१. वादयुत्तिपरिहानिवण्णना
२३९. इदानि परिहानिकथा होति. परिहानिधम्मो अपरिहानिधम्मो, ‘‘द्वेमे, भिक्खवे, धम्मा सेक्खस्स, भिक्खुनो परिहानाय संवत्तन्ति’’ (अ. नि. २.१८५), ‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ती’’ति (अ. नि. ५.१४९) एवमादीनि हि सुत्तानि निस्साय सम्मितिया वज्जिपुत्तका सब्बत्थिवादिनो एकच्चे च महासङ्घिका अरहतोपि परिहानिं इच्छन्ति, तस्मा ते वा होन्तु अञ्ञेयेव वा, येसं अयं लद्धि, तेसं लद्धिभिन्दनत्थं परिहायति अरहा अरहत्ताति पुच्छा सकवादिस्स. तत्र परिहायतीति द्वे परिहानियो पत्तपरिहानि च अप्पत्तपरिहानि च. तत्थ ‘‘दुतियम्पि खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायी’’ति (सं. नि. १.१५९) अयं पत्तपरिहानि नाम. ‘‘मा वो सामञ्ञत्थिकानं सतं सामञ्ञत्थो परिहायी’’ति (म. नि. १.४१६-४१८) अयं अप्पत्तपरिहानि. तासु इध पत्तपरिहानि अधिप्पेता. तञ्हि सन्धाय आमन्ताति पटिञ्ञा परवादिस्स. सकसमये पन इमं पत्तपरिहानिं नाम लोकियसमापत्तियाव इच्छन्ति, न अरहत्तादीहि सामञ्ञफलेहि. परसमयेपि नं सब्बसामञ्ञफलेसु सब्बभवेसु सब्बकालेसु सब्बेसञ्च पुग्गलानं न इच्छन्ति. तं पन तेसं लद्धिमत्तमेवाति सब्बं लद्धिजालं भिन्दितुं पुन सब्बत्थातिआदिना नयेन देसना वड्ढिता.
तत्थ यस्मा परवादी कमेन परिहायित्वा सोतापत्तिफले ठितस्स अरहतो परिहानिं न इच्छति, उपरिफलेसु ठितस्सेव इच्छति. यस्मा च रूपारूपभवेसु ठितस्स न इच्छति, कम्मारामतादीनं पन परिहानियधम्मानं भावतो कामभवे ठितस्सेव इच्छति, तस्मा ‘‘सब्बत्था’’ति पुट्ठो पटिक्खिपति. पुन दळ्हं कत्वा पुट्ठो कामभवं सन्धाय पटिजानाति. सब्बस्मिम्पि हि कामभवे परिहानिकरा कामगुणा अत्थि, तस्मा तत्थ परिहायतीति तस्स लद्धि.
ततियपुच्छाय परिहानीति परिहानिकरे धम्मे पुच्छति. तत्थ यस्मा परिहानि नाम कम्मारामतादिधम्मा, विसेसतो वा कामरागब्यापादा एव, ते च रूपारूपभवे नत्थि, तस्मा ‘‘न हेव’’न्ति पटिक्खेपो परवादिस्स.
सब्बदाति कालपुच्छा. तत्थ पठमपञ्हे योनिसोमनसिकारकाले अपरिहायनतो पटिक्खिपति. दुतिये अयोनिसोमनसिकरोतो रत्तिभागे वा दिवसभागे वा सब्बदा परिहायनतो पटिजानाति. ततिये परिहानिकरधम्मसमायोगे सति मुहुत्तमेव परिहानि नाम होति, ततो पुब्बे अपरिहीनस्स पच्छा परिहीनस्स च परिहानि नाम नत्थीति पटिक्खिपति.
सब्बेव अरहन्तोति पञ्हानं पठमस्मिं तिक्खिन्द्रिये सन्धाय पटिक्खिपति. दुतियस्मिं मुदिन्द्रिये सन्धाय पटिजानाति. ततियस्मिम्पि तिक्खिन्द्रियाव अधिप्पेता. तेसञ्हि सब्बेसम्पि परिहानि न होतीति तस्स लद्धि.
सेट्ठिउदाहरणे पठमपुच्छा परवादिस्स, दुतिया सकवादिस्स. तत्रायं अधिप्पायो – यं मं तुम्हे पुच्छथ – ‘‘अरहा अरहत्ता परिहायन्तो चतूहि फलेहि परिहायती’’ति, तत्र वो पटिपुच्छामि – ‘‘चतूहि सतसहस्सेहि सेट्ठी सेट्ठित्तं करोन्तो सतसहस्सेहि परिहीने सेट्ठी सेट्ठित्ता परिहीनो होती’’ति. ततो सकवादिना एकदेसेन परिहानिं सन्धाय ‘‘आमन्ता’’ति वुत्ते सब्बसापतेय्या परिहीनो होतीति पुच्छति. तथा अपरिहीनत्ता सकवादी न हेवाति वत्वा अथ नं ‘‘एवमेव अरहापि परिहायति च. न च चतूहि फलेही’’ति उप्पन्नलद्धिकं दुतियं भब्बपञ्हं पुच्छति. परवादी सेट्ठिनो अभब्बताय नियमं अपस्सन्तो पटिजानित्वा अरहतो चतूहि फलेहि परिहानिभब्बतं पुट्ठो ‘‘नियतो सम्बोधिपरायणो’’ति (अ. नि. ३.८७) वचनस्स अयोनिसो अत्थं गहेत्वा लद्धियं ठितो सोतापत्तिफलतो परिहायितुं अभब्बतं सन्धाय पटिक्खिपति. तं पनस्स लद्धिमत्तमेवाति.
एत्तावता वादयुत्ति नाम निट्ठिता होति.