२२. नत्थिपच्चयनिद्देसवण्णना
२२. नत्थिपच्चयनिद्देसे समनन्तरनिरुद्धाति अञ्ञेन चित्तुप्पादेन अनन्तरिका हुत्वा समनन्तरनिरुद्धा. पटुप्पन्नानन्ति पच्चुप्पन्नानं. इमिना नत्थिपच्चयस्स ओकासदानट्ठेन नत्थिपच्चयभावं साधेति. पुरिमेसु हि निरोधवसेन पच्छिमानं पवत्तनोकासं अदेन्तेसु तेसं पटुप्पन्नभावो न सियाति अयमेत्थ पाळिवण्णना. सेसं सब्बं अनन्तरपच्चये वुत्तनयेनेव वेदितब्बं. पच्चयलक्खणमेव हेत्थ नानं, पच्चयानं पन पच्चयुप्पन्नानञ्च नानाकरणं नत्थि. केवलं पन तत्थ ‘‘चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया’’तिआदिना नयेन पच्चया च पच्चयुप्पन्ना च सरूपतो दस्सिता. इध पन ‘‘समनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मान’’न्ति सब्बेपि ते निरोधुप्पादवसेन सामञ्ञतो दस्सिताति.
नत्थिपच्चयनिद्देसवण्णना.