५. अञ्ञो अनुसयोतिकथावण्णना
७००-७०१. इदानि अञ्ञो अनुसयोतिकथा नाम होति. तत्थ यस्मा पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने सानुसयोति वत्तब्बो, न परियुट्ठितोति तस्मा अञ्ञो अनुसयो, अञ्ञं परियुट्ठानन्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अञ्ञो कामरागानुसयोति पुच्छा सकवादिस्स पटिञ्ञा इतरस्स. सेसं हेट्ठा अनुसयकथायं वुत्तनयेनेव वेदितब्बं. सानुसयोतिआदि पन तस्मिं समये अनुसयस्स अप्पहीनत्ता सानुसयोति वत्तब्बतं, अनुप्पन्नत्ता च परियुट्ठितोति अवत्तब्बतं दीपेति, न अनुसयपरियुट्ठानानं अञ्ञत्तं, तस्मा असाधकन्ति.
अञ्ञो अनुसयोतिकथावण्णना.