४. अरियरूपकथावण्णना

६९८-६९९. इदानि अरियरूपकथा नाम होति. तत्थ सम्मावाचाकम्मन्ता रूपं, तञ्च खो ‘‘सब्बं रूपं चत्तारि च महाभूतानि चतुन्नञ्च महाभूतानं उपादायरूप’’न्ति (म. नि. ३.६७) वचनतो उपादायरूपन्ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय अरियरूपं महाभूतानं उपादायाति पुच्छा सकवादिस्स. तत्थ अरियानं रूपं, अरियं वा रूपन्ति अरियरूपं. आमन्ताति लद्धियं ठत्वा पटिञ्ञा इतरस्स. कुसलन्ति पुट्ठो लद्धिवसेनेव पटिजानाति. अनासवपुच्छादीसुपि एसेव नयो. यं किञ्चि रूपन्ति सुत्तं ठपेत्वा भूतानि सेसरूपस्स उपादाभावं दीपेति, न सम्मावाचाकम्मन्तानं. तेसञ्हि रूपमत्तञ्ञेव असिद्धं, कुतो उपादारूपता; तस्मा असाधकन्ति.

अरियरूपकथावण्णना.