१. संवरो कम्मन्तिकथावण्णना

६३०-६३२. इदानि संवरो कम्मन्तिकथा नाम होति. तत्थ ‘‘चक्खुना रूपं दिस्वा निमित्तग्गाही होति, न निमित्तग्गाही होती’’ति सुत्तं निस्साय ‘‘संवरोपि असंवरोपि कम्म’’न्ति येसं लद्धि, सेय्यथापि महासंघिकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.

अथ नं या सकसमये चेतना ‘‘कम्म’’न्ति वुत्ता यथा सा कायवचीमनोद्वारेसु पवत्तमाना कायकम्मादिनामं लभति, तथा ‘‘यदि ते संवरो कम्मं, सोपि चक्खुन्द्रियादीसु पवत्तमानो चक्खुकम्मादिनामं लभेय्या’’ति चोदेतुं चक्खुन्द्रियसंवरो चक्खुकम्मन्तिआदिमाह. इतरो तादिसं सुत्तपदं अपस्सन्तो चतूसु द्वारेसु पटिक्खिपित्वा पञ्चमे कायद्वारे पसादकायं सन्धाय पटिक्खिपति, विञ्ञत्तिकायं सन्धाय पटिजानाति. सो हि पसादकायम्पि विञ्ञत्तिकायम्पि कायिन्द्रियन्त्वेव इच्छति. मनोद्वारेपि विपाकद्वारं सन्धाय पटिक्खिपति, कम्मद्वारं सन्धाय पटिजानाति. असंवरेपि एसेव नयो. ‘‘चक्खुना रूपं दिस्वा’’ति सुत्तं तेसु द्वारेसु संवरासंवरमेव दीपेति, न तस्स कम्मभावं, तस्मा असाधकन्ति.

संवरो कम्मन्तिकथावण्णना.