७. वितक्कानुपतितकथावण्णना

५६२. इदानि वितक्कानुपतितकथा नाम होति. तत्थ वितक्कानुपतिता नाम दुविधा – आरम्मणतो च सम्पयोगतो च. तत्थ असुकचित्तं नाम वितक्कस्सारम्मणं न होतीति नियमाभावतो सिया सब्बं चित्तं वितक्कानुपतितं, वितक्कविप्पयुत्तचित्तसब्भावतो पन न सब्बं चित्तं वितक्कानुपतितं. इति इमं विभागं अकत्वा अविसेसेनेव सब्बं चित्तं वितक्कानुपतितन्ति येसं लद्धि, सेय्यथापि उत्तरापथकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ पाळिवसेनेव निय्यातीति.

वितक्कानुपतितकथावण्णना.