१. सासनकथावण्णना
८७८. इदानि सासनकथा नाम होति. तत्थ तिस्सो सङ्गीतियो सन्धाय ‘‘सासनं नवं कत’’न्ति च ‘‘अत्थि कोचि तथागतस्स सासनं नवं करोती’’ति च ‘‘लब्भा तथागतस्स सासनं नवं कातु’’न्ति च येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं; ते सन्धाय तीसुपि कथासु पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सतिपट्ठानातिआदि सासनं नाम सतिपट्ठानादयो चेव अरियधम्मा, कुसलादीनञ्च देसना. तत्थ येसं भगवता देसिता सतिपट्ठानादयो, ठपेत्वा ते अञ्ञेसं वा सतिपट्ठानादीनं करणेन अकुसलादीनं वा कुसलादिभावकरणेन सासनं नवंकतं नाम भवेय्य, किं तं एवं कतं केनचि, अत्थि वा कोचि एवं करोति, लब्भा वा एवं कातुन्ति तीसुपि पुच्छासु चोदनत्थं वुत्तं. सेसं सब्बत्थ यथापाळिमेव निय्यातीति.
सासनकथावण्णना.