३. पञ्चविञ्ञाणसमङ्गिस्स मग्गकथावण्णना

५७६. इदानि पञ्चविञ्ञाणसमङ्गिस्स मग्गकथा नाम होति. तत्थ येसं ‘‘चक्खुना रूपं दिस्वा न निमित्तग्गाही होती’’ति सुत्तं निस्साय ‘‘पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति लद्धि, सेय्यथापि महासंघिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘सचे तस्स मग्गभावना अत्थि, पञ्चविञ्ञाणगतिकेन वा मग्गेन, मग्गगतिकेहि वा पञ्चविञ्ञाणेहि भवितब्बं, न च तानि मग्गगतिकानि अनिब्बानारम्मणत्ता अलोकुत्तरत्ता च, न मग्गो पञ्चविञ्ञाणगतिको तेसं लक्खणेन असङ्गहितत्ता’’ति चोदेतुं ननु पञ्चविञ्ञाणा उप्पन्नवत्थुकातिआदिमाह. तत्रायं अधिप्पायो – यदि पञ्चविञ्ञाणसमङ्गिस्स मग्गभावना सिया, येन मनोविञ्ञाणेन मग्गो सम्पयुत्तो, तम्पि पञ्चविञ्ञाणसमङ्गिस्स सिया. एवं सन्ते यदिदं ‘‘पञ्चविञ्ञाणा उप्पन्नवत्थुका’’तिआदि लक्खणं वुत्तं, तं एवं अवत्वा ‘‘छ विञ्ञाणा’’ति वत्तब्बं सिया. तथा पन अवत्वा ‘‘पञ्चविञ्ञाणा’’त्वेव वुत्तं, तस्मा न वतब्बं ‘‘पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति. यस्मा चेत्थ अयमेव अधिप्पायो, तस्मा सकवादी तं लक्खणं परवादिं सम्पटिच्छापेत्वा नो च वत रे वत्तब्बे पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावनाति आह.

अपरो नयो – पञ्चविञ्ञाणा उप्पन्नवत्थुका, मग्गो अवत्थुकोपि होति. ते च उप्पन्नारम्मणा, मग्गो नवत्तब्बारम्मणो. ते पुरेजातवत्थुकाव मग्गो अवत्थुकोपि. ते पुरेजातारम्मणा, मग्गो अपुरेजातारम्मणो. ते अज्झत्तिकवत्थुकाव मग्गो अवत्थुकोपि होति. ते च रूपादिवसेन बाहिरारम्मणा, मग्गो निब्बानारम्मणो. ते अनिरुद्धं वत्थुं निस्सयं कत्वा पवत्तनतो असम्भिन्नवत्थुका, मग्गो अवत्थुकोपि. ते अनिरुद्धानेव रूपादीनि आरब्भ पवत्तनतो असम्भिन्नारम्मणा, मग्गो निब्बानारम्मणो. ते नानावत्थुका, मग्गो अवत्थुको वा एकवत्थुको वा. ते नानारम्मणा मग्गो एकारम्मणो. ते अत्तनो अत्तनोव रूपादिगोचरे पवत्तनतो न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, मग्गो रूपादीसु एकम्पि गोचरं न करोति. ते किरियमनोधातुं पुरेचारिकं कत्वा उप्पज्जनतो न असमन्नाहारा न अमनसिकारा उप्पज्जन्ति, मग्गो निरावज्जनोव. ते सम्पटिच्छनादीहि वोकिण्णा उप्पज्जन्ति, मग्गस्स वोकारोयेव नत्थि. ते अञ्ञमञ्ञं पुब्बचरिमभावेन उप्पज्जन्ति, मग्गस्स तेहि सद्धिं पुरिमपच्छिमताव नत्थि, तेसं अनुप्पत्तिकाले तिक्खविपस्सनासमये, तेसं अनुप्पत्तिदेसे आरुप्पेपि च उप्पज्जनतो. ते सम्पटिच्छनादीहि अन्तरितत्ता न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति, मग्गस्स सम्पटिच्छनादीहि अन्तरितभावोव नत्थि. तेसं अञ्ञत्र अभिनिपाता आभोगमत्तम्पि किच्चं नत्थि, मग्गस्स किलेससमुग्घातनं किच्चन्ति. यस्मा चेत्थ अयम्पि अधिप्पायो, तस्मा सकवादी इमेहाकारेहि परवादिं मग्गस्स अपञ्चविञ्ञाणगतिकभावं सम्पटिच्छापेत्वा नो च वत रे वत्तब्बे पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावनाति आह.

५७७. सुञ्ञतं आरब्भाति ‘‘यथा लोकुत्तरमग्गो सुञ्ञतं निब्बानं आरब्भ, लोकियो सुद्धसङ्खारपुञ्जं आरब्भ उप्पज्जति, किं ते एवं चक्खुविञ्ञाण’’न्ति पुच्छति. इतरो ‘‘चक्खुञ्च पटिच्च रूपे चा’’ति वचनतो पटिक्खिपति. दुतियं पुट्ठो ‘‘न निमित्तग्गाही’’ति वचनतो यं तत्थ अनिमित्तं, तदेव सुञ्ञतन्ति सन्धाय पटिजानाति. चक्खुञ्च पटिच्चाति पञ्हद्वयेपि एसेव नयो.

५७८-५७९. चक्खुविञ्ञाणं अतीतानागतं आरब्भाति एत्थ अयमधिप्पायो – मनोविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्ञाणञ्च अतीतानागतम्पि आरब्भ उप्पज्जति, किं ते एवं चक्खुविञ्ञाणम्पीति. फस्सं आरब्भातिआदीसुपि एसेव नयो. चक्खुना रूपं दिस्वा न निमित्तग्गाहीति एत्थ जवनक्खणे न निमित्तग्गाहिता वुत्ता, न चक्खुविञ्ञाणक्खणे. तस्मा लोकियमग्गम्पि सन्धायेतं असाधकन्ति.

पञ्चविञ्ञाणसमङ्गिस्स मग्गकथावण्णना.