८. समाधिकथावण्णना

६२५-६२६. इदानि समाधिकथा नाम होति. तत्थ येसं एकचित्तक्खणे उप्पन्नापि एकग्गता समाधानट्ठेन समाधीति अग्गहेत्वा ‘‘सत्त रत्तिन्दिवानि एकन्तसुखपटिसंवेदी विहरितु’’न्तिआदिवचनं (म. नि. १.१८०) निस्साय ‘‘चित्तसन्तति समाधी’’ति लद्धि, सेय्यथापि सब्बत्थिवादानञ्चेव उत्तरापथकानञ्च; ते सन्धाय चित्तसन्ततीति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि चित्तसन्तति समाधि, चित्तसन्तति नाम अतीतापि अत्थि, अनागतापि अत्थि. न हि एकं पच्चुप्पन्नचित्तमेव चित्तसन्तति नाम होति, किं ते सब्बापि सा समाधी’’ति चोदेतुं अतीतातिआदिमाह, इतरो तथा अनिच्छन्तो पटिक्खिपति.

ननु अतीतं निरुद्धन्तिआदि ‘‘चित्तसन्ततियं पच्चुप्पन्नमेव चित्तं किच्चकरं, अतीतानागतं निरुद्धत्ता अनुप्पन्नत्ता च नत्थि, कथं तं समाधि नाम होती’’ति दस्सेतुं वुत्तं. एकचित्तक्खणिकोति पुच्छा परवादिस्स. ततो या सकसमये ‘‘समाधिं, भिक्खवे, भावेथा’’तिआदीसु पच्चुप्पन्नकुसलचित्तसम्पयुत्ता एकग्गता समाधीति वुत्ता, तं सन्धाय पटिञ्ञा सकवादिस्स. चक्खुविञ्ञाणसमङ्गीतिआदि ‘‘एकचित्तक्खणिको’’ति वचनमत्तं गहेत्वा छलेन वुत्तं, तेनेव सकवादिना पटिक्खित्तं. ननु वुत्तं भगवताति सुत्तं पुरिमपच्छिमवसेन पवत्तमानस्स समाधिस्स अब्बोकिण्णतं साधेति, न सन्ततिया समाधिभावं, तस्मा असाधकन्ति.

समाधिकथावण्णना.