५. निरोधसमापत्तिकथावण्णना

४५७-४५९. इदानि निरोधसमापत्तिकथा नाम होति. तत्थ निरोधसमापत्तीति चतुन्नं खन्धानं अप्पवत्ति. यस्मा पन सा करियमाना करियति, समापज्जियमाना समापज्जियति, तस्मा निप्फन्नाति वुच्चति. सङ्खतासङ्खतलक्खणानं पन अभावेन न वत्तब्बा ‘‘सङ्खताति वा असङ्खता’’ति वा. तत्थ येसं ‘‘यस्मा सङ्खता न होति, तस्मा असङ्खता’’ति लद्धि, सेय्यथापि अन्धकानञ्चेव उत्तरापथकानञ्च; ते सन्धाय निरोधसमापत्तीति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. उप्पादेन्तीतिआदि समापज्जनपटिलाभवसेनेव वुत्तं. यथा पन रूपादयो असङ्खतधम्मे उप्पादेन्ति; न तथा तं केचि उप्पादेन्ति नाम. निरोधा वोदानं वुट्ठानन्ति फलसमापत्ति वेदितब्बा. असङ्खता पन तं नत्थियेव, तस्मा पटिक्खिपति. तेन हीति यस्मा सङ्खता न होति, तस्मा असङ्खताति लद्धि. इदं पन असङ्खतभावे कारणं न होतीति वुत्तम्पि अवुत्तसदिसमेवाति.

निरोधसमापत्तिकथावण्णना.