाचिस्सन्ति याचिं. सावयित्वाति घोसापेत्वा. कण्णभेरिन्ति युगलमहाभेरिं. ददामहन्ति ददामि अहं.

९१. अथेत्थाति अथेवं दाने दीयमाने एतस्मिं दानग्गे. तुमूलोति एककोलाहलीभूतो. भेरवोति भयावहो. महासत्तञ्हि ठपेत्वा अञ्ञेसं सो भयं जनेति, तस्स भयजननाकारं दस्सेतुं. ‘‘दानेनिम’’न्तिआदि वुत्तं. इमं वेस्सन्तरमहाराजानं दानेन हेतुना सिवयो रट्ठतो नीहरन्ति पब्बाजेन्ति, तथापि पुन च एवरूपं दानं देति अयन्ति.

९२-९४. इदानि तं दानं दस्सेतुं ‘‘हत्थि’’न्ति गाथमाह. तत्थ गवन्ति धेनुं. चतुवाहिं रथं दत्वाति वहन्तीति वाहिनो, अस्सा, चतुरो आजञ्ञसिन्धवे रथञ्च ब्राह्मणानं दत्वाति अत्थो. महासत्तो हि तथा नगरतो निक्खमन्तो सहजाते सट्ठिसहस्से अमच्चे सेसजनञ्च अस्सुपुण्णमुखं अनुबद्धन्तं निवत्तेत्वा रथं पाजेन्तो मद्दिं आह – ‘‘सचे, भद्दे, पच्छतो याचका आगच्छन्ति, उपधारेय्यासी’’ति. सा ओलोकेन्ती निसीदि. अथस्स सत्तसतकमहादानं गमनकाले कतदानञ्च सम्पापुणितुं असक्कोन्ता चत्तारो ब्राह्मणा आगन्त्वा ‘‘वेस्सन्तरो कुहि’’न्ति पुच्छित्वा ‘‘दानं दत्वा रथेन गतो’’ति वुत्ते ‘‘अस्से याचिस्सामा’’ति अनुबन्धिंसु. मद्दी ते आगच्छन्ते दिस्वा ‘‘याचका, देवा’’ति आरोचेसि. महासत्तो रथं ठपेसि. ते आगन्त्वा अस्से याचिंसु. महासत्तो अस्से अदासि. ते ते गहेत्वा गता. अस्सेसु पन दिन्नेसु रथधुरं आकासेयेव अट्ठासि. अथ चत्तारो देवपुत्ता रोहितमिगवण्णेनागन्त्वा रथधुरं सम्पटिच्छित्वा अगमंसु. महासत्तो तेसं देवपुत्तभावं ञत्वा –

‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सति;

मिगरोहिच्चवण्णेन, दक्खिणस्सा वहन्ति म’’न्ति. (जा. २.२२.१८६४) –

मद्दिया आह.

तत्थ चित्तरूपंवाति अच्छरियरूपं विय. दक्खिणस्साति सुसिक्खितअस्सा विय मं वहन्ति.

अथ नं एवं गच्छन्तं अपरो ब्राह्मणो आगन्त्वा रथं याचि. महासत्तो पुत्तदारं ओतारेत्वा रथं अदासि. रथे पन दिन्ने देवपुत्ता अन्तरधायिंसु. ततो पट्ठाय पन सब्बेपि पत्तिकाव अहेसुं. अथ महासत्तो ‘‘मद्दि, त्वं कण्हाजिनं गण्हाहि, अहं जालिकुमारं गण्हामी’’ति उभोपि द्वे दारके अङ्केनादाय अञ्ञमञ्ञं पियसल्लापा पटिपथं आगच्छन्ते मनुस्से वङ्कपब्बतस्स मग्गं पुच्छन्ता सयमेव ओनतेसु फलरुक्खेसु फलानि दारकानं ददन्ता अत्थकामाहि देवताहि मग्गस्स सङ्खिपितत्ता तदहेव चेतरट्ठं सम्पापुणिंसु. तेन वुत्तं ‘‘चतुवाहिं रथं दत्वा’’तिआदि.

