४. अधिगय्हमनसिकारकथावण्णना
७४९-७५३. इदानि अधिगय्ह मनसिकारकथा नाम होति. तत्थ दुविधो मनसिकारो नयतो च आरम्मणतो च. तत्थ एकसङ्खारस्सापि अनिच्चताय दिट्ठाय सब्बे सङ्खारा अनिच्चाति अवसेसेसु नयतो मनसिकारो होति. अतीते पन सङ्खारे मनसिकरोन्तो न अनागते मनसिकातुं सक्कोति. अतीतादीसु अञ्ञतरं मनसिकरोतो आरम्मणतो मनसिकारो होति. तत्थ पच्चुप्पन्ने मनसिकरोन्तो येन चित्तेन ते मनसिकरोति, तं पच्चुप्पन्नक्खणे मनसिकातुं न सक्कोति. तत्थ येसं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिवचनं निस्साय ‘‘मनसिकरोन्तो नाम अधिगय्ह अधिगण्हित्वा सङ्गण्हित्वा सब्बे सङ्खारे एकतो मनसिकरोती’’ति लद्धि, सेय्यथापि पुब्बसेलियापरसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.
अथ नं यस्मा सब्बे एकतो मनसिकरोन्तेन येन चित्तेन ते मनसिकरोति, तम्पि मनसिकातब्बं होति. तस्मा तंचित्तताय चोदेतुं तेन चित्तेनाति आह. इतरो आरम्मणं कत्वा न सक्का जानितुन्ति सन्धाय पटिक्खिपति. एवंलक्खणं चित्तन्ति ञातत्ता पन तम्पि चित्तं ञातमेव होतीति सन्धाय पटिजानाति. अथ वा तञ्ञेव तस्स आरम्मणं न होतीति पटिक्खिपति. ‘‘सब्बे सङ्खारा अनिच्चा, यदा पञ्ञाय पस्सती’’तिआदीनि निस्साय उप्पन्नलद्धिवसेन पटिजानाति. सेसपञ्हद्वयेपि एसेव नयो. तेन फस्सेनातिआदीसु पन तथारूपं सुत्तं अपस्सन्तो पटिक्खिपतेव. अतीतादिपञ्हेसु हेट्ठा वुत्तनयेनेव पटिक्खेपपटिञ्ञा वेदितब्बा. सेसं यथापाळिमेव निय्यातीति. सब्बे सङ्खारातिआदिवचनं नयतो दस्सनं सन्धाय वुत्तं, न एकक्खणे आरम्मणतो, तस्मा असाधकन्ति.
अधिगय्हमनसिकारकथावण्णना.