४. ञाणकथावण्णना

६१४-६१५. इदानि ञाणकथा नाम होति. तत्थ मग्गञाणेन अञ्ञाणे विगतेपि पुन चक्खुविञ्ञाणादिवसेन ञाणविप्पयुत्तचित्ते वत्तमाने यस्मा तं मग्गचित्तं न पवत्तति, तस्मा ‘‘न वत्तब्बं ञाणी’’ति येसं लद्धि, सेय्यथापि महासंघिकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि अञ्ञाणे विगते ‘ञाणी’ति पञ्ञत्ति न सिया, रागादीसु विगतेसु वीतरागादिपञ्ञत्तिपि न सियाति पुग्गलपञ्ञत्तियं अकोविदोसी’’ति चोदेतुं रागे विगतेतिआदिमाह. इतरो तेसु विगतेसु सरागादिभावे युत्तिं अपस्सन्तो पटिक्खिपति. परियोसाने यस्मा ञाणपटिलाभेन सो ञाणीति वत्तब्बतं अरहति, तस्मा न हेवन्ति पटिक्खेपो सकवादिस्साति.

ञाणकथावण्णना.