२. रूपंमग्गोतिकथावण्णना

५७३-५७५. इदानि रूपं मग्गोतिकथा नाम होति. तत्थ येसं ‘‘सम्मावाचाकम्मन्ताजीवा रूप’’न्ति लद्धि, सेय्यथापि महिसासकसम्मितियमहासंघिकानं; ते सन्धाय मग्गसमङ्गिस्साति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि ते सम्मावाचादयो रूपं, न विरतियो, यथा सम्मादिट्ठादिमग्गो सारम्मणादिसभावो, एवं तम्पि रूपं सिया’’ति चोदेतुं सारम्मणोतिआदिमाह. तत्थ पटिक्खेपो च पटिञ्ञा च परवादिनो लद्धिअनुरूपेन वेदितब्बा. सेसमेत्थ उत्तानत्थमेवाति.

रूपं मग्गोतिकथावण्णना.