५. सत्तक्खत्तुपरमकथावण्णना
५४१-५४५. इदानि सत्तक्खत्तुपरमकथा नाम होति, तत्थ यस्मा ‘‘सत्तक्खत्तुपरमो’’ति वुत्तं, तस्मा ‘‘सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमताय नियतो’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; तेसं ठपेत्वा ‘‘अरियमग्गं अञ्ञो तस्स नियमो नत्थि, येन सो सत्तक्खत्तुपरमताय नियतो भवेय्या’’ति इमं विभागं दस्सेतुं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.
माता जीवितातिआदीसु अयमधिप्पायो – द्वे नियामा सम्मत्तनियामो च मिच्छत्तनियामो च. सम्मत्तनियामो अरियमग्गो. सो अविनिपातधम्मतञ्चेव फलुप्पत्तिञ्च नियमेति. मिच्छत्तनियामो आनन्तरियकम्मं. तं अनन्तरा निरयूपपत्तिं नियमेति. तत्थ सत्तक्खत्तुपरमो सोतापत्तिमग्गेन अविनिपातधम्मताय च फलुप्पत्तिया च नियमितो. सेसमग्गनियामो पनस्स नत्थि अनधिगतत्ता, आनन्तरियम्पि कातुं सो अभब्बो. त्वं पनस्स नियामं इच्छसि, तेन तं वदाम – ‘‘किं ते सो इमिना मिच्छत्तनियामेन नियमितो’’ति.
अभब्बो अन्तराति पञ्हेसु आनन्तरियाभावं सन्धाय पटिक्खिपति, सत्तक्खत्तुपरमं सन्धाय पटिजानाति. अत्थि सो नियामोति पञ्हे सत्तक्खत्तुपरमताय नियामं अपस्सन्तो पटिक्खिपति. अत्थि ते सतिपट्ठानातिआदि नियामसङ्खाते मग्गधम्मे दस्सेतुं वुत्तं. तस्स पन पुन पठममग्गानुप्पत्तितो तेपि नत्थि, तस्मा पटिक्खिपति. सेसमेत्थ उत्तानत्थमेव. ननु सो सत्तक्खत्तुपरमोति एत्थ भगवा ‘‘अयं पुग्गलो एत्तके भवे सन्धावित्वा परिनिब्बायिस्सति, अयं एत्तके’’ति अत्तनो ञाणबलेन ब्याकरोति, न भवनियामं नाम किञ्चि तेन सत्तक्खत्तुपरमो, कोलंकोलो, एकबीजी वाति वुत्तं, तस्मा असाधकमेतन्ति.
सत्तक्खत्तुपरमकथावण्णना.
६४६-६४७. कोलंकोलएकबीजिकथायोपि इमिनावुपायेन वेदितब्बा.
कोलंकोलएकबीजिकथावण्णना.