८. अब्याकतकथावण्णना
९०१-९०२. इदानि अब्याकतकथा नाम होति. तत्थ ‘‘अत्थेसा, भिक्खवे, चेतना, सा च खो अब्बोहारिका’’ति (पारा. २३५) वचनतो ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानञ्ञेव, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ यथा पाळिमेव निय्याति. सुपिनगतस्स चित्तं अब्बोहारिकन्ति इदं आपत्तिं सन्धाय वुत्तं. सुपिनगतस्स हि पाणातिपातादिवसेन किञ्चापि अकुसलचित्तं पवत्तति, वत्थुविकोपनं पन नत्थीति न सक्का तत्थ आपत्तिं पञ्ञपेतुं. इमिना कारणेन तं अब्बोहारिकं, न अब्याकतत्ताति.
अब्याकतकथावण्णना.