६. सहजातपच्चयनिद्देसवण्णना
६. सहजातपच्चयनिद्देसे अञ्ञमञ्ञन्ति अञ्ञो अञ्ञस्स. इमिना एतेसं धम्मानं एकक्खणे पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च दीपेति. ओक्कन्तिक्खणेति पञ्चवोकारभवे पटिसन्धिक्खणे. तस्मिञ्हि खणे नामरूपं ओक्कन्तं विय पक्खन्दन्तं विय परलोकतो इमं लोकं आगन्त्वा पविसन्तं विय उप्पज्जति, तस्मा सो खणो ‘‘ओक्कन्तिक्खणो’’ति वुच्चति. एत्थ च रूपन्ति हदयवत्थुमत्तमेव अधिप्पेतं. तञ्हि नामस्स, नामञ्च तस्स अञ्ञमञ्ञं सहजातपच्चयट्ठं फरति. चित्तचेतसिकाति पवत्तियं चत्तारो खन्धा. सहजातपच्चयेनाति एत्थ चित्तसमुट्ठानरूपा चित्तचेतसिकानं पच्चयट्ठं न फरन्ति, तस्मा ‘‘अञ्ञमञ्ञ’’न्ति न वुत्तं. तथा उपादारूपा भूतानं. रूपिनो धम्मा अरूपीनं धम्मानन्ति हदयवत्थु चतुन्नं खन्धानं. किञ्चि कालेति किस्मिञ्चि काले. सहजातपच्चयेनाति पटिसन्धिं सन्धाय वुत्तं. न सहजातपच्चयेनाति पवत्तिं सन्धाय वुत्तं.
अयं पन ‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो’ति एवं छहि कोट्ठासेहि ठितो. तत्थ तयो कोट्ठासा अञ्ञमञ्ञवसेन वुत्ता, तयो न अञ्ञमञ्ञवसेन. तत्थ पठमकोट्ठासे अरूपमेव पच्चयो चेव पच्चयुप्पन्नञ्च, दुतिये रूपमेव, ततिये नामरूपं, चतुत्थे पच्चयो अरूपं, पच्चयुप्पन्नं रूपं; पञ्चमे पच्चयोपि पच्चयुप्पन्नम्पि रूपमेव; छट्ठे पच्चयो रूपं, पच्चयुप्पन्नं अरूपन्ति अयं तावेत्थ पाळिवण्णना.
अयं पन सहजातपच्चयो जातिवसेन कुसलो अकुसलो विपाको किरियं रूपन्ति पञ्चधा भिज्जति. तत्थ कुसलो भूमितो चतुब्बिधो होति, अकुसलो एकविधोव विपाको चतुब्बिधो, किरियसङ्खातो तिविधो, रूपं एकविधं कामावचरमेवाति एवं तावेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.
एवं भिन्ने पनेत्थ चतुभूमकम्पि कुसलं पञ्चवोकारभवे अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च सहजातपच्चयो होति, तथा अकुसलं. यं पनेत्थ अरूपे उप्पज्जति, तं अरूपधम्मानंयेव सहजातपच्चयो होति.
कामावचररूपावचरविपाकं चित्तसमुट्ठानरूपस्स चेव सम्पयुत्तधम्मानञ्च सहजातपच्चयो होति. यं पनेत्थ रूपं न समुट्ठापेति, तं सम्पयुत्तधम्मानञ्ञेव. यं पटिसन्धियं उप्पज्जति, तं कटत्तारूपानञ्चापि सहजातपच्चयो होति. अरूपावचरविपाकं सम्पयुत्तधम्मानञ्ञेव. लोकुत्तरविपाकं पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च, चतुवोकारे अरूपानञ्ञेव. कामावचरअरूपावचरकिरिया पञ्चवोकारे सम्पयुत्तकानञ्चेव चित्तसमुट्ठानरूपानञ्च सहजातपच्चयो होति, चतुवोकारे अरूपानञ्ञेव. रूपावचरकिरिया सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च एकन्तेन सहजातपच्चयो होति.
चतुसमुट्ठानिकस्स रूपस्स कम्मसमुट्ठानरूपे एकं महाभूतं तिण्णं, तीणि एकस्स, द्वे द्विन्नं महाभूतानं, महाभूता उपादारूपस्स सहजातपच्चयेन पच्चयो. कामावचररूपावचरपटिसन्धिक्खणे वत्थुरूपं विपाकक्खन्धानं सहजातपच्चयेन पच्चयो. उतुचित्ताहारसमुट्ठानेसु पन महाभूतानि अञ्ञमञ्ञञ्चेव उपादारूपस्स च सहजातपच्चयेन पच्चयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.
सहजातपच्चयनिद्देसवण्णना.