१०. पथवीधातुसनिदस्सनातिआदिकथावण्णना
४६५-४७०. इदानि पथवीधातु सनिदस्सनातिआदिकथा नाम होति. तत्थ येसं पासाणउदकजालरुक्खचलनानञ्चेव पञ्चिन्द्रियपतिट्ठोकासानञ्च वण्णायतनं कायविञ्ञत्तिकाले हत्थपादादिरूपञ्च दिस्वा ‘‘पथवीधातुआदयो सनिदस्सना’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय सब्बकथासु आदिपुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं सब्बत्थ पाळिअनुसारेन चेव हेट्ठा वुत्तनयेन च वेदितब्बन्ति. पथवीधातु सनिदस्सनाति आदिं कत्वा कायकम्मं सनिदस्सनन्ति परियोसानकथा निट्ठिता.
छट्ठो वग्गो.