तत्थ ठत्वा चातुम्महापथेति अत्तनो गमनमग्गेन पस्सतो आगतेन तेन ब्राह्मणेन आगतमग्गेन च विनिविज्झित्वा गतट्ठानत्ता चतुक्कसङ्खाते चतुमहापथे ठत्वा तस्स ब्राह्मणस्स रथं दत्वा. एकाकियोति अमच्चसेवकादिसहायाभावेन एकको. तेनेवाह ‘‘अदुतियो’’ति. मद्दिदेविं इदमब्रवीति मद्दिदेविं इदं अभासि.

९६-९९. पदुमं पुण्डरीकंवाति पदुमं विय, पुण्डरीकं विय च. कण्हाजिनग्गहीति कण्हाजिनं अग्गहेसि. अभिजाताति जातिसम्पन्ना. विसमं समन्ति विसमं समञ्च भूमिप्पदेसं. एन्तीति आगच्छन्ति. अनुमग्गे पटिप्पथेति अनुमग्गे वा पटिपथे वाति वा-सद्दस्स लोपो दट्ठब्बो. करुणन्ति भावनपुंसकनिद्देसो, करुणायितत्तन्ति अत्थो. दुक्खं ते पटिवेदेन्तीति इमे एवं सुखुमाला पदसा गच्छन्ति, दूरेव इतो वङ्कपब्बतोति ते तदा अम्हेसु कारुञ्ञवसेन अत्तना दुक्खं पटिलभन्ति, तथा अत्तनो उप्पन्नदुक्खं पटिवेदेन्ति वाति अत्थो.

१००-१. पवनेति महावने. फलिनेति फलवन्ते. उब्बिद्धाति उद्धं उग्गता उच्चा. उपगच्छन्ति दारकेति यथा फलानि दारकानं हत्थूपगय्हकानि होन्ति, एवं रुक्खा सयमेव साखाहि ओनमित्वा दारके उपेन्ति.

१०२. अच्छरियन्ति अच्छरायोग्गं, अच्छरं पहरितुं युत्तं. अभूतपुब्बं भूतन्ति अब्भुतं. लोमानं हंसनसमत्थताय लोमहंसनं. साहुकारन्ति साधुकारं, अयमेव वा पाठो. इत्थिरतनभावेन सब्बेहि अङ्गेहि अवयवेहि सोभतीति सब्बङ्गसोभना.

१०३-४. अच्छेरं वताति अच्छरियं वत. वेस्सन्तरस्स तेजेनाति वेस्सन्तरस्स पुञ्ञानुभावेन. सङ्खिपिंसु पथं यक्खाति देवता महासत्तस्स पुञ्ञतेजेन चोदिता तं मग्गं परिक्खयं पापेसुं, अप्पकं अकंसु, तं पन दारकेसु करुणाय कतं विय कत्वा वुत्तं ‘‘अनुकम्पाय दारके’’ति. जेतुत्तरनगरतो हि सुवण्णगिरितालो नाम पब्बतो पञ्च योजनानि, ततो कोन्तिमारा नाम नदी पञ्च योजनानि, ततो मारञ्जनागिरि नाम पब्बतो पञ्च योजनानि, ततो दण्डब्राह्मणगामो नाम पञ्च योजनानि, ततो मातुलनगरं दस योजनानि, इति तं रट्ठं जेतुत्तरनगरतो तिंस योजनानि होति. देवता बोधिसत्तस्स पुञ्ञतेजेन चोदिता मग्गं परिक्खयं पापेसुं. तं सब्बं एकाहेनेव अतिक्कमिंसु. तेन वुत्तं ‘‘निक्खन्तदिवसेनेव, चेतरट्ठमुपागमु’’न्ति.

