६. अतीतानागतारम्मणकथावण्णना

५५९-५६१. इदानि अतीतानागतारम्मणकथा नाम होति. तत्थ यस्मा अतीतानागतारम्मणं नाम नत्थि, तस्मा तदारम्मणेन चित्तेन आरम्मणस्स नत्थिताय अनारम्मणेन भवितब्बन्ति अतीतं अनारम्मणन्ति येसं लद्धि, सेय्यथापि उत्तरापथकानं, ते सन्धाय अतीतारम्मणन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ यथापाळिमेव निय्यातीति.

अतीतानागतारम्मणकथावण्णना.