७. रूपं कुसलाकुसलन्तिकथावण्णना

७६०-७६४. इदानि रूपं कुसलाकुसलन्तिकथा नाम होति. तत्थ ‘‘कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पी’’तिवचनं निस्साय कायवचीकम्मसङ्खातं कायविञ्ञत्तिवचीविञ्ञत्तिरूपं कुसलम्पि अकुसलम्पीति येसं लद्धि, सेय्यथापि महिसासकानञ्चेव सम्मितियानञ्च; ते सन्धाय रूपं कुसलन्ति पुच्छा सकवादिस्स पटिञ्ञा इतरस्स. अथ नं ‘‘यदि ते रूपं कुसलं, एवंविधेन अनेन भवितब्ब’’न्ति चोदेतुं सारम्मणन्ति आदिमाह. परतो अकुसलपञ्हेपि एसेव नयो. सेसमेत्थ उत्तानत्थमेवाति.

रूपं कुसलाकुसलन्तिकथावण्णना.