२. पवत्तिवारवण्णना
३३-३४. पवत्तिवारे पनेत्थ पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये ‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अकुसला धम्मा उप्पज्जन्ति; यस्स वा पन अकुसला धम्मा उप्पज्जन्ति, तस्स कुसला धम्मा उप्पज्जन्ती’’ति कुसलधम्ममूलकानि द्वे यमकानि, अकुसलधम्ममूलकं एकन्ति तीणि यमकानि होन्ति. तस्स पटिलोमनयेपि ओकासवारादीसुपि एसेव नयो. एवमेत्थ सब्बवारेसु तिण्णं तिण्णं यमकानं वसेन यमकगणना वेदितब्बा. अत्थविनिच्छये पनेत्थ इदं लक्खणं – इमस्स हि धम्मयमकस्स पवत्तिमहावारे ‘‘उप्पज्जन्ति निरुज्झन्ती’’ति इमेसु उप्पादनिरोधेसु कुसलाकुसलधम्मा ताव एकन्तेन पवत्तियंयेव लब्भन्ति, न चुतिपटिसन्धीसु. अब्याकतधम्मा पन पवत्ते च चुतिपटिसन्धीसु चाति तीसुपि कालेसु लब्भन्ति. एवमेत्थ यं यत्थ यत्थ लब्भति, तस्स वसेन तत्थ तत्थ विनिच्छयो वेदितब्बो.
तत्रिदं नयमुखं – कुसलाकुसलानं ताव एकक्खणे अनुप्पज्जनतो ‘‘नो’’ति पटिसेधो कतो. अब्याकता चाति चित्तसमुट्ठानरूपवसेन वुत्तं.
३५-३६. यत्थ कुसला धम्मा नुप्पज्जन्तीति असञ्ञभवं सन्धाय वुत्तं. तेनेवेत्थ ‘‘आमन्ता’’ति विस्सज्जनं कतं. उप्पज्जन्तीति इदम्पि असञ्ञभवंयेव सन्धाय वुत्तं. अब्याकतानं पन अनुप्पत्तिट्ठानस्स अभावा ‘‘नत्थी’’ति पटिक्खेपो कतो.
४९. दुतिये अकुसलेति भवं अस्सादेत्वा उप्पन्नेसु निकन्तिजवनेसु दुतिये जवनचित्ते. दुतिये चित्ते वत्तमानेति पटिसन्धितो दुतिये भवङ्गचित्ते वत्तमाने सह वा पटिसन्धिया भवङ्गं विपाकवसेन एकमेव कत्वा भवनिकन्तिया आवज्जनचित्ते. तञ्हि किरियचित्तत्ता अब्याकतजातियं विपाकतो दुतियं नाम होति.
५७. यस्स चित्तस्स अनन्तरा अग्गमग्गन्ति गोत्रभुचित्तं सन्धाय वुत्तं. कुसला धम्मा उप्पज्जिस्सन्तीति ते अग्गमग्गधम्मेयेव सन्धाय वुत्तं.
७९. यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति, तस्स चित्तस्स उप्पादक्खणेति इदं चित्तजातिवसेन वुत्तं. तज्जातिकस्स हि एकावज्जनेन उप्पन्नस्स ततो ओरिमचित्तस्स उप्पादक्खणेपि एतं लक्खणं लब्भतेव.
९९. निरोधवारेपि कुसलाकुसलानं एकतो अनिरुज्झनतो ‘‘नो’’ति वुत्तं. इमिना नयमुखेन सब्बत्थ विनिच्छयो वेदितब्बोति.
धम्मयमकवण्णना निट्ठिता.