५. संसट्ठवारवण्णना

३३८-३४६. संसट्ठवारे कुसलं धम्मं संसट्ठोति कुसलं धम्मं एकुप्पादादिलक्खणेन सम्पयोगट्ठेन पच्चयं कत्वाति अत्थो. कुसलं एकं खन्धं संसट्ठोति कुसलं एकं खन्धं सम्पयुत्तपच्चयं कत्वा तयो खन्धा उप्पज्जन्ति हेतुपच्चयाति वुत्तं होति. इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो. इमस्मिं पन हेतुपच्चये अरूपधम्मस्सेव सम्पयोगट्ठेन पच्चयं कत्वा तयो पञ्हा विस्सज्जिता. यथा च हेतुपच्चये, तथा आरम्मणपच्चयादीसुपि, केवलं विपाकपच्चये एकमेव विस्सज्जनं.

३४७-३५०. इदानि यथालद्धानि विस्सज्जनानि गणनवसेन दस्सेतुं हेतुया तीणीतिआदि वुत्तं. तत्थ सब्बतिकेसु कुसलेन कुसलं, अकुसलेन अकुसलं, अब्याकतेन अब्याकतन्ति अयमेव नियमो. एकके पन अब्याकतेन अब्याकतमेव लब्भतीति एवमेत्थ बावीसतिया पच्चयेसु तीणि, विपाके एकन्ति द्वे परिच्छेदा. पच्छाजाते अनुलोमं नत्थि. तस्मा तीणि एकन्ति इमेसञ्ञेव वसेन दुकतिकादीसु पच्चयसंसन्दने यत्थ विपाकपच्चयो पविसति; तत्थ एकं, सेसेसु तीणीति एवं गणना वेदितब्बा. सेसमेत्थ अनुलोमे उत्तानत्थमेव.

३५१-३५४. पच्चनीये पन कुसलं न लब्भतीति अकुसलमेव आदिं कत्वा विस्सज्जनं कतं, तं उत्तानत्थमेव.

३५९. यं पनेत्थ पच्चनीये विस्सज्जनपरिच्छेदं गणनतो दस्सेतुं नहेतुया द्वेतिआदि वुत्तं, तत्थ द्वे तीणि एकन्ति तयो परिच्छेदा. तेसं वसेन दुकतिकादीसु पच्चयसंसन्दने गणना वेदितब्बा. इधापि अधिकतरगणनानं ऊनतरगणनेन सद्धिं संसन्दने ऊनतरगणनमेव लब्भति, समगणनेन सद्धिं समगणनं. यस्मा चेत्थ अरूपधम्मायेव पच्चयुप्पन्ना, तस्मा नहेतुनाधिपतिनपुरेजातनपच्छाजातनासेवननकम्मनविपाकनझाननमग्गनविप्पयुत्तवसेन दसेव पच्चया पच्चनीकतो दस्सिता, सेसा चुद्दस न लब्भन्ति. येपि लब्भन्ति, तेसुपि विपाके पच्चयुप्पन्ने नकम्मनविपाका न लब्भन्ति.

३६०-३६८. नहेतुपच्चया नाधिपतिया द्वेति नहेतुया लद्धं द्वयमेव. सेसद्वयेसुपि एसेव नयो. नकम्मे एकन्ति अहेतुककिरियचेतनं पच्चयुप्पन्नं कत्वा अब्याकतेन अब्याकतं. नविपाके द्वेति अहेतुकमोहकिरियवसेन द्वे. नझाने एकन्ति अहेतुकपञ्चविञ्ञाणवसेन अब्याकतविस्सज्जनं वेदितब्बं. नमग्गे एकन्ति अहेतुकविपाककिरियवसेन अब्याकतविस्सज्जनं. इमिनावुपायेन सब्बसंसन्दनेसु अत्थो वेदितब्बोति.

३६९-३८३. अनुलोमपच्चनीये हेट्ठा वुत्ता नहेतुआदयो दसेव पच्चनीयतो लब्भन्ति, न सेसा. येपि लब्भन्ति, तेसु हेतुम्हि अनुलोमतो ठिते झानमग्गा पच्चनीयतो न लब्भन्तीति सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.

३८४-३९१. पच्चनीयानुलोमे नहेतुपच्चयुप्पन्नेसु अहेतुकमोहोव झानमग्गपच्चयं लभति, सेसा न लभन्ति. नझानपच्चये अट्ठाहेतुकचित्तानिपि. नकम्मपच्चया नहेतुपच्चया नाधिपतिपच्चया नपुरेजातपच्चया आरम्मणे एकन्ति आरुप्पे अहेतुककिरियचेतनावसेन अब्याकतेन अब्याकतं. इमिना उपायेन यं लब्भति, यञ्च न लब्भति, तस्स वसेन सब्बत्थ गणना वेदितब्बाति.

संसट्ठवारवण्णना.