१०. जीवितिन्द्रियकथावण्णना
५४०. इदानि जीवितिन्द्रियकथा नाम होति. तत्थ येसं जीवितिन्द्रियं नाम चित्तविप्पयुत्तो अरूपधम्मो, तस्मा रूपजीवितिन्द्रियं नत्थीति लद्धि, सेय्यथापि पुब्बसेलियानञ्चेव सम्मितियानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. नत्थि रूपीनं धम्मानं आयूति पञ्हे उपादिन्नरूपानम्पि तिणकट्ठादीनम्पि सन्तानवसेन पवत्तिमेव आयु ठिति यपना यापना इरियना वत्तना पालनाति इच्छति, तस्मा पटिक्खिपति. अत्थीति पञ्हेपि इमिना कारणेन पटिजानाति. अत्थि अरूपजीवितिन्द्रियन्ति पञ्हे अरूपधम्मानं चित्तविप्पयुत्तं जीवितिन्द्रियसन्तानं नाम अत्थीति इच्छति, तस्मा पटिजानाति.
५४१. रूपीनं धम्मानं आयु अरूपजीवितिन्द्रियन्ति पञ्हे सत्तसन्ताने रूपिनो वा होन्तु अरूपिनो वा, सब्बेसं चित्तविप्पयुत्तं अरूपजीवितिन्द्रियमेव इच्छति, तस्मा पटिजानाति.
५४२. निरोधसमापन्नपञ्हेसुपि चित्तविप्पयुत्तं अरूपजीवितमेव सन्धाय पटिक्खिपति च पटिजानाति च. सकवादी पन तं असम्पटिच्छन्तो यं अरूपपवत्ते असति अत्थि, रूपेन तेन भवितब्बन्ति चोदेतुं हञ्चीतिआदिमाह. सङ्खारक्खन्धपञ्हे फस्सादिसङ्खारक्खन्धं सन्धाय पटिक्खिपति, कायकम्मादिसङ्खारक्खन्धं सन्धाय पटिजानाति. कायविञ्ञत्ति वचीविञ्ञत्ति सम्मावाचा सम्माकम्मन्तो जीवितिन्द्रियन्ति एवमादयोपि धम्मा सङ्खारक्खन्धपरियापन्नातिस्स लद्धि. सकवादी पन तं असम्पटिच्छन्तो यदि निरुद्धेपि अरूपपवत्ते सङ्खारक्खन्धो अत्थि, चतुन्नम्पि खन्धानं अत्थिता होतूति चोदेतुं अत्थि वेदनाक्खन्धोति आदिमाह. इतरो अन्तोसमापत्तिं सन्धाय पटिक्खिपति, समापज्जन्तस्स च वुट्ठहन्तस्स च पुब्बापरभागं सन्धाय पटिजानाति.
५४३. असञ्ञसत्तवारेपि एसेव नयो. तस्स हि लद्धिया असञ्ञसत्तानं पटिसन्धिकाले चित्तं उप्पज्जित्वा निरुज्झति, तेन सह चित्तविप्पयुत्तअरूपजीवितिन्द्रियं उप्पज्जित्वा यावतायुकं पवत्तति. तस्मा तेसं जीवितिन्द्रियं नत्थीति पुट्ठो पटिक्खिपति, अत्थीति पुट्ठो पटिजानाति. वेदनाक्खन्धादयोपि तेसं पवत्तिवसेन पटिक्खिपति, चुतिपटिसन्धिवसेन पटिजानाति. सकवादी पन तं अनिच्छन्तो ‘‘सचे तत्थ एकक्खणेपि वेदनादयो अत्थि, पञ्चवोकारभवत्तं पापुणाती’’ति चोदेतुं पञ्चवोकारभवोति आह. इतरो सुत्तविरोधभया पटिक्खिपति.
५४४-५४५. एकदेसं भिज्जतीति पञ्हे सम्पयुत्तं भिज्जति, विप्पयुत्तं तिट्ठतीति तस्स लद्धि, तस्मा पटिजानाति. द्वे जीवितिन्द्रियानीति पुच्छा परवादिस्स, पटिञ्ञा सकवादिस्स. रूपारूपवसेन हि द्वे जीवितिन्द्रियानि, तेहियेव सत्तो जीवति, तेसं भङ्गेन मरतीति वुच्चति. चुतिक्खणस्मिञ्हि द्वेपि जीवितानि सहेव भिज्जन्ति.
जीवितिन्द्रियकथावण्णना.