१०. अनिच्चताकथावण्णना
६२८. इदानि अनिच्चताकथा नाम होति. तत्थ ‘‘अनिच्चानं रूपादीनं अनिच्चतापि रूपादयो विय परिनिप्फन्ना’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि ते रूपादयो विय अनिच्चता परिनिप्फन्ना, तस्सापि अञ्ञाय परिनिप्फन्नाय अनिच्चताय भवितब्ब’’न्ति चोदेतुं ताय अनिच्चतायातिआदिमाह. इतरो द्विन्नं अनिच्चताय एकतो अभावेन पटिक्खिपित्वा पुन यस्मा सा अनिच्चता निच्चा न होति, तेनेव अनिच्चेन सद्धिं अन्तरधायति, तस्मा पटिजानाति. अथस्स सकवादी लेसोकासं अदत्वा या तेन दुतिया अनिच्चता पटिञ्ञाता, तायपि ततो परायपीति परम्परवसेन अनुपच्छेददोसं आरोपेन्तो ताय तायेवातिआदिमाह. जरा परिनिप्फन्नातिआदि यस्मा उप्पन्नस्स जरामरणतो अञ्ञा अनिच्चता नाम नत्थि, तस्मा अनिच्चताविभागानुयुञ्जनवसेन वुत्तं. तत्रापि परवादिनो पुरिमनयेनेव पटिञ्ञा च पटिक्खेपो च वेदितब्बो.
६२९. रूपं परिनिप्फन्नन्तिआदि येसं सा अनिच्चता, तेहि सद्धिं संसन्दनत्थं वुत्तं. तत्थ ‘‘यथा परिनिप्फन्नानं रूपादीनं अनिच्चताजरामरणानि अत्थि, एवं परिनिप्फन्नानं अनिच्चतादीनं तानि नत्थी’’ति मञ्ञमानो एकन्तेन पटिक्खिपतियेवाति.
अनिच्चताकथावण्णना.
एकादसमो वग्गो.