एवं महासत्तो सायन्हसमयं चेतरट्ठे मातुलनगरं पत्वा तस्स नगरस्स द्वारसमीपे सालायं निसीदि. अथस्स मद्दिदेवी पादेसु रजं पुञ्छित्वा पादे सम्बाहित्वा ‘‘वेस्सन्तरस्स आगतभावं जानापेस्सामी’’ति सालतो निक्खमित्वा तस्स चक्खुपथे सालद्वारे अट्ठासि. नगरं पविसन्तियो च निक्खमन्तियो च इत्थियो तं दिस्वा परिवारेसुं. महाजनो तञ्च वेस्सन्तरञ्च पुत्ते चस्स तथा आगते दिस्वा राजूनं आचिक्खि. सट्ठिसहस्सा राजानो रोदन्ता परिदेवन्ता तस्स सन्तिकं आगन्त्वा मग्गपरिस्समं विनोदेत्वा तथा आगमनकारणं पुच्छिंसु.

महासत्तो हत्थिदानं आदिं कत्वा सब्बं कथेसि. तं सुत्वा ते अत्तनो रज्जेन निमन्तयिंसु. महापुरिसो ‘‘मया तुम्हाकं रज्जं पटिग्गहितमेव होतु, राजा पन मं रट्ठा पब्बाजेति, तस्मा वङ्कपब्बतमेव गमिस्सामी’’ति वत्वा तेहि नानप्पकारं तत्थ वासं याचियमानोपि तं अनलङ्करित्वा तेहि गहितारक्खो तं रत्तिं सालायमेव वसित्वा पुनदिवसे पातोव नानग्गरसभोजनं भुञ्जित्वा तेहि परिवुतो निक्खमित्वा पन्नरसयोजनमग्गं गन्त्वा वनद्वारे ठत्वा ते निवत्तेत्वा पुरतो पन्नरसयोजनमग्गं तेहि आचिक्खितनियामेनेव अगमासि. तेन वुत्तं –

१०५. ‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले;

सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं.

१०६. ‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि;

ते ततो निक्खमित्वान, वङ्कं अगमु पब्बत’’न्ति.

तत्थ तत्थ वत्तेत्वा सल्लापन्ति तत्थ तेहि राजूहि समागमेहि सद्धिं पटिसम्मोदमाना कथं पवत्तेत्वा. चेतपुत्तेहीति चेतराजपुत्तेहि. ते ततो निक्खमित्वानाति ते राजानो ततो वनद्वारट्ठाने निवत्तेत्वा. वङ्कं अगमु पब्बतन्ति अम्हे चत्तारो जना वङ्कपब्बतं उद्दिस्स अगमम्हा.

अथ महासत्तो तेहि आचिक्खितमग्गेन गच्छन्तो गन्धमादनपब्बतं पत्वा तं दिवसं तत्थ वसित्वा ततो उत्तरदिसाभिमुखो वेपुल्लपब्बतपादेन गन्त्वा केतुमतीनदीतीरे निसीदित्वा वनचरकेन दिन्नं मधुमंसं खादित्वा तस्स सुवण्णसूचिं दत्वा न्हत्वा पिवित्वा पटिप्पस्सद्धदरथो नदिं उत्तरित्वा सानुपब्बतसिखरे ठितस्स निग्रोधस्स मूले थोकं निसीदित्वा उट्ठाय गच्छन्तो नालिकपब्बतं परिहरन्तो मुचलिन्दसरं गन्त्वा सरतीरेन पुब्बुत्तरकण्णं पत्वा एकपदिकमग्गेनेव वनघटं पविसित्वा तं अतिक्कम्म गिरिविदुग्गानं नदीपभवानं पुरतो चतुरस्सपोक्खरणिं पापुणि.

