३. अनन्तरपच्चयकथावण्णना

६९३-६९७. इदानि अनन्तरपच्चयकथा नाम होति. तत्थ नच्चगीतादीसु रूपदस्सनसद्दसवनादीनं लहुपरिवत्तितं दिस्वा ‘‘इमानि विञ्ञाणानि अञ्ञमञ्ञस्स अनन्तरा उप्पज्जन्ती’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय चक्खुविञ्ञाणस्साति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सोतविञ्ञाणं रूपारम्मणंयेवाति यदि चक्खुविञ्ञाणस्स अनन्तरा उप्पज्जेय्य, विपाकमनोधातु विय रूपारम्मणं सियाति चोदेतुं वुत्तं. चक्खुञ्च पटिच्च रूपे च उप्पज्जति सोतविञ्ञाणन्ति पञ्हेसु सुत्ताभावेन पटिक्खिपित्वा अनन्तरुप्पत्तिं सल्लक्खेन्तो लद्धिवसेन पटिजानाति. तञ्ञेव चक्खुविञ्ञाणं तं सोतविञ्ञाणन्ति यथा पठमजवनानन्तरं दुतियजवनं मनोविञ्ञाणभावेन तञ्ञेव होति, किं ते तथा एतम्पि द्वयं एकमेवाति पुच्छति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो. नच्चति गायतीतिआदिवचनं आरम्मणसमोधाने लहुपरिवत्तिताय वोकिण्णभावं दीपेति, न अनन्तरपच्चयतं, तस्मा असाधकन्ति.

अनन्तरपच्चयकथावण्णना.