१. कप्पट्ठकथावण्णना
६५४-६५७. इदानि कप्पट्ठकथा नाम होति. तत्थ येसं ‘‘सङ्घं समग्गं भेत्वान, कप्पं निरयम्हि पच्चती’’ति ‘‘सकलम्पि कप्पं सङ्घभेदको निरये तिट्ठती’’ति लद्धि, सेय्यथापि राजगिरिकानं; ते सन्धाय कप्पट्ठोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. बुद्धो च लोकेति इदं विना बुद्धुप्पादेन सङ्घभेदस्स अभावदस्सनत्थं वुत्तं. कप्पो च सण्ठाति सङ्घो च भिज्जतीतिआदि ‘‘यदि सो सकलं कप्पं तिट्ठति, सण्ठहनतो पट्ठाय तं कम्मं कत्वा तत्थ उप्पज्जित्वा तिट्ठेय्या’’ति दस्सेतुं वुत्तं. अतीतन्तिआदि हेट्ठा वुत्ताधिप्पायमेव. कप्पट्ठो इद्धिमाति पञ्हे भावनामयं सन्धाय पटिक्खिपति, परसमये पनस्स जातिमयं इद्धिं इच्छन्ति, तं सन्धाय पटिजानाति. छन्दिद्धिपादोतिआदि ‘‘जातिमयाय इद्धिया इद्धिमाति लद्धिमत्तमेतं, किं तेन, यदि पनस्स इद्धि अत्थि, इमिना नयेन इद्धिपादा भाविता भवेय्यु’’न्ति चोदनत्थं वुत्तं. आपायिको नेरयिकोति सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्तं, तस्मा असाधकन्ति.
कप्पट्ठकथावण्णना.