१०७. तस्मिं खणे सक्को आवज्जेन्तो ‘‘महासत्तो हिमवन्तं पविट्ठो, वसनट्ठानं लद्धुं वट्टती’’ति चिन्तेत्वा विस्सकम्मं पेसेसि – ‘‘गच्छ वङ्कपब्बतकुच्छिम्हि रमणीये ठाने अस्समपदं मापेही’’ति. सो तत्थ द्वे पण्णसालायो द्वे चङ्कमे द्वे च रत्तिट्ठानदिवाट्ठानानि मापेत्वा तेसु तेसु ठानेसु नानापुप्फविचित्ते रुक्खे फलिते रुक्खे पुप्फगच्छे कदलिवनादीनि च दस्सेत्वा सब्बे पब्बजितपरिक्खारे पटियादेत्वा ‘‘येकेचि पब्बजितुकामा, ते गण्हन्तू’’ति अक्खरानि लिखित्वा अमनुस्से च भेरवसद्दे मिगपक्खिनो च पटिक्कमापेत्वा सकट्ठानमेव गतो.

महासत्तो एकपदिकमग्गं दिस्वा ‘‘पब्बजितानं वसनट्ठानं भविस्सती’’ति मद्दिञ्च पुत्ते च तत्थेव ठपेत्वा अस्समपदं पविसित्वा अक्खरानि ओलोकेत्वा ‘‘सक्केन दिन्नोस्मी’’ति पण्णसालद्वारं विवरित्वा पविट्ठो खग्गञ्च धनुञ्च अपनेत्वा साटके ओमुञ्चित्वा इसिवेसं गहेत्वा कत्तरदण्डं आदाय निक्खमित्वा पच्चेकबुद्धसदिसेन उपसमेन दारकानं सन्तिकं अगमासि. मद्दिदेवीपि महासत्तं दिस्वा पादेसु पतित्वा रोदित्वा तेनेव सद्धिं अस्समं पविसित्वा अत्तनो पण्णसालं गन्त्वा इसिवेसं गण्हि. पच्छा पुत्तेपि तापसकुमारके करिंसु. बोधिसत्तो मद्दिं वरं याचि ‘‘मयं इतो पट्ठाय पब्बजिता नाम, इत्थी च नाम ब्रह्मचरियस्स मलं, मा दानि अकाले मम सन्तिकं आगच्छा’’ति. सा ‘‘साधू’’ति सम्पटिच्छित्वा महासत्तम्पि वरं याचि ‘‘देव, तुम्हे पुत्ते गहेत्वा इधेव होथ, अहं फलाफलं आहरिस्सामी’’ति. सा ततो पट्ठाय अरञ्ञतो फलाफलानि आहरित्वा तयो जने पटिजग्गि. इति चत्तारो खत्तिया वङ्कपब्बतकुच्छियं सत्तमासमत्तं वसिंसु. तेन वुत्तं ‘‘आमन्तयित्वा देविन्दो, विस्सकम्मं महिद्धिक’’न्तिआदि.

तत्थ आमन्तयित्वाति पक्कोसापेत्वा. महिद्धिकन्ति महतिया देविद्धिया समन्नागतं. अस्समं सुकतन्ति अस्समपदं सुकतं कत्वा. रम्मं वेस्सन्तरस्स वसनानुच्छविकं पण्णसालं. सुमापयाति सुट्ठु मापय. आणापेसीति वचनसेसो. सुमापयीति सम्मा मापेसि.

१११. असुञ्ञोति यथा सो अस्समो असुञ्ञो होति, एवं तस्स असुञ्ञभावकरणेन असुञ्ञो होमि. ‘‘असुञ्ञे’’ति वा पाठो, मम वसनेनेव असुञ्ञे अस्समे दारके अनुरक्खन्तो वसामि तत्थ तिट्ठामि. बोधिसत्तस्स मेत्तानुभावेन समन्ता तियोजने सब्बे तिरच्छानापि मेत्तं पटिलभिंसु.

