७. आकासो सनिदस्सनोतिकथावण्णना
४६३-४६४. इदानि आकासो सनिदस्सनोतिकथा नाम होति. तत्थ येसं ताळच्छिद्दादीसु ञाणप्पवत्तिं निस्साय ‘‘सब्बोपि अजटाकासो सनिदस्सनो’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय आकासो सनिदस्सनोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि सनिदस्सनो, एवंविधो भवेय्या’’ति चोदनत्थं रूपन्तिआदि वुत्तं. चक्खुञ्च पटिच्चातिपञ्हेसु एवरूपस्स सुत्तस्स अभावेन पटिक्खिपित्वा तुलन्तरिकादीनं उपलद्धिं निस्साय पटिजानाति. द्विन्नं रुक्खानं अन्तरन्ति एत्थ रुक्खरूपं चक्खुना दिस्वा अन्तरे रूपाभावतो आकासन्ति मनोद्वारविञ्ञाणं उप्पज्जति, न चक्खुविञ्ञाणं. सेसेसुपि एसेव नयो. तस्मा असाधकमेतन्ति.
आकासो सनिदस्सनोतिकथावण्णना.