९. धम्मट्ठितताकथावण्णना

६२७. इदानि धम्मट्ठितताकथा नाम होति. तत्थ ‘‘ठिताव सा धातू’’ति वचनं निस्साय ‘‘पटिच्चसमुप्पादसङ्खाता धम्मट्ठितता नाम एका अत्थि, सा च परिनिप्फन्ना’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि परिनिप्फन्नानं अविज्जादीनं अञ्ञा धम्मट्ठितता नाम परिनिप्फन्ना अत्थि, तायपि च ते धम्मट्ठितताय अञ्ञा ठितता परिनिप्फन्ना आपज्जती’’ति चोदेतुं ताय ठिततातिआदिमाह. परवादी एवरूपाय लद्धिया अभावेन पटिक्खिपति. दुतियं पुट्ठो अनन्तरपच्चयतञ्चेव अञ्ञमञ्ञपच्चयतञ्च सन्धाय पटिजानाति. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.

धम्मट्ठितताकथावण्णना.