५-७. तिस्सोपिकथावण्णना
८९८-९००. इदानि तिस्सोपिकथा नाम होन्ति. तत्थ अचिरजातानं पन सोतापन्नानं अरहत्तप्पत्तिं सुप्पवासाय च उपासिकाय सत्तवस्सिकं गब्भं दिस्वा ‘‘अत्थि गब्भसेय्याय अरहत्तप्पत्ती’’ति च सुपिने आकासगमनादीनि दिस्वा ‘‘अत्थि धम्माभिसमयो’’ति च ‘‘अत्थि तत्थ अरहत्तप्पत्ती’’ति च इधापि येसं लद्धियो, सेय्यथापि तेसञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ पुरिमकथा सदिसमेवाति.
तिस्सोपिकथावण्णना.