एवं तेसु तत्थ वसन्तेसु कलिङ्गरट्ठवासी जूजको नाम ब्राह्मणो अमित्ततापनाय नाम भरियाय ‘‘नाहं ते निच्चं धञ्ञकोट्टनउदकाहरणयागुभत्तपचनादीनि कातुं सक्कोमि, परिचारकं मे दासं वा दासिं वा आनेही’’ति वुत्ते ‘‘कुतोहं ते भोति दुग्गतो दासं वा दासिं वा लभिस्सामी’’ति वत्वा ताय ‘‘एस वेस्सन्तरो राजा वङ्कपब्बते वसति. तस्स पुत्ते मय्हं परिचारके याचित्वा आनेही’’ति वुत्ते किलेसवसेन तस्सा पटिबद्धचित्तताय तस्सा वचनं अतिक्कमितुं असक्कोन्तो पाथेय्यं पटियादापेत्वा अनुक्कमेन जेतुत्तरनगरं पत्वा ‘‘कुहिं वेस्सन्तरमहाराजा’’ति पुच्छि.

महाजनो ‘‘इमेसं याचकानं अतिदानेन अम्हाकं राजा रट्ठा पब्बाजितो, एवं अम्हाकं राजानं नासेत्वा पुनपि इधेव आगच्छती’’ति लेड्डुदण्डादिहत्थो उपक्कोसन्तो ब्राह्मणं अनुबन्धि. सो देवताविग्गहितो हुत्वा ततो निक्खमित्वा वङ्कपब्बतगामिमग्गं अभिरुळ्हो अनुक्कमेन वनद्वारं पत्वा महावनं अज्झोगाहेत्वा मग्गमूळ्हो हुत्वा विचरन्तो तेहि राजूहि बोधिसत्तस्स आरक्खणत्थाय ठपितेन चेतपुत्तेन समागञ्छि. तेन ‘‘कहं, भो ब्राह्मण, गच्छसी’’ति पुट्ठो ‘‘वेस्सन्तरमहाराजस्स सन्तिक’’न्ति वुत्ते ‘‘अद्धा अयं ब्राह्मणो तस्स पुत्ते वा देविं वा याचितुं गच्छती’’ति चिन्तेत्वा ‘‘मा खो, त्वं ब्राह्मण, तत्थ गञ्छि, सचे गच्छसि, एत्थेव ते सीसं छिन्दित्वा मय्हं सुनखानं घासं करिस्सामी’’ति तेन सन्तज्जितो मरणभयभीतो ‘‘अहमस्स पितरा पेसितो दूतो, ‘तं आनेस्सामी’ति आगतो’’ति मुसावादं अभासि. तं सुत्वा चेतपुत्तो तुट्ठहट्ठो ब्राह्मणस्स सक्कारसम्मानं कत्वा वङ्कपब्बतगामिमग्गं आचिक्खि. सो ततो परं गच्छन्तो अन्तरामग्गे अच्चुतेन नाम तापसेन सद्धिं समागन्त्वा तम्पि मग्गं पुच्छित्वा तेनापि मग्गे आचिक्खिते तेन आचिक्खितसञ्ञाय मग्गं गच्छन्तो अनुक्कमेन बोधिसत्तस्स अस्समपदट्ठानसमीपं गन्त्वा मद्दिदेविया फलाफलत्थं गतकाले बोधिसत्तं उपसङ्कमित्वा उभो दारके याचि. तेन वुत्तं –

११२. ‘‘पवने वसमानस्स, अद्धिको मं उपागमि;

अयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो’’ति.

एवं ब्राह्मणेन दारकेसु याचितेसु महासत्तो ‘‘चिरस्सं वत मे याचको अधिगतो, अज्जाहं अनवसेसतो दानपारमिं पूरेस्सामी’’ति अधिप्पायेन सोमनस्सजातो पसारितहत्थे सहस्सत्थविकं ठपेन्तो विय ब्राह्मणस्स चित्तं परितोसेन्तो सकलञ्च तं पब्बतकुच्छिं उन्नादेन्तो ‘‘ददामि तव मय्हं पुत्तके, अपि च मद्दिदेवी पन पातोव फलाफलत्थाय वनं गन्त्वा सायं आगमिस्सति, ताय आगताय ते पुत्तके दस्सेत्वा त्वञ्च मूलफलाफलं खादित्वा एकरत्तिं वसित्वा विगतपरिस्समो पातोव गमिस्ससी’’ति आह. ब्राह्मणो ‘‘कामञ्चेस उळारज्झासयताय पुत्तके ददाति, माता पन वच्छगिद्धा आगन्त्वा दानस्स अन्तरायम्पि करेय्य, यंनूनाहं इमं निप्पीळेत्वा दारके गहेत्वा अज्जेव गच्छेय्य’’न्ति चिन्तेत्वा ‘‘पुत्ता चे ते मय्हं दिन्ना, किं दानि मातरं दस्सेत्वा पेसितेहि, दारके गहेत्वा अज्जेव गमिस्सामी’’ति आह. ‘‘सचे, त्वं ब्राह्मण, राजपुत्तिं मातरं दट्ठुं न इच्छसि, इमे दारके गहेत्वा जेतुत्तरनगरं गच्छ, तत्थ सञ्जयमहाराजा दारके गहेत्वा महन्तं ते धनं दस्सति, तेन दासदासियो गण्हिस्ससि, सुखञ्च जीविस्ससि, अञ्ञथा इमे सुखुमाला राजदारका, किं ते वेय्यावच्चं करिस्सन्ती’’ति आह.

ब्राह्मणो ‘‘एवम्पि मया न सक्का कातुं, राजदण्डतो भायामि, मय्हमेव गामं नेस्सामी’’ति आह. इमं तेसं कथासल्लापं सुत्वा दारका ‘‘पिता नो खो अम्हे ब्राह्मणस्स दातुकामो’’ति पक्कमित्वा पोक्खरणिं गन्त्वा पदुमिनिगच्छे निलीयिंसु. ब्राह्मणो ते अदिस्वाव ‘‘त्वं ‘दारके ददामी’ति वत्वा ते अपक्कमापेसि, एसो ते साधुभावो’’ति आह. अथ महासत्तो सहसाव उट्ठहित्वा दारके गवेसन्तो पदुमिनिगच्छे निलीने दिस्वा ‘‘एथ, ताता, मा मय्हं दानपारमिया अन्तरायं अकत्थ, मम दानज्झासयं मत्थकं पापेथ, अयञ्च ब्राह्मणो तुम्हे गहेत्वा तुम्हाकं अय्यकस्स सञ्जयमहाराजस्स सन्तिकं गमिस्सति, तात जालि, त्वं भुजिस्सो होतुकामो ब्राह्मणस्स निक्खसहस्सं दत्वा भुजिस्सो भवेय्यासि, कण्हाजिने त्वं दाससतं दासिसतं हत्थिसतं अस्ससतं उसभसतं निक्खसतन्ति सब्बसतं दत्वा भुजिस्सा भवेय्यासी’’ति कुमारे अग्घापेत्वा समस्सासेत्वा गहेत्वा अस्समपदं गन्त्वा कमण्डलुना उदकं गहेत्वा सब्बञ्ञुतञ्ञाणस्स पच्चयं कत्वा ब्राह्मणस्स हत्थे उदकं पातेत्वा अतिविय पीतिसोमनस्सजातो हुत्वा पथविं उन्नादेन्तो पियपुत्तदानं अदासि. इधापि पुब्बे वुत्तनयेनेव पथविकम्पादयो अहेसुं. तेन वुत्तं –

११३. ‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ;

उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा.

११४. ‘‘सके पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा;

तदापि पथवी कम्पि, सिनेरुवनवटंसका’’ति.

अथ ब्राह्मणो दारके अगन्तुकामे लताय हत्थेसु बन्धित्वा आकड्ढि. तेसं बन्धट्ठाने छविं छिन्दित्वा लोहितं पग्घरि. सो लतादण्डेन पहरन्तो आकड्ढि. ते पितरं ओलोकेत्वा.

‘‘अम्मा च तात निक्खन्ता, त्वञ्च नो तात दस्ससि;

मा नो त्वं तात अददा, याव अम्मापि एतु नो;

तदायं ब्राह्मणो कामं, विक्किणातु हनातु वा’’ति. (जा. २.२२.२१२६) –

वत्वा पुनपि अयं एवरूपो घोरदस्सनो कुरूरकम्मन्तो –

‘‘मनुस्सो उदाहु यक्खो, मंसलोहितभोजनो;

गामा अरञ्ञमागम्म, धनं तं तात याचति;

नीयमाने पिसाचेन, किं नु तात उदिक्खसी’’ति. (जा. २.२२.२१३०-२१३१) –

आदीनि वदन्ता परिदेविंसु. तत्थ धनन्ति पुत्तधनं.

जूजको दारके तथा परिदेवन्तेयेव पोथेन्तोव गहेत्वा पक्कामि. महासत्तस्स दारकानं करुणं परिदेवितेन तस्स च ब्राह्मणस्स अकारुञ्ञभावेन बलवसोको उप्पज्जि, विप्पटिसारो च उदपादि. सो तङ्खणञ्ञेव बोधिसत्तानं पवेणिं अनुस्सरि. ‘‘सब्बेव हि बोधिसत्ता पञ्च महापरिच्चागे परिच्चजित्वा बुद्धा भविस्सन्ति, अहम्पि तेसं अब्भन्तरो, पुत्तदानञ्च महापरिच्चागानं अञ्ञतरं, तस्मा वेस्सन्तर दानं दत्वा पच्छानुतापो न ते अनुच्छविको’’ति अत्तानं परिभासेत्वा ‘‘दिन्नकालतो पट्ठाय मम ते न किञ्चि होन्ती’’ति अत्तानं उपत्थम्भेत्वा दळ्हसमादानं अधिट्ठाय पण्णसालद्वारे पासाणफलके कञ्चनपटिमा विय निसीदि.

अथ मद्दिदेवी अरञ्ञतो फलाफलं गहेत्वा निवत्तन्ती ‘‘मा महासत्तस्स दानन्तरायो होतू’’ति वाळमिगरूपधराहि देवताहि उपरुद्धमग्गा तेसु अपगतेसु चिरेन अस्समं पत्वा ‘‘अज्ज मे दुस्सुपिनं दिट्ठं, दुन्निमित्तानि च उप्पन्नानि, किं नु खो भविस्सती’’ति चिन्तेन्ती अस्समं पविसित्वा पुत्तके अपस्सन्ती बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘देव, न खो अम्हाकं पुत्तके पस्सामि, कुहिं ते गता’’ति आह. सो तुण्ही अहोसि. सा पुत्तके उपधारेन्ती तहिं तहिं उपधावित्वा गवेसन्ती अदिस्वा पुनपि गन्त्वा पुच्छि. बोधिसत्तो ‘‘कक्खळकथाय नं पुत्तसोकं जहापेस्सामी’’ति चिन्तेत्वा –

‘‘नून मद्दी वरारोहा, राजपुत्ती यसस्सिनी;

पातो गतासि उञ्छाय, किमिदं सायमागता’’ति. (जा. २.२२.२२२५) –

वत्वा ताय चिरायनकारणे कथिते पुनपि दारके सन्धाय न किञ्चि आह. सा पुत्तसोकेन ते उपधारेन्ती पुनपि वातवेगेन वनानि विचरि. ताय एकरत्तियं विचरितट्ठानं परिग्गण्हन्तं पन्नरसयोजनमत्तं अहोसि. अथ विभाताय रत्तिया महासत्तस्स सन्तिकं गन्त्वा ठिता दारकानं अदस्सनेन बलवसोकाभिभूता तस्स पादमूले छिन्नकदली विय भूमियं विसञ्ञी हुत्वा पति. सो ‘‘मता’’ति सञ्ञाय कम्पमानो उप्पन्नबलवसोकोपि सतिं पच्चुपट्ठपेत्वा ‘‘जानिस्सामि ताव जीवति, न जीवती’’ति सत्तमासे कायसंसग्गं अनापन्नपुब्बोपि अञ्ञस्स अभावेन तस्सा सीसं उक्खिपित्वा ऊरूसु ठपेत्वा उदकेन परिप्फोसित्वा उरञ्च मुखञ्च हदयञ्च परिमज्जि. मद्दीपि खो थोकं वीतिनामेत्वा सतिं पटिलभित्वा हिरोत्तप्पं पच्चुपट्ठपेत्वा ‘‘देव, दारका ते कुहिं गता’’ति पुच्छि. सो आह – ‘‘देवि, एकस्स मे ब्राह्मणस्स मं याचित्वा आगतस्स दासत्थाय दिन्ना’’ति वत्वा ताय ‘‘कस्मा, देव, पुत्ते ब्राह्मणस्स दत्वा मम सब्बरत्तिं परिदेवित्वा विचरन्तिया नाचिक्खी’’ति वुत्ते ‘‘पठममेव वुत्ते तव चित्तदुक्खं बहु भविस्सति, इदानि पन सरीरदुक्खेन तनुकं भविस्सती’’ति वत्वा –

‘‘मं पस्स मद्दि मा पुत्ते, मा बाळ्हं परिदेवसि;

लच्छाम पुत्ते जीवन्ता, अरोगा च भवामसे’’ति. (जा. २.२२.२२६०) –

सो समस्सासेत्वा पुन –

‘‘पुत्ते पसुञ्च धञ्ञञ्च, यञ्च अञ्ञं घरे धनं;

दज्जा सप्पुरिसो दानं, दिस्वा याचकमागतं;

अनुमोदाहि मे मद्दि, पुत्तके दानमुत्तम’’न्ति. (जा. २.२२.२२६१) –

वत्वा अत्तनो पुत्तदानं तं अनुमोदापेसि.

सापि –

‘‘अनुमोदामि ते देव, पुत्तके दानमुत्तमं;

दत्वा चित्तं पसादेहि, भिय्यो दानं ददो भवा’’ति. (जा. २.२२.२२६२) –

वत्वा अनुमोदि.

एवं तेसु अञ्ञमञ्ञं सम्मोदनीयं कथं कथेन्तेसु सक्को चिन्तेसि – ‘‘महापुरिसो हिय्यो जूजकस्स पथविं उन्नादेत्वा दारके अदासि. इदानि नं कोचि हीनपुरिसो उपसङ्कमित्वा मद्दिदेविं याचित्वा गहेत्वा गच्छेय्य, ततो राजा निप्पच्चयो भवेय्य, हन्दाहं ब्राह्मणवण्णेन नं उपसङ्कमित्वा मद्दिं याचित्वा पारमिकूटं गाहापेत्वा कस्सचि अविस्सज्जियं कत्वा पुन नं तस्सेव दत्वा आगमिस्सामी’’ति. सो सूरियुग्गमनवेलायं ब्राह्मणवण्णेन तस्स सन्तिकं अगमासि. तं दिस्वा महापुरिसो ‘‘अतिथि नो आगतो’’ति पीतिसोमनस्सजातो तेन सद्धिं मधुरपटिसन्थारं कत्वा ‘‘ब्राह्मण, केनत्थेन इधागतोसी’’ति पुच्छि. अथ नं सक्को मद्दिदेविं याचि. तेन वुत्तं –

११५. ‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो;

अयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बत’’न्ति.

तत्थ पुनदेवाति दारके दिन्नदिवसतो पच्छा एव. तदनन्तरमेवाति अत्थो. ओरुय्हाति देवलोकतो ओतरित्वा. ब्राह्मणसन्निभोति ब्राह्मणसमानवण्णो.

अथ महासत्तो ‘‘हिय्यो मे द्वेपि दारके ब्राह्मणस्स दिन्ना, अहम्पि अरञ्ञे एककोव, कथं ते मद्दिं सीलवन्तिं पतिब्बतं दस्सामी’’ति अवत्वाव पसारितहत्थे अनग्घरतनं ठपेन्तो विय असज्जित्वा अबज्झित्वा अनोलीनमानसो ‘‘अज्ज मे दानपारमी मत्थकं पापुणिस्सती’’ति हट्ठतुट्ठो गिरिं उन्नादेन्तो विय –