१. कुसलाकुसलपटिसन्दहनकथावण्णना
६८६-६९०. इदानि कुसलाकुसलपटिसन्दहनकथा नाम होति. तत्थ कुसलं वा अकुसलस्स, अकुसलं वा कुसलस्स अनन्तरा उप्पज्जनकं नाम नत्थीति तेसं अञ्ञमञ्ञं पटिसन्धानं न युज्जति. ये पन यस्मा एकवत्थुस्मिञ्ञेव रज्जति विरज्जति च, तस्मा तं अञ्ञमञ्ञं पटिसन्दहतीति लद्धिं गहेत्वा ठिता, सेय्यथापि महासङ्घिका; ते सन्धाय पुच्छा सकवादिस्स; पटिञ्ञा इतरस्स. आवट्टना पणिधीति उभयं आवज्जनस्सेव नामं. तञ्हि भवङ्गं आवट्टेतीति आवट्टना. भवङ्गारम्मणतो अञ्ञस्मिं आरम्मणे चित्तं पणिदहति ठपेतीति पणिधि. कुसलं अनावट्टेन्तस्साति यं तं अकुसलानन्तरं पटिसन्दहन्तं कुसलं उप्पज्जति, तं अनावट्टेन्तस्स उप्पज्जतीति पुच्छति. इतरो पन विना आवज्जनेन कुसलस्स उप्पत्तिं अपस्सन्तो पटिक्खिपति. कुसलं अयोनिसो मनसिकरोतोति इदं यदि अकुसलानन्तरं कुसलं उप्पज्जेय्य, अकुसलस्सेव आवज्जनेन अयोनिसो मनसिकरोतो उप्पज्जेय्याति चोदनत्थं वुत्तं. सेसं यथापाळिमेव निय्याति. ननु यस्मिंयेव वत्थुस्मिन्ति वचनं एकारम्मणे सरागविरागुप्पत्तिं दीपेति, न कुसलाकुसलानं अनन्तरतं, तस्मा असाधकन्ति.
कुसलाकुसलपटिसन्दहनकथावण्णना.