४. तिरच्छानकथावण्णना
८६९-८७१. इदानि तिरच्छानकथा नाम होति. तत्थ देवेसु एरावणादयो देवपुत्ता हत्थिवण्णं अस्सवण्णं विकुब्बन्ति, नत्थि तत्थ तिरच्छानगता. येसं पन तिरच्छानवण्णिनो देवपुत्ते दिस्वा ‘‘अत्थि देवेसु तिरच्छानगता’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि देवयोनियं तिरच्छानगता सियुं, तिरच्छानयोनियम्पि देवा सियु’’न्ति चोदेतुं अत्थि तिरच्छानगतेसूतिआदिमाह. कीटातिआदि येसं सो अभावं इच्छति, ते दस्सेतुं वुत्तं. एरावणोति पञ्हे तस्स अत्थिताय पटिञ्ञा सकवादिस्स, न तिरच्छानगतस्स. हत्थिबन्धातिआदि ‘‘यदि तत्थ हत्थिआदयो सियुं, हत्थिबन्धादयोपि सियु’’न्ति चोदनत्थं वुत्तं. तत्थ यावसिकाति यवस्स दायका. कारणिकाति हत्थाचरियादयो, येहि ते नानाविधं कारणं करेय्युं. भत्तकारकाति हत्थिआदीनं भत्तरन्धका. न हेवन्ति तथा अनिच्छन्तो पटिक्खिपतीति.
तिरच्छानकथावण्णना.