१०. पुरेजातपच्चयनिद्देसवण्णना

१०. पुरेजातपच्चयनिद्देसे पुरेजातपच्चयेन पच्चयोति एत्थ पुरेजातं नाम यस्स पच्चयो होति, ततो पुरिमतरं जातं जातिक्खणं अतिक्कमित्वा ठितिक्खणप्पत्तं. चक्खायतनन्तिआदि वत्थुपुरेजातवसेन वुत्तं. रूपायतनन्तिआदि आरम्मणपुरेजातवसेन. किञ्चिकाले पुरेजातपच्चयेनाति पवत्तिं सन्धाय वुत्तं. किञ्चिकाले न पुरेजातपच्चयेनाति पटिसन्धिं सन्धाय वुत्तं. एवं सब्बथापि पञ्चद्वारे वत्थारम्मणवसेन, मनोद्वारे वत्थुवसेनेवायं पाळि आगता, पञ्हावारे पन ‘‘आरम्मणपुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’ति आगतत्ता मनोद्वारेपि आरम्मणपुरेजातं लब्भतेव. इध पन सावसेसवसेन देसना कताति अयं तावेत्थ पाळिवण्णना.

अयं पन पुरेजातपच्चयो सुद्धरूपमेव होति. तञ्च खो उप्पादक्खणं अतिक्कमित्वा ठितिप्पत्तं अट्ठारसविधं रूपरूपमेव. तं सब्बम्पि वत्थुपुरेजातं आरम्मणपुरेजातन्ति द्विधा ठितं. तत्थ चक्खायतनं…पे… कायायतनं वत्थुरूपन्ति इदं वत्थुपुरेजातं नाम. सेसं इमाय पाळिया आगतञ्च अनागतञ्च वण्णो सद्दो गन्धो रसो चतस्सो धातुयो तीणि इन्द्रियानि कबळीकारो आहारोति द्वादसविधं रूपं आरम्मणपुरेजातपच्चयो नामाति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चक्खायतनं द्विन्नं चक्खुविञ्ञाणानं पुरेजातपच्चयेन पच्चयो, तथा इतरानि चत्तारि सोतविञ्ञाणादीनं. वत्थुरूपं पन ठपेत्वा द्विपञ्चविञ्ञाणानि चत्तारो च आरुप्पविपाके सेसानं सब्बेसम्पि चतुभूमकानं कुसलाकुसलाब्याकतानं चित्तचेतसिकानं पुरेजातपच्चयो होति. रूपादीनि पन पञ्चारम्मणानि द्विपञ्चविञ्ञाणानञ्चेव मनोधातूनञ्च एकन्तेनेव पुरेजातपच्चया होन्ति. अट्ठारसविधम्पि पनेतं रूपरूपं कामावचरकुसलस्स रूपावचरतो अभिञ्ञाकुसलस्स अकुसलस्स तदारम्मणभाविनो कामावचरविपाकस्स कामावचरकिरियस्स रूपावचरतो अभिञ्ञाकिरियस्साति इमेसं छन्नं रासीनं पुरेजातपच्चयो होतीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

पुरेजातपच्चयनिद्देसवण्णना.