८. लक्खणयुत्तिवण्णना
५३. इदानि लक्खणयुत्ति नाम होति. तत्थ यस्मा ठपेत्वा निब्बानं सेसो सच्चिकट्ठपरमत्थो पच्चयपटिबद्धताय सप्पच्चयो, पच्चयेहि समागम्म कतत्ता सङ्खतो, उप्पज्जित्वा निरुज्झनतो सदा अभावतो असस्सतो, उप्पत्तिकारणसङ्खातस्स निमित्तस्स अत्थिताय सनिमित्तो, निब्बानं वुत्तप्पकाराभावतो अप्पच्चयं असङ्खतं सस्सतं अनिमित्तन्ति इदं सच्चिकट्ठस्स लक्खणं. तस्मा यदि पुग्गलोपि सच्चिकट्ठपरमत्थोव तस्सापि इमिना लक्खणेन भवितब्बन्ति सन्धाय पुग्गलो सप्पच्चयोतिआदयो अट्ठपि अनुयोगा सकवादिस्स, पटिक्खेपो परवादिस्स. आजानाहि निग्गहन्तिआदि पनेत्थ सङ्खित्तं. एवमेतानि सकवादीपक्खे अनुलोमपच्चनीके अनुलोममत्तवसेन अट्ठ पञ्चकानि वेदितब्बानि.
५४. परवादीपक्खेपि पच्चनीकानुलोमे पच्चनीकमत्तवसेन अट्ठेव. तत्थ यस्मा परवादिना सुत्तवसेन सम्मुतिसच्चं साधितं, सम्मुतिया च सप्पच्चयादिभावो नत्थि, तस्मा याथावतो च पटिक्खेपो सकवादिस्स. छलवसेन पन वत्तब्बं ‘‘आजानाहि पटिकम्म’’न्तिआदि सब्बं इधापि सङ्खित्तमेव.
लक्खणयुत्तिकथावण्णना निट्ठिता.