४. इद्धिकथावण्णना

८८३-८८४. इदानि इद्धिकथा नाम होति. तत्थ इद्धि नामेसा कत्थचि इज्झति, कत्थचि न इज्झति, अनिच्चादीनं निच्चादिकरणे एकन्तेनेव न इज्झति. सभागसन्ततिं पन परिवत्तेत्वा विसभागसन्ततिकरणे वा सभागसन्ततिवसेनेव चिरतरप्पवत्तने वा येसं अत्थाय करियति, तेसं पुञ्ञादीनि कारणानि निस्साय कत्थचि इज्झति, भिक्खूनं अत्थाय पानीयस्स सप्पिखीरादिकरणे विय महाधातुनिधाने दीपादीनं चिरसन्तानप्पवत्तने विय चाति इदं सकसमये सन्निट्ठानं. यं पन आयस्मा पिलिन्दवच्छो रञ्ञो पासादं सुवण्णन्त्वेव अधिमुच्चि, तं निस्साय येसं ‘‘अत्थि अधिप्पायइद्धी’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अत्थि अधिप्पायइद्धीति पुच्छा सकवादिस्स. तत्थ अधिप्पायइद्धीति अधिप्पायइद्धि, यथाधिप्पायं इज्झनइद्धीति अत्थो. आमन्ताति लद्धिमत्ते ठत्वा पटिञ्ञा परवादिस्स. अथ नं अनिच्चादीनं निच्चादिताय अनुयुञ्जितुं निच्चपण्णा रुक्खा होन्तूतिआदिमाह. सेसमेत्थ उत्तानत्थमेव. लद्धिपतिट्ठापने सुवण्णो च पनासीति रञ्ञो पुञ्ञूपनिस्सयेन आसि, न केवलं थेरस्स अधिप्पायेनेव. तस्मा असाधकमेतन्ति.

इद्धिकथावण्णना.