१-३. तिस्सोपि अनुसयकथावण्णना

६०५-६१३. इदानि अनुसया अब्याकता, अहेतुका, चित्तविप्पयुत्ताति तिस्सोपि अनुसयकथा नाम होन्ति. तत्थ यस्मा पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सानुसयो’’ति वत्तब्बो, यो चस्स तस्मिं खणे हेतु, न तेन हेतुना अनुसया सहेतुका, न तेन चित्तेन सम्पयुत्ता, तस्मा ‘‘ते अब्याकता, अहेतुका, चित्तविप्पयुत्ता’’ति येसं लद्धि, सेय्यथापि महासंघिकानञ्चेव सम्मितियानञ्च; ते सन्धाय तीसुपि कथासु पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं हेट्ठा वुत्तनयत्ता सक्का पाळिमग्गेनेव जानितुन्ति, तस्मा न वित्थारितन्ति.

तिस्सोपि अनुसयकथावण्णना.