३. निरयपालकथावण्णना
८६६. इदानि निरयपालकथा नाम होति. तत्थ ‘‘निरये नेरयिककम्मानेव निरयपालरूपवसेन वधेन्ति, नत्थि निरयपाला नाम सत्ता’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि तत्थ निरयपाला न सियुं, कम्मकारणापि न भवेय्युं. कारणिकेसु हि सति कारणा’’ति चोदेतुं नत्थि निरयेसूतिआदिमाह.
८६७-८६८. अत्थि मनुस्सेसूति पच्चक्खेन ञापनत्थं. यथा हि मनुस्सेसु सति कारणिकेसु कारणा, एवं तत्थापीति अयमेत्थ अधिप्पायो. अत्थि निरयेसूति पुच्छा परवादिस्स, पटिञ्ञा इतरस्स. न वेस्सभू नोपि च पेत्तिराजाति परवादिना सकसमयतो सुत्तं आभतं. तं पन सासनावचरिकन्ति सकवादिना अनुञ्ञातं. तत्थ वेस्सभूति एको देवो. पेत्तिराजाति पेत्तिविसये पेतमहिद्धिको. सोमादयो पाकटा एव. इदं वुत्तं होति – अत्तनो कम्मेहि इतो पणुन्नं परलोकं पत्तं पुरिसं न एते वेस्सभूआदयो हनन्ति. येहि पन सो कम्मेहि तत्थ पणुन्नो, तानि सकानि कम्मानियेव नं तत्थ हनन्तीति कम्मस्सकतं दीपेति, न निरयपालानं अभावं. सकवादिना पन तमेनं, भिक्खवेति आभतानि सुत्तपदानि नीतत्थानेवाति.
निरयपालकथावण्णना.