१०. ससपण्डितचरियावण्णना
१२५-६. दसमे यदा होमि, ससकोति अहं, सारिपुत्त, बोधिपरियेसनं चरमानो यदा ससपण्डितो होमि. बोधिसत्ता हि कम्मवसिप्पत्तापि तादिसानं तिरच्छानानं अनुग्गण्हनत्थं तिरच्छानयोनियं निब्बत्तन्ति. पवनचारकोति महावनचारी. दब्बादितिणानि रुक्खगच्छेसु पण्णानि यंकिञ्चि साकं रुक्खतो पतितफलानि च भक्खो एतस्साति तिणपण्णसाकफलभक्खो. परहेठनविवज्जितोति परपीळाविरहितो. सुत्तपोतो चाति उद्दपोतो च. अहं तदाति यदाहं ससको होमि, तदा एते मक्कटादयो तयो सहाये ओवदामि.
१२७. किरिये कल्याणपापकेति कुसले चेव अकुसले च कम्मे. पापानीति अनुसासनाकारदस्सनं. तत्थ पापानि परिवज्जेथाति पाणातिपातो…पे… मिच्छादिट्ठीति इमानि पापानि परिवज्जेथ. कल्याणे अभिनिविस्सथाति दानं सीलं…पे… दिट्ठुजुकम्मन्ति इदं कल्याणं, इमस्मिं कल्याणे अत्तनो कायवाचाचित्तानि अभिमुखभावेन निविस्सथ, इमं कल्याणपटिपत्तिं पटिपज्जथाति अत्थो.
एवं महासत्तो तिरच्छानयोनियं निब्बत्तोपि ञाणसम्पन्नताय कल्याणमित्तो हुत्वा तेसं तिण्णं जनानं कालेन कालं उपगतानं ओवादवसेन धम्मं देसेसि. ते तस्स ओवादं सम्पटिच्छित्वा अत्तनो वसनट्ठानं पविसित्वा वसन्ति. एवं काले गच्छन्ते बोधिसत्तो आकासं ओलोकेत्वा चन्दपारिपूरिं दिस्वा ‘‘उपोसथकम्मं करोथा’’ति ओवदि. तेनाह –
१२८. ‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितं;
एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो.
१२९. ‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे;
दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथ’’न्ति.
तत्थ चन्दं दिस्वा न पूरितन्ति जुण्हपक्खचातुद्दसियं ईसकं अपरिपुण्णभावेन चन्दं न परिपूरितं दिस्वा ततो विभाताय रत्तिया अरुणुग्गमनवेलायमेव उपोसथम्हि दिवसे पन्नरसे एतेसं मक्कटादीनं मय्हं सहायानं दिवसो अज्जुपोसथो. तस्मा ‘‘दानानि पटियादेथा’’तिआदिना तत्थ उपोसथदिवसे पटिपत्तिविधानं आचिक्खिन्ति योजेतब्बं. तत्थ दानानीति देय्यधम्मे. पटियादेथाति यथासत्ति यथाबलं सज्जेथ. दातवेति दातुं. उपवस्सथाति उपोसथकम्मं करोथ, उपोसथसीलानि रक्खथ, सीले पतिट्ठाय दिन्नदानं महप्फलं होति, तस्मा याचके सम्पत्ते तुम्हेहि खादितब्बाहारतो दत्वा खादेय्याथाति दस्सेति.
ते ‘‘साधू’’ति बोधिसत्तस्स ओवादं सिरसा सम्पटिच्छित्वा उपोसथङ्गानि अधिट्ठहिंसु. तेसु उद्दपोतो पातोव ‘‘गोचरं परियेसिस्सामी’’ति नदीतीरं गतो. अथेको बाळिसिको सत्त रोहितमच्छे उद्धरित्वा वल्लिया आवुणित्वा नदीतीरे वालुकाय पटिच्छादेत्वा मच्छे गण्हन्तो नदिया अधो सोतं भस्सि. उद्दो मच्छगन्धं घायित्वा वालुकं वियूहित्वा मच्छे दिस्वा नीहरित्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं घोसेत्वा सामिकं अपस्सन्तो वल्लियं डंसित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. सिङ्गालोपि गोचरं परियेसन्तो एकस्स खेत्तगोपकस्स कुटियं द्वे मंससूलानि एकं गोधं एकञ्च दधिवारकं दिस्वा ‘‘अत्थि नु खो एतेसं सामिको’’ति तिक्खत्तुं घोसेत्वा सामिकं अदिस्वा दधिवारकस्स उग्गहणरज्जुकं गीवायं पवेसेत्वा मंससूले च गोधञ्च मुखेन डंसित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. मक्कटोपि वनसण्डं पविसित्वा अम्बपिण्डं आहरित्वा अत्तनो वसनगुम्बे ठपेत्वा ‘‘वेलायमेव खादिस्सामी’’ति अत्तनो सीलं आवज्जेन्तो निपज्जि. तिण्णम्पि ‘‘अहो इध नून याचको आगच्छेय्या’’ति चित्तं उप्पज्जि. तेन वुत्तं –
१३०. ‘‘ते मे साधूति वत्वान, यथासत्ति यथाबलं;
दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसु’’न्ति.
बोधिसत्तो पन ‘‘वेलायमेव निक्खमित्वा दब्बादितिणानि खादिस्सामी’’ति अत्तनो वसनगुम्बेयेव निसिन्नो चिन्तेसि – ‘‘मम सन्तिकं आगतानं याचकानं तिणानि खादितुं न सक्का, तिलतण्डुलादयोपि मय्हं नत्थि, सचे मे सन्तिकं याचको आगमिस्सति, अहं तिणेन यापेमि, अत्तनो सरीरमंसं दस्सामी’’ति. तेनाह भगवा –
१३१. ‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवं;
यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति.
१३२. ‘‘न मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतं;
अहं तिणेन यापेमि, न सक्का तिण दातवे.
१३३. ‘‘यदि कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके;
दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सती’’ति.
तत्थ दानं दक्खिणनुच्छवन्ति दक्खिणाभावेन अनुच्छविकं दानं दक्खिणेय्यस्स दातब्बं देय्यधम्मं चिन्तेसिं. यदिहं लभेति यदि अहं किञ्चि दक्खिणेय्यं अज्ज लभेय्यं. किं मे दानं भविस्सतीति किं मम दातब्बं भविस्सति. न सक्का तिण दातवेति यदि दक्खिणेय्यस्स दातुं तिलमुग्गादिकं मय्हं नत्थि, यं पन मम आहारभूतं, तं न सक्का तिणं दक्खिणेय्यस्स दातुं. दज्जाहं सकमत्तानन्ति किं वा मय्हं एताय देय्यधम्मचिन्ताय, ननु इदमेव मय्हं अनवज्जं अपराधीनताय सुलभं परेसञ्च परिभोगारहं सरीरं सचे कोचि दक्खिणेय्यो मम सन्तिकं आगच्छति, तयिदं सकमत्तानं तस्स दज्जामहं. एवं सन्ते न सो तुच्छो मम सन्तिकं आगतो अरित्तहत्थो हुत्वा गमिस्सतीति.
एवं महापुरिसस्स यथाभूतसभावं परिवितक्केन्तस्स परिवितक्कानुभावेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सो आवज्जेन्तो इमं कारणं दिस्वा ‘‘ससराजं वीमंसिस्सामी’’ति पठमं उद्दस्स वसनट्ठानं गन्त्वा ब्राह्मणवेसेन अट्ठासि. तेन ‘‘किमत्थं, ब्राह्मण, ठितोसी’’ति च वुत्ते सचे कञ्चि आहारं लभेय्यं, उपोसथिको हुत्वा समणधम्मं करेय्यन्ति. सो ‘‘साधूति ते आहारं दस्सामी’’ति आह. तेन वुत्तं –
‘‘सत्त मे रोहिता मच्छा, उदका थलमुब्भता;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति. (जा. १.४.६१);
ब्राह्मणो ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति तथेव सिङ्गालस्स मक्कटस्स च सन्तिकं गन्त्वा तेहिपि अत्तनो विज्जमानेहि देय्यधम्मेहि निमन्तितो ‘‘पगेव ताव होतु, पच्छा जानिस्सामी’’ति आह. तेन वुत्तं –
‘‘दुस्स मे खेत्तपालस्स, रत्तिभत्तं अपाभतं;
मंससूला च द्वे गोधा, एकञ्च दधिवारकं;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति.
‘‘अम्बपक्कं दकं सीतं, सीतच्छाया मनोरमा;
इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा’’ति. (जा. १.४.६२-६३);
तत्थ दुस्साति अमुस्स. रत्तिभत्तं अपाभतन्ति रत्तिभोजनतो अपनीतं. मंससूला च द्वे गोधाति अङ्गारपक्कानि द्वे मंससूलानि एका च गोधा. दधिवारकन्ति दधिवारको.
१३४. अथ ब्राह्मणो ससपण्डितस्स सन्तिकं गतो. तेनापि ‘‘किमत्थमागतोसी’’ति वुत्ते तथेवाह. तेन वुत्तं ‘‘मम सङ्कप्पमञ्ञाया’’तिआदि.
तत्थ मम सङ्कप्पमञ्ञायाति पुब्बे वुत्तप्पकारं परिवितक्कं जानित्वा. ब्राह्मणवण्णिनाति ब्राह्मणरूपवता अत्तभावेन. आसयन्ति वसनगुम्बं.
१३५-७. सन्तुट्ठोति समं सब्बभागेनेव तुट्ठो. घासहेतूति आहारहेतु. अदिन्नपुब्बन्ति येहि केहिचि अबोधिसत्तेहि अदिन्नपुब्बं. दानवरन्ति उत्तमदानं. ‘‘अज्ज दस्सामि ते अह’’न्ति वत्वा तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनन्ति तं पाणातिपाततो अपनेत्वा इदानि तस्स परिभोगयोग्गं अत्तानं कत्वा दातुं ‘‘एहि अग्गिं पदीपेही’’तिआदिमाह.
तत्थ अहं पचिस्समत्तानन्ति तया कते अङ्गारगब्भे अहमेव पतित्वा अत्तानं पचिस्सं. पक्कं त्वं भक्खयिस्ससीति तथा पन पक्कं त्वं खादिस्ससि.
१३८-९. नानाकट्ठे समानयीति सो ब्राह्मणवेसधारी सक्को नानादारूनि समानेन्तो विय अहोसि. महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकन्ति वीतच्चिकं विगतधूमं अङ्गारभरितब्भन्तरं समन्ततो जलमानं मम सरीरस्स निमुज्जनप्पहोनकं तङ्खणञ्ञेव महन्तं चितकं अकासि, सहसा इद्धिया अभिनिम्मिनीति अधिप्पायो. तेनाह ‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महाभवे’’ति.
तत्थ सोति सो अग्गिक्खन्धो सीघं महन्तो यथा भवेय्य, तथा पदीपेसि. फोटेत्वा रजगते गत्तेति ‘‘सचे लोमन्तरेसु पाणका अत्थि, ते मा मरिंसू’’ति पंसुगते मम गत्ते तिक्खत्तुं विधुनित्वा. एकमन्तं उपाविसिन्ति न ताव कट्ठानि आदित्तानीति तेसं आदीपनं उदिक्खन्तो थोकं एकमन्तं निसीदिं.
१४०. यदा महाकट्ठपुञ्जो, आदित्तो धमधमायतीति यदा पन सो दारुरासि समन्ततो आदित्तो वायुवेगसमुद्धटानं जालसिखानं वसेन ‘‘धमधमा’’ति एवं करोति. तदुप्पतित्वा पतति, मज्झे जालसिखन्तरेति तदा तस्मिं काले ‘‘मम सरीरस्स झापनसमत्थो अयं अङ्गाररासी’’ति चिन्तेत्वा उप्पतित्वा उल्लङ्घित्वा जालसिखानं अब्भन्तरभूते तस्स अङ्गाररासिस्स मज्झे पदुमपुञ्जे राजहंसो विय पमुदितचित्तो सकलसरीरं दानमुखे दत्वा पतति.
१४१-२. पविट्ठं यस्स कस्सचीति यथा घम्मकाले सीतलं उदकं येन केनचि पविट्ठं तस्स दरथपरिळाहं वूपसमेति, अस्सादं पीतिञ्च उप्पादेति. तथेव जलितं अग्गिन्ति एवं तथा पज्जलितं अङ्गाररासि तदा मम पविट्ठस्स उसुममत्तम्पि नाहोसि. अञ्ञदत्थु दानपीतिया सब्बदरथपरिळाहवूपसमो एव अहोसि. चिरस्सं वत मे छविचम्मादिको सब्बो सरीरावयवो दानमुखे जुहितब्बतं उपगतो अभिपत्थितो मनोरथो मत्थकं पत्तोति. तेन वुत्तं –
१४३. ‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनं;
केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति.
तत्थ हदयबन्धनन्ति हदयमंसपेसि. तञ्हि हदयवत्थुं बन्धित्वा विय ठितत्ता ‘‘हदयबन्धन’’न्ति वुत्तं. अथ वा हदयबन्धनन्ति हदयञ्च बन्धनञ्च, हदयमंसञ्चेव तं बन्धित्वा विय ठितयकनमंसञ्चाति अत्थो. केवलं सकलं कायन्ति अनवसेसं सब्बं सरीरं.
एवं तस्मिं अग्गिम्हि अत्तनो सरीरे लोमकूपमत्तम्पि उण्हं कातुं असक्कोन्तो बोधिसत्तोपि हिमगब्भं पविट्ठो विय हुत्वा ब्राह्मणरूपधरं सक्कं एवमाह – ‘‘ब्राह्मण, तया कतो अग्गि अतिसीतलो, किं नामेत’’न्ति? पण्डित, नाहं ब्राह्मणो, सक्कोहमस्मि, तव वीमंसनत्थं आगतो एवमकासिन्ति. ‘‘सक्क, त्वं ताव तिट्ठतु, सकलोपि चे लोको मं दानेन वीमंसेय्य, नेव मे अदातुकामतं कथञ्चिपि उप्पादेय्य पस्सेथ न’’न्ति बोधिसत्तो सीहनादं नदि.
अथ नं सक्को ‘‘ससपण्डित, तव गुणा सकलकप्पम्पि पाकटा होन्तू’’ति पब्बतं पीळेत्वा पब्बतरसं आदाय चन्दमण्डले ससलक्खणं आलिखित्वा बोधिसत्तं तस्मिं वनसण्डे तत्थेव वनगुम्बे तरुणदब्बतिणपीठे निपज्जापेत्वा अत्तनो देवलोकमेव गतो. तेपि चत्तारो पण्डिता समग्गा सम्मोदमाना निच्चसीलं उपोसथसीलञ्च पूरेत्वा यथारहं पुञ्ञानि कत्वा यथाकम्मं गता.
तदा उद्दो आयस्मा आनन्दो अहोसि, सिङ्गालो महामोग्गल्लानो, मक्कटो सारिपुत्तो, ससपण्डितो पन लोकनाथो.
तस्स इधापि सीलादिपारमियो हेट्ठा वुत्तनयेनेव यथारहं निद्धारेतब्बा. तथा सतिपि तिरच्छानुपपत्तियं कुसलादिधम्मे कुसलादितो यथाभूतावबोधो, तेसु अणुमत्तम्पि वज्जं भयतो दिस्वा सुट्ठु अकुसलतो ओरमणं, सम्मदेव च कुसलधम्मेसु अत्तनो पतिट्ठापनं, परेसञ्च ‘‘इमे नाम पापधम्मा ते एवं गहिता एवं परामट्ठा एवंगतिका भवन्ति एवंअभिसम्पराया’’ति आदीनवं दस्सेत्वा ततो विरमणे नियोजनं, इदं दानं नाम, इदं सीलं नाम, इदं उपोसथकम्मं नाम, एत्थ पतिट्ठितानं देवमनुस्ससम्पत्तियो हत्थगता एवातिआदिना पुञ्ञकम्मेसु आनिसंसं दस्सेत्वा पतिट्ठापनं, अत्तनो सरीरजीवितनिरपेक्खं, परेसं सत्तानं अनुग्गण्हनं, उळारो च दानज्झासयोति एवमादयो इध बोधिसत्तस्स गुणानुभावा विभावेतब्बा. तेनेतं वुच्चति – ‘‘एवं अच्छरिया हेते…पे… धम्मस्स अनुधम्मतो’’ति.
ससपण्डितचरियावण्णना निट्ठिता.
इदानि ‘‘अकित्तिब्राह्मणो’’तिआदिना यथावुत्ते दसपि चरियाविसेसे उदानेत्वा निगमेति. तत्थ अहमेव तदा आसिं, यो ते दानवरे अदाति यो तानि उत्तमदानानि अदासि, सो अकित्तिब्राहणादिको अहमेव तदा तस्मिं काले अहोसिं, न अञ्ञोति. इति तेसु अत्तभावेसु सतिपि सीलादिपारमीनं यथारहं पूरितभावे अत्तनो पन तदा दानज्झासयस्स अतिविय उळारभावं सन्धाय दानपारमिवसेनेव देसनं आरोपेसि. एते दानपरिक्खारा, एते दानस्स पारमीति ये इमे अकित्तिजातकादीसु (जा. १.१३.८३ आदयो) अनेकाकारवोकारा मया पवत्तिता देय्यधम्मपरिच्चागा मम सरीरावयवपुत्तदारपरिच्चागा परमकोटिका, किञ्चापि ते करुणूपायकोसल्लपरिग्गहितत्ता सब्बञ्ञुतञ्ञाणमेव उद्दिस्स पवत्तितत्ता दानस्स परमुक्कंसगमनेन दानपारमी एव, तथापि मम दानस्स परमत्थपारमिभूतस्स परिक्खरणतोसन्तानस्स परिभावनावसेन अभिसङ्खरणतो एते दानपरिक्खारा नाम. यस्स पनेते परिक्खारा, तं दस्सेतुं ‘‘जीवितं याचके दत्वा, इमं पारमि पूरयि’’न्ति वुत्तं. एत्थ हि ठपेत्वा ससपण्डितचरियं सेसासु नवसु चरियासु यथारहं दानपारमिदानउपपारमियो वेदितब्बा, ससपण्डितचरिये (चरिया. १.१२५ आदयो) पन दानपरमत्थपारमी. तेन वुत्तं –
‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.तस्सुद्दान);
किञ्चापि हि महापुरिसस्स यथावुत्ते अकित्तिब्राह्मणादिकाले अञ्ञस्मिञ्च महाजनकमहासुतसोमादिकाले दानपारमिया पूरितत्तभावानं परिमाणं नाम नत्थि, तथापि एकन्तेनेव ससपण्डितकाले दानपारमिया परमत्थपारमिभावो विभावेतब्बोति.
परमत्थदीपनिया चरियापिटकसंवण्णनाय
दसविधचरियासङ्गहस्स विसेसतो
दानपारमिविभावनस्स
पठमवग्गस्स अत्थवण्णना निट्ठिता.