१. नसुत्तसाधनकथावण्णना

२९७. इदानि ‘‘अतीतं खन्धा’’तिआदिकथा होति. तत्थ खन्धादिभावाविजहनतो अतीतानागतानं अत्थितं इच्छन्तस्स अतीतं खन्धाति पुच्छा परवादिस्स, अतीतस्स खन्धसङ्गहितत्ता आमन्ताति पटिञ्ञा सकवादिस्स. पुन अतीतं नत्थीति पुच्छा परवादिस्स, तस्स निरुत्तिपथसुत्तेन अत्थिताय वारितत्ता पटिक्खेपो सकवादिस्स. आयतनधातुपुच्छासुपि अनागतपञ्हेसुपि पच्चुप्पन्नेन सद्धिं संसन्दित्वा अनुलोमपटिलोमतो आगतपञ्हेसुपि ‘‘अतीतं रूप’’न्तिआदिपञ्हेसुपि इमिनावुपायेन अत्थो वेदितब्बो.