९. रूपं कम्मन्तिकथावण्णना

५२७-५३७. इदानि रूपं कम्मन्तिकथा नाम होति. तत्थ येसं कायवचीविञ्ञत्तिसङ्खातं रूपमेव कायकम्मं वचीकम्मं नाम, तञ्च कुसलसमुट्ठानं कुसलं, अकुसलसमुट्ठानं अकुसलन्ति लद्धि, सेय्यथापि महिसासकानञ्चेव सम्मितियानञ्च; ते सन्धाय कुसलेन चित्तेन समुट्ठितन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं सचे तं कुसलं, य्वायं सारम्मणादिभेदो कुसलस्स लब्भति, अत्थि ते सो तस्साति चोदेतुं सारम्मणन्तिआदि आरद्धं. तत्थ पत्थना पणिधीति चेतनायेवेतं वेवचनं. कुसलचेतनायेव हि पकप्पयमाना पत्थनाति. पकप्पनवसेन ठितत्ता पणिधीति च वुच्चति. परतो पन कुसलेन चित्तेन समुट्ठिता वेदना सञ्ञा चेतना सद्धातिआदीसु वेदनादीनञ्ञेव चेत्थ पत्थना पणिधीति लब्भति, न चेतनाय. कस्मा? द्विन्नं चेतनानं एकतो अभावा, सोतपतितत्ता पन एवं तन्ति गताति वेदितब्बा. रूपायतनन्तिआदि पुरिमवारे ‘‘सब्बन्तं कुसल’’न्ति संखित्तस्स पभेददस्सनत्थं वुत्तं. सेसा संसन्दननया, वचीकम्मकथा ‘‘अकुसलेन चित्तेन समुट्ठित’’न्तिआदिविधानञ्च सब्बं पाळिअनुसारेनेव वेदितब्बं. असुचीति पनेत्थ सुक्कं अधिप्पेतं. सुत्तसाधनं उत्तानत्थमेव.

रूपं कम्मन्तिकथावण्णना.