५. ञाणं अनारम्मणन्तिकथावण्णना
५५७-५५८. इदानि ञाणं अनारम्मणन्तिकथा नाम होति. तत्थ यस्मा अरहा चक्खुविञ्ञाणसमङ्गी ञाणीति वुच्चति, तस्स ञाणस्स तस्मिं खणे आरम्मणं नत्थि, तस्मा ञाणं अनारम्मणन्ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ अनुसयकथायं वुत्तनयेनेव वेदितब्बन्ति.
ञाणं अनारम्मणन्तिकथावण्णना.