५. मग्गकथावण्णना
८७२-८७५. इदानि मग्गकथा नाम होति. तत्थ येसं ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (अ. नि. ३.४३१) इदञ्चेव सुत्तं सम्मावाचाकम्मन्ताजीवानञ्च चित्तविप्पयुत्ततं निस्साय ‘‘निप्परियायेन पञ्चङ्गिकोव मग्गो’’ति लद्धि, सेय्यथापि महिसासकानं, ते सन्धाय पञ्चङ्गिकोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सम्मावाचा मग्गङ्गं, सा च न मग्गोतिआदि परसमयवसेन वुत्तं. परसमयस्मिञ्हि सम्मावाचादयो मग्गङ्गन्ति आगता. रूपत्ता पन मग्गो न होतीति वण्णिता. सम्मादिट्ठि मग्गङ्गन्तिआदि मग्गङ्गस्स अमग्गता नाम नत्थीति दस्सनत्थं वुत्तं. पुब्बेव खो पनस्साति सुत्ते परिसुद्धसीलस्स मग्गभावना नाम होति, न इतरस्साति आगमनियपटिपदाय विसुद्धिभावदस्सनत्थं ‘‘कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति वुत्तं, न इमेहि विना पञ्चङ्गिकभावदस्सनत्थं. तेनेवाह ‘‘एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति. सकवादिना आभतसुत्तं नीतत्थमेवाति.
मग्गकथावण